________________
मुक्ता]
सानमुक्तालरिका। योगेति, मिथ्यात्वमक्रियाऽविनयाज्ञानभेदेन त्रिधा, अत्र मिथ्यात्वं क्रियादीनामसम्यभूपत्वं मिथ्यादर्शनानाभोगादिजनितविपर्यासरूपं वा विवक्षितं न तु विपर्यस्तश्रद्धानम्, प्रयोगक्रियादिध्वसम्बध्यमानत्वात्, अक्रिया च मिथ्यात्वाद्युपहतस्यामोक्षसाधकानुष्ठानरूपा दुष्टक्रिया, विनयः प्रति. पत्तिविशेषस्तत्प्रतिषेधादविनयः, अज्ञानञ्चासम्यग्ज्ञानम् , अक्रियाऽपि प्रयोगसमुदानाज्ञानक्रियाभेदाविधा, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते व्यापार्यत इति प्रयोगो मनोवाकायलक्षण- 6 स्तस्य क्रिया-व्यापृतिरिति प्रयोगक्रिया प्रयोगैर्वा मनःप्रभृतिभिः क्रियते बध्यत इति प्रयोगक्रिया सा च कर्म, सा क्रिया दुष्टत्वादक्रिया, मन आदिसम्बन्धित्वाच्च त्रिधा, प्रयोगक्रियागृहीतानां कर्मवर्गणानां प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च सम्यक् स्वीकरणं समुदानः, सैव क्रिया समुदानक्रिया, इयञ्च प्रथमसमयवर्त्तिन्यन्तरसमुदानक्रिया, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रिया, प्रथमाप्रथमसमयापेक्षया च तदुभयसमुदानक्रियेति त्रिधा । अज्ञानाचेष्टा कर्म वाऽज्ञानक्रिया सा 10 मत्यज्ञाना क्रिया-अनुष्ठानं मत्यज्ञानक्रिया, एवं श्रुताज्ञानक्रिया, मिथ्यादृष्टेरवधिरेवाज्ञानं ततः क्रिया विभङ्गाज्ञानक्रियेति त्रिधा । जन्मक्षेत्रादेर्देशस्य यस्मादविनयात्त्यागः स देशत्यागः प्रभुगालीप्रदानाविरूपोऽविनयः । गच्छकुटुम्बादेराश्रयणीयादालम्बनान्निर्गतस्तद्भावो निरालम्बनता, पुष्टालम्बनाभावेनोचितप्रतिपत्तिभ्रंशो वा निरालम्बनता, आराध्यतत्सम्मतविषयं प्रेम, आराध्यासंमतविषयो द्वेषः, एतौ च विनयौ, नानाप्रकारौ एतौ-नानाप्रेमद्वेषावविनयः, आराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेना-15 नियतविषयत्वात् , इत्येवं त्रिधाऽज्ञानक्रिया, अज्ञानमपि देशसर्वभावभेदेन त्रिविधम् , ज्ञानं हि सर्वद्रव्यपर्यायविषयो बोधः, तन्निषेधोऽज्ञानम् , तत्र विवक्षितद्रव्यस्य देशतोऽज्ञाने देशाज्ञानं सर्वतोऽज्ञाने सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमित्येतत्सर्वं मिथ्यात्वमिति भावः॥६९॥
मिथ्यात्वविपर्ययं धर्ममाह
श्रुतचारित्रास्तिकायधर्मभेदो धर्मः, धार्मिकाधार्मिकमिश्रभेदः खकी- 20 यपरकीयमिश्रभेदो वोपक्रमः तथा वैयावृत्त्यानुग्रहादयोऽपि ॥ ७० ॥
श्रुतेति, श्रुतधर्मः स्वाध्यायः, चारित्रधर्मः क्षान्त्यादिश्रमणधर्मः, एतौ द्वौ भावधर्मों विज्ञेयौ, अतिशब्देन प्रदेशा प्रायाः, तेषां कायः-समूहोऽस्तिकायः, तत्संज्ञको धर्मोऽस्तिकायधर्मः, गत्युपष्टम्भको धर्मास्तिकाय इत्यर्थः, अयश्च द्रव्यधर्मः श्रुतचारित्रधर्मविशेषानाह-धार्मिकेति, उपक्रमः-उपायपूर्वकारम्भा, श्रुतचारित्रार्थः आरम्मो धार्मिकः, अश्रुतसंयमार्थः आरम्भोऽधार्मिकः, मिश्रश्च देशविरत्यारम्भः125 नामस्थापनाद्रव्यक्षेत्रकालभावभेदाद्वोपक्रमः षड्विधः, नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तूभयव्यतिरिक्तः सचित्ताचित्तमिश्रभेदात्रिविधः, आयो द्विपदचतुष्पदापदभेदवान् , प्रत्येकं परिकर्मवस्तुविनाशापेक्षया द्विविधः, तत्र परिकर्मद्रव्यस्य गुणविशेषकरणं यथा घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम् , शुकसारिकादीनां वा शिक्षागुणविशेषकरणम् , चतुष्पदानां हस्त्यादीनामपदानाश्च वृक्षादीनां तदायुर्वेदोपदेशाद्वार्धक्याषिगुणापादनम्, वस्तुविनाशः पुरुषहस्त्यादीनां खन्नादिभिर्विनाशकरणम् । पद्मरागादि- 30 मणेः क्षारसूत्पुटपाकादिना नैर्मल्यापादनं विनासायाचित्तद्रव्योपक्रमः । कटकाविविभूषितपुरुषाविद्रव्यल