SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ सूत्रार्यमुक्तापल्याम् [चतुर्थी तथा करणं मिश्रद्रव्योपक्रमः । शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः । चन्द्रोपरागादिलक्षणकालस्योपायेन परिज्ञानं कालोपक्रमः । प्रशस्ताप्रशस्तभावस्योपायतः परिज्ञानमेव भावोपक्रमः, तत्राप्रशस्तो डोड्डिनीगणिकामात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति । एवञ्च धार्मिकस्य-संयतस्य चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपक्रमो धार्मिकोपक्रमः । असंयतस्थासंयमार्थ 5 तथाविधोपक्रमोऽधार्मिकोपक्रमः, देशविरतस्य तथाविधोपक्रमो मिश्रोपक्रमः । खाम्यन्तरभेदेनोपक्रम त्रिधाऽभिधत्ते-खकीयेति, खस्य-आत्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रम:-वैहानसादिना विनाशः परिकर्म वा, अथवाऽन्यवस्तुन आत्मार्थमुपक्रमः स्वकीयोपक्रमः, परस्य परार्थं वोपक्रमः परकीयोपक्रमः, स्वपरयोस्तदुभयाथ वोपक्रमो मिश्रोपक्रमः । एवं स्वपरमिश्रभेदेन वैयावृत्त्यादयोऽपि वाच्या इत्याह तथेति, वैयावृत्त्य-भक्तादिभिरुपष्टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं 10 ग्लानादिप्रतिजागरकस्य, उभयवैयावृत्त्यं गच्छवासिनः । अनुग्रहो ज्ञानाद्युपकारः, आत्मानुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिप्रवृत्तस्य, उभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्य । आदिनाऽनुशासनोपालम्भयोर्ग्रहणम् , अनुशासनमात्मनः 'द्विचत्वारिंशदेषणासङ्कटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्यामिति । परानुशासनं यथा 'तत्त्वं तेषां भाव वैद्यो भवदुःखनिपीडिता एते त्वाम् । हन्दि शरणं प्रपन्ना मोचयितव्याः प्रयत्नेनेति । उभयानुशासनं 16 यथा 'कथं कथमपि मानुषत्वादि प्राप्तं प्रवरं चारित्ररत्नश्च । तद्भो! अत्र प्रमादो न कदापि युज्यतेऽस्माकमिति । उपालम्भ अनौचित्यप्रतिपादनगर्भमनुशासनमेव, स चात्मनो यथा 'भोजनादिदृष्टान्तैर्दुर्लभं लब्ध्वा मानुषं जन्म । यन्न करोषि जिनधर्म आत्मा किं वैरी तव ?' इति, परोपालम्भो यथा 'उत्तमकुलसम्भूत उत्तमगुरुदीक्षितः त्वं वत्स! । उत्तमज्ञानगुणाढ्यः कथं सहसा व्यवसितोऽसि' इति । उभयोपालम्भो यथा 'एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये 20 केचित्तेषां किं शाश्वतं जीवितमिति ॥ ७० ॥ अथ श्रुतधर्मभेदा उच्यन्तेअर्थधर्मकामकथाभेदा कथा, तद्विनिश्चयभेदश्च विनिश्चयः॥ ७१ ॥ अर्थति, लक्ष्म्युपायप्रतिपादकवाक्यप्रबन्धोऽर्थकथा, तदुक्तं 'सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा कथाऽर्थस्य प्रकीर्तितेति । तथा 'अर्थाख्यः पुरुषार्थोऽयं प्रधानः 26 प्रतिभासते । तृणादपि लघु लोके धिगर्थरहितं नरमिति, इयश्च कामन्दकादिशास्त्ररूपा। धर्मोपायकथा धर्मकथा, उक्तश्च 'दयादानक्षमायेषु धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा बुधैर्धर्मकथोच्यत' इति, तथा 'धर्माख्यः पुरुषार्थोऽयं प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं धिग्धर्मरहितं नरमिति । इयवोत्तराध्ययनादिरूपा । एवं कामकथापि, यदाह 'कामोपादानगर्भा च वयोदाक्षिण्यसूचिका । अनुरागेगिताद्युत्था कथा कामस्य वर्णिते'ति, तथा 'स्मितं न लक्षण वचो न कोटिभिर्न कोटिलक्षैः सविला30 समीक्षितम् । अवाप्यतेऽन्यैर्हृदयोपगृहनं न कोटिकोट्यापि तदस्ति कामिनाम्'। इतीयमपि वात्स्या यनादिरूपा । अर्थधर्मकामविनिश्चयाश्च तत्तत्स्वरूपपरिज्ञानरूपाः, ते च 'अर्थानामर्जने दुःखमर्जिता
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy