SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मुक्ता] 2 .10 स्थानमुक्तासरिका। - ज्योतिष्काणों देवानाञ्च चलनादिकारणान्याह वैक्रियकरणपरिचरणसङ्क्रमणानि तारकाणां चलनहेतवः, देवस्य विद्युत्स्तनितक्रिययोक्रियकरण परिचरणसमृड्याद्युपदर्शनानि हेतवः॥४५॥ - वैक्रियकरणेति, तारकमात्रं हि वैक्रियं कुर्वच्चलेत् , परिचरणं-मैथुनार्थ संरम्भयुक्तं वा चलेत् , : स्थानाद्वैकस्मात्स्थानान्तरं संक्रामद्गच्छेत् , यथा धातकीखण्डादि मेरुं परिहरेदिति, अथवा कचिन्मह-5 द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थ चलेत् । देवस्येति, वैक्रियकरणेति, एतानि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दर्षोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तम् , विमानपरिवारादिः समृद्धिः, आदिना शरीराभरणादीनां गुतेर्यशसो बलस्य पराक्रमस्य च ग्रहणम् ॥ ४५ ॥ अथ लोकान्धकारादीन्याह 10 सर्वत्रान्धकारोऽर्हनिर्वाणतद्धर्मतच्छ्रुतव्यवच्छेदेभ्यः, उद्दयोतश्च तज्जन्मप्रवज्याज्ञानोत्पादमहिमासु, एवं देवसन्निपातादयोऽपि ॥ ४६॥ . . सर्वत्रेति, सर्वत्र क्षेत्रात्मके लोकेऽर्हत्सु निर्वाणं गच्छत्सु तत्प्रज्ञप्ते वा धर्मे तच्छुते वा व्यवच्छिद्यमाने द्रव्यतो लोकानुभावाद्भावतो वा प्रकाशस्वभावज्ञानाभावादन्धकारो भवेत् , अशोका- । द्यष्टप्रकारां परमभक्तिपरसुरासुररचितां जन्मान्तरमहालवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यम-15 हातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात्सिद्धिसौधशिखरारोहणश्वार्हन्तीत्यर्हन्तः । राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्खलतया, भगवत्स्वईदादिषु च निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवतीत्येतत्किमद्भुतम् । तथोड्योतश्चार्हत्सु जायमानेषु प्रव्रजमानेषु केवलज्ञानोत्पादे देवकृतमहोत्सवेषु च । एभिरेव त्रिभिः स्थानैर्देवानां भुवि समवतारो देवकृतः प्रमोदकलकलो देवाभ्युत्थानतदासनचलनचैत्यवृक्षचल-20 नादयो भवन्ति ॥ ४६॥ अर्हता धर्माचार्यतया सत्पूजाद्यर्थ देवानां मनुजलोक आगमः, धर्माचार्या अशक्यप्रत्युपकारा एतदेवाह पितरौ भर्ती धर्माचार्यश्च सेवासर्वखदानसुदेशादिप्रापणैरपि दुष्प्रतिकराः, धर्मस्थापनेनैव च सुप्रतिकराः ॥ ४॥ 25 पितराविति, एते त्रयः, दुःखेन-कृच्छ्रेण प्रतिक्रियन्ते कृतोपकारेण पुंसा प्रत्युपक्रियन्ते इति दुष्प्रतिकराः प्रत्युपकर्तुमशक्या इत्यर्थः, माता च पिता च पितरौ, जनकत्वेनैकत्वविवक्षणात्तस्यैकं स्थानम् , भर्ता पोषकः स्वामीत्यर्थः, धर्मदाता आचार्यों धर्माचार्यः, उक्तञ्च 'दुष्प्रतिकारौ मातापितरौ खामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः' इति, यो हि कुलीनो मानवोsहरहर्मातापितरौ शतपाकसहस्रपाकाभ्यां तैलाभ्यामभ्यङ्ग गन्धद्रव्येणोद्वलनश्च कृत्वा गन्धोदकोष्णो:३० २.मु.२३
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy