________________
१८१
मुक्ता]
स्थानमुक्तासरिका। । नोसंज्ञेति, आहाराद्यभिलाषरूपसंज्ञायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेण नैवोपयुक्ता ये निर्ग्रन्थास्ते तथा, ते च त्रिविधाः, लब्ध्युपजीवनादिना संयमासारताकारकः पुलाकः, उपशान्तमोहः क्षीणमोहो वा निम्रन्थो घातिकर्ममलक्षालनावाप्तशुद्धज्ञानवरूपः स्नातकः । संज्ञा आहारादिविषया नोसंज्ञा च तदभावलक्षणा तयोरुपयुक्तास्त्रिविधाः, तत्र बकुश:-शरीरोपकरणविभूषादिना शबलचारित्रपटः । प्रतिसेवनया मूलगुणादिविषयया कुत्सितं शीलं यस्य स प्रतिसेवनाकुशीलः। कषायेण । कुत्सितशीलः कषायकुशीलः । निर्ग्रन्थाश्चारोपितव्रता भवन्ति केचित् , अतो व्रतारोपणकालविशेषमाह-उत्कृष्टेति, शिक्षामधीत इति शैक्षस्तस्य भूमयो महाव्रतारोपणकाललक्षणा अवस्थापदव्यः शैक्षभूमयः, उत्कृष्टा षनिर्मासैरुत्कर्षत उत्थाप्यते न तानतिक्रम्यत इति, मध्यमा चतुर्मासिका जघन्या रात्रिंदिवसप्तकमाना। शैक्षविपर्ययस्थविरभूमिनिरूपणायाह-जातीति, जन्मनाऽऽगमेन प्रव्रज्यया च ये वृद्धास्ते तथोच्यन्त इति भावः, तत्र षष्टिवर्षजातः श्रमणो जातिस्थविरः, स्थानाङ्गसमवायधरो निम्रन्थः 10 श्रुतस्थविरः, विंशतिवर्षपर्यायः श्रमणः पर्यायस्थविर इति, एते त्रयः क्रमेणानुकम्पापूजावन्दनायोग्या इति ॥ ५६ ॥ __अथ लोकस्थितिं विगपेक्षया जीवानां गत्यादि च निरूपयति
आकाशवातोदधिप्रतिष्ठिता पृथिवी, ऊर्ध्वाधस्तिर्यन्दिग्भ्यो गत्यागतिव्युत्क्रान्त्यादयः॥ ५७॥
16 .. आकाशेति, आकाशे धनवाततनुवातलक्षणो वातो व्यवस्थितः, सर्वद्रव्याणामाकाशप्रति- .. ष्ठितत्वात् , वातप्रतिष्ठितो घनोदधिस्तत्र प्रतिष्ठिता तमस्तमःप्रभादिका पृथिवीत्यर्थः । एवंविधे लोके जीवानां दिशोऽधिकृत्य गत्यादिभावादाह-ऊर्द्धति, पूर्वादितया वस्तु यया व्यपदिश्यते सा दिक्, अत्र तिर्यपदेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते विदिक्षु गत्यागतिव्युत्क्रान्तीनामघटमानत्वात् , जीवानामनुश्रेणिगमनात्, आदिपदग्राह्याहारवृद्धिहानिचलनसमुद्घातकालसंयोगदर्शनज्ञानाभिगमजीवाभिग- 20 मेषु च विदिशामविवक्षितत्वात् । गतिः प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, आगतिः प्रज्ञापकप्रत्यासन्नस्थाने आगमनम् , व्युत्क्रान्तिरुत्पत्तिः, आहारः प्रसिद्धः, वृद्धिहानी शरीरस्य, जीवत एव चलनम्, वेदनादिलक्षणः समुद्धातः, कालसंयोगो वर्तनादिकाललक्षणानुभूतिर्मरणयोगो वा, दर्शनाभिगमः प्रत्यक्षप्रमाणभूतेनावथ्यादिना बोधः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवण्यादिनैव बोधो जीवाभिगमः । एवं जीवानामजीवाभिगमः ऊधिस्तिर्यग्दिग्भ्यः । एते जीवाभिगमान्ता: 25 सामस्त्येन पञ्चेन्द्रियतिर्यक्षु मनुष्येषु सम्भवन्ति, न तु नारकादीनां द्वाविंशतेर्जीवविशेषाणाम् , तेषां नार- :: कदेवेषुत्पादाभावादूर्ध्वाधोविशोर्विवक्षया गत्यागत्योरभावः, एवं दर्शनशानजीवाभिगमा गुणप्रत्यया अवघ्यादिप्रत्यक्षरूपा विनये तेषां न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारकन्योतिष्कास्तिर्यगवषयो भवनपतिव्यन्तरा अविधयो वैमानिका अधोऽवधयः, एकेन्द्रियविकलेन्द्रियाणान्तु नास्त्येवावधिरिति ॥ ५७॥ ....... .............. .. ..
80 - प्रत्येकं पृथिव्यादयः प्रायोऽङ्गलासंख्येयभागमात्रावगाइनत्वादच्छेचादिखभाषा व्यवहारतो भवन्तीति निश्चयेन. तत्प्रस्तावादच्छेयादीनाह