________________
१७६
सूत्रार्थमुम्
प्राणानतिपातादिकं गुप्तिसद्भाव इति तामाश्रित्याह
गुभ्यगुप्तिदण्डास्त्रिविधा योगतः ॥ ४२ ॥
[ चतुर्थी
गुप्तीति, गोपनं गुप्तिः, मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानाञ्च निवर्त्तनं मनोगुप्तिगुप्तिका गुप्तः, एताः संयतानामेव । एतद्विपरीतास्तिस्रोऽगुप्तयः, एता एकेन्द्रिय विकलेन्द्रिय5 संयतमनुष्यवर्णानाम्, एकेन्द्रियविकलेन्द्रियाणां यथायोगं बाङ्मनसोरसम्भवात् संयतानाश्चं गुप्म्युक्तः । विकलेन्द्रियवर्जानां त्रयो दण्डाः पापकर्माकरणतया स्वपरदण्डजुगुप्सालक्षणा गर्दापि त्रिविधा भाव्या तथा प्रत्याख्यानमपि ॥ ४२ ॥
पापकर्म प्रत्याख्यातारः परोपकारिणो भवन्तीति पुरुषान् प्ररूपयतिनामस्थापनाद्रव्यभेदाज्ज्ञानदर्शन चारित्र भेदाद्वेदचिह्नाभिलापभेदा'दुत्तममध्यम जघन्य भेदात्रिविधाः पुरुषाः ॥ ४३ ॥
नामेति, पुरुष इति नामैव नामपुरुषः, पुरुषप्रतिमादिः स्थापनापुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वा स द्रव्यपुरुषः । भावपुरुषभेदाश्च ज्ञानपुरुषादयः ज्ञानादिप्राधान्यात् । पुरुषवेदानुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवति । श्मश्रुप्रभृतिभिश्चिद्वैरुपलक्षितः पुरुषचिह्नपुरुषः, यथा नपुंसकः श्मश्रुचिह्न इति, पुरुषवेदो वा चिह्न - 15 पुरुषस्तेन चिह्नयते पुरुष इति कृत्वा । पुरुषवेषधारी वा रुयादिरिति । अभिलापः शब्दः स एव पुरुषः पुल्लिङ्गतयाऽभिधानात् यथा घटः कुटो वेति । अर्हन्तचक्रवर्त्तिनो वासुदेवा उत्तमपुरुषा भगवतो नाभेयस्य राज्यकाले य आरक्षका आसन् त उम्राः तत्रैव ये गुरवस्ते भोगाः, तत्रैव ये वयस्यास्ते राजन्या एते मध्यमपुरुषाः, दासीपुत्रादयो मूल्यतः कर्मकरा एते जघन्यपुरुषा इति ॥ ४३ ॥
20 अथ लेश्यास्त्रिस्थानकावतारेण निरूपयति
तेजोवायुविकलेन्द्रियनैरयिकाणामाद्यास्तिस्रो लेश्याः, कुमारवानव्यन्तराणां पृथिव्यव्वनस्पतीनाञ्च संक्लिष्टास्ता एव पञ्चेन्द्रियतिर्यमनुष्याणां संक्लिष्टा असंक्लिष्टाश्च तिस्रः, असंक्लिष्टास्तिस्रो वैमानिकानाम् ॥४४॥
तेज इति, आद्या इति कृष्णनीलकापोता इत्यर्थः, तेजोवायुविकलेन्द्रियेषु देवानुत्पत्या तेजो25 लेश्याया अभावात् निर्विशेषणतया लेश्यास्त्रय उक्ताः पृथिव्यन्वनस्पतिषु देवोत्पादसम्भवात्तेजोलेश्यासद्भावात्संकिष्टेति विशेषणमुपात्तम्, असुरकुमाराणां तेजोलेश्या वर्त्तते परं सा न संक्लिष्टेति । पचेन्द्रियतिरश्चां मनुष्याणाच संक्लिष्टा असंक्लिष्टास्तेजःपद्मशुकुलेश्याः षडपि, वैमानिकानामसंष्टिष्टा एवं ॐ त्रयः । ज्योतिष्काणां तेजोलेश्याया एव भावेन ते नोक्ताः, त्रिस्थानमानवताराविति ॥ ४४ ॥
-