SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८६ सूत्रार्थमुक्तावल्याम् [ चतुर्थी वनज्ञा देवा इतश्यवनौजःशुक्रसंश्लिष्टाहाराभ्यवहाराशुचिगर्भवासेभ्य उद्वेगं यान्ति ॥ ६६ ॥ निष्प्रभेति, त्रिभिः स्थानैर्देवा: स्वच्यवनमितो जानन्ति यथा विमानाभरणानां निष्प्रभत्वत्पातिकं तचक्षुर्विभ्रमरूपं वा तस्मात्तथा चैत्यवृक्षस्य प्रकम्पनादेवं निजशरीरस्य दीप्तेनेश्व, 5 एवंविधानि लिङ्गानि देवानां च्यवनकालेऽवश्यं भवन्ति । त्रिभ्यः कारणेभ्यो उद्वेगं शोकं यान्ति, ममेतयवनं भविष्यतीत्येकं कारणम्, अपरचौजः शुक्रसंश्लिष्टाहाराभ्यवहारो मातुरोज :- आर्तवं पितुः शुक्रस्तदुभयलक्षणः परस्परमेकीभूतो य आहारः स गर्भवास कालस्य प्रथमसमय एवाभ्यवहर्त्तव्यो भविष्यतीति, अन्यत्तु जठरगतमलसमूहलक्षणायामशुचिभूतायामुद्वेगकारिण्यां भयानकायां गर्भरूपायां वसतौ वस्तव्यं हन्त ! एतादृश्यो दिव्यर्द्धिद्युतयो देवानुभावा लब्धाः परित्यजनीया इति ॥ ६६ ॥ नारकाद्याश्रयेणाह— 10 विकलेन्द्रियवर्जाः सम्यद्मिथ्यामिश्रदृष्टयः, नैरयिकतिर्ययनुष्या दुःस्थाः, सुस्थाश्च सिद्धदेवमनुष्याः ॥ ६७ ॥ विकलेति, एकेन्द्रियविकलेन्द्रियभिन्ना इत्यर्थः, पृथिव्यादीनां मिथ्यादृष्टित्वात् द्वित्रिचतुरि- न्द्रियाणां मिश्रदृष्टित्वाभावाच्च, त्रिविधदर्शनाश्च सुगतिदुर्गतियोगात्सुस्खा दुःस्थाश्च भवन्ति, मनु15 ष्याणां दुःस्थंता विवक्षयैव, सुस्थताया अप्युक्तेरिति ॥ ६७ ॥ अथ पुद्गलं नरकं चापेक्ष्याह प्रयोगमिश्रविस्त्रसापरिणताः पुनलाः, नैगमसङ्ग्रहव्यवहाराणामृजुसूत्रस्य शब्दनयानाञ्च नरकाः पृथिव्याकाशात्मप्रतिष्ठिताः ॥ ६८ ॥ प्रयोगेति, जीवव्यापारेण पटादिपुद्गलाः पटादितया परिणतिमुपनीताः प्रयोगपरिणताः, 20 पटला एव प्रयोगेण पटतया विस्रसापरिणामेन चानुपभोगेऽपि पुराणतया परिणताः मिश्नपरिणताः, अवेन्द्रधनुरादिरूपेण परिणताच स्वभावलक्षणविस्रसया परिणताः, विस्रसापरिणतपुद्गलरूपाणां नरकाबासानां नयापेक्षया त्रिस्थानप्रतिष्ठानमाह नैगमेति, नैगमसङ्ग्रहव्यवहाराणामशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च तन्मतेन नरकाणां पृथिवीप्रतिष्ठितत्वम्, ऋजुसूत्रस्य शुद्धत्वादाकाशस्य गच्छतां तिष्ठतां वा सर्वभावानामै कान्तिकाधारत्वाद्भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वं मतम्, शब्दनयानां 25 त्रयाणां शुद्धतत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्चात्मप्रतिष्ठितत्वमिति, न हि स्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्ति ॥ ६८ ॥ नरकेषु मिथ्यात्वाज्जीवानां गतेर्मिथ्यात्वस्वरूपमाह--- योगप्रयोगक्रिया, अनन्तरपरम्परतदुभयसमुदानक्रिया मतिश्रुतविभङ्गाज्ञानक्रिया चाक्रिया, देशत्यागनिरालम्बनता नानाप्रेमद्वेषमविनयो 10 देशसर्व भावाज्ञानमज्ञानमिति मिध्यात्वम् ॥ ६९ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy