________________
सूत्रार्थमुक्तावल्याम् ।
[चतुर्थी ज्ञानलोकस्य भावलोकता च क्षायिकक्षायोपशमिकमावरूपत्वात् , एवं दर्शनचारित्रलोकावपि । क्षेत्रलोकं त्रिधा वक्ति-ऊद्देति, रनप्रभाभागे बहुभूमिसमभागे मेरुमध्येऽष्टप्रदेशो रुचको भवति, तस्योपरितनप्रस्तरस्योपरिष्टान्नवयोजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत्तिर्यग्लोकः, ततः परत ऊर्ध्वलोक ऊर्ध्वभागस्थितत्वात् , देशोनसप्तरज्जुप्रमाणः । रुचकस्याधस्तनप्रस्तरस्याधो नवयोजनशतानि यावत्तिर्यग्लोकः, ततः परतोऽधोलोकोऽधःस्थितत्वात् सातिरेकसप्तरजुप्रमाणः । तदुभयलोकयोर्मध्येऽष्टादशयोजनशतप्रमाणस्तिर्यग्लोकः, तिर्यग्भागस्थितत्वात् ॥ ५३॥ . धर्मादिलाभसमयमाह
त्रिभिर्यामर्वयोभिश्च धर्मश्रवणबोध्यादिलाभः ॥ ५४॥
त्रिभिरिति, यद्यपि रात्रेर्दिनस्य च चतुर्थभागोऽपि प्रसिद्धस्तथापि त्रिभाग. एव पूर्वमध्यापर10 भेदेन त्रिस्थानकानुरोधाद्विवक्षितः, धर्मश्रवणबोधिमुण्डनानगारप्रव्रज्याब्रह्मचर्यवाससंयमसंवराभिनिबोधिकज्ञानकेवलदर्शनादयो दिनस्य रात्रेर्वा यामेषु भवन्ति, तथा प्रथमे मध्यमे पश्चिमे वा वयसीति ॥ ५४ ॥ .. : अथ बोध्यादिमाश्रित्याह
__बुद्धा मूढाश्च ज्ञानदर्शनचारित्रेषु, इहपरद्विधाप्रतिबद्धभेदात् पुस्तो Wमार्गतो विधाप्रतिबद्धभेदात्तोदयित्वा प्लावयित्वा सम्भाष्येति भेदादवपा"ताख्यात सङ्केतभेदाच त्रिधा प्रव्रज्या ॥ ५५ ॥ "" बुद्धा इति, सम्यग्बोधविशिष्टाः पुरुषात्रिधा ज्ञानबुद्धादयः, मूढा अपि झानमूढादिरूपेण त्रिविधाः, चारित्रबुद्धाश्च सत्यां प्रव्रज्यायामतस्तामाह- इहेति, पापाचरणव्यापारेषु गमनं प्रवज्या,
परणयोगगमनं मोक्षगमनमेव तत्कारणे तण्डुलान् वर्षति पर्जन्य इतिवत्कार्योपचारात् । इहलोकप्रति20 बद्धा ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामार्थिनाम् , द्विधाप्रतिबद्धा चोभ* यार्थिनाम् । प्रव्रज्यापर्यायभाषिषु शिष्यादिष्वप्रत आशंसनतः प्रतिबन्धादप्रतः प्रतिबद्धा । मार्गतः प्रतिबद्धा पृष्ठतः स्वजनादिषु स्नेहाच्छेदात्, द्विधाप्रतिबद्ध उभयथापि । तोदयित्वा प्रव्रज्या सा या व्यथामुत्पाद्य दीयते यथा मुनिचन्द्रपुत्रस्य सागरचन्द्रेण । प्लावयित्वा प्रव्रज्या च सा याऽन्यत्र नीत्वा
दीयते यथाऽऽर्यरक्षितस्य । सम्भाष्य प्रव्रज्या गौतमेन कर्षकवत् । अवपात:-सद्गुरूणां सेवा ततो. 26 या साऽवपातप्रव्रज्या । आख्यातेन-धर्मदेशनेन, आस्यातस्य-प्रव्रजेत्यभिहितस्य वा गुरुभिर्या साऽऽख्या
वप्रव्रज्या, फल्गुरक्षितस्येव । सङ्केताद्या सा संकेतप्रव्रज्या मेतार्यादीनामिव, अथवा यदि प्रव्रजसि तदा मया प्रबजितव्यमित्येवं या सा तथेति ॥ ५५ ॥
निर्मन्थखरूपमाह
नोसंज्ञोपयुक्तनिर्मन्थाः पुलाकनिम्रन्थमातकाः, संज्ञोपयुक्ताश्च 0 बकुशप्रतिसेवनाकुशीलकषायकुशीलाः, उत्कृष्टमध्यमजघन्याः शैक्षभूमयः, 'जातिश्रुतपर्यायस्थविराः स्थविरभूमयः ॥ ५६ ॥