SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७४ सूत्रार्थमुक्तावल्याम् [ चतुर्थी वक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वात् । न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधकः, भस्मच्छन्नाग्निना व्यभिचारादिति । इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनं नोआगमतो भावेन्द्रः, इन्द्रव्यपदेशनिबन्धनतयेन्द्रपदार्थज्ञानस्याविवक्षितत्वात्, इन्दनक्रियाया एव विवक्षितत्वाश्च नात्र सर्वनिषेधवचनो नोशब्दः । स्थापनेन्द्र इन्द्राकारस्य लक्ष्यमाण5 त्वात्, तत्कर्तुः सद्भूतेन्द्राभिप्रायत्वात्, द्रष्टुस्तदाकारप्रत्ययेनेन्द्रप्रत्ययात् प्रणतिकृतधियः फलार्थिनस्तत्स्तुतिप्रवृत्तेः, तद्देवतानुग्रहात् फलप्राप्तेश्चास्य नामद्रव्येन्द्राभ्यां भेदः । द्रव्येन्द्रस्य च भावेन्द्रकारणता - प्राप्तेः भाविभूतापेक्षया तदुपयोगवत्वाश्च नामस्थापनेन्द्राभ्यां भेदः । भावेन्द्रं त्रिस्थानकावतारेणाह - ज्ञानेति, ज्ञानस्य ज्ञाने वेन्द्रो ज्ञानेन्द्रः, अतिशयवच्छ्रुताद्यन्यतरज्ञानवश विवेचितवस्तुविस्तरः केवली वा, दर्शनेन्द्रः क्षायिकसम्यग्दर्शनी, चारित्रेन्द्रो यथाख्यातचारित्रः । एतेषां च सकलभावप्रधानक्षा10 यिकेन भावेन, विवक्षितक्षायोपशमिकलक्षणेन वा परमार्थतो वेन्द्रत्वात्, अन्य सकलसंसार्यप्राप्ता पूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद्भावेन्द्रताऽवसेया । अथ बालैश्वर्यापेक्षया प्राह - देवेति, देवाः वैमानिका ज्योतिष्कवैमानिका वा रूढे:, असुरा भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रश्चक्रवत्र्यादिरिति ॥ ३८ ॥ 4: 15 देवेन्द्रादीनां त्रयाणां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणामाह - बाह्याभ्यन्तरतदुभयपुद्गलान् पर्यादायापर्यादायोभयथा वा विकुर्वणा, एकेन्द्रियवर्जा नारकादयः कत्यकत्यवक्तव्यकसञ्चिताः ॥ ३९ ॥ बाह्येति, भवधारणीयशरीरानवगाढक्षेत्र प्रदेशवर्त्तिनो वैक्रियसमुद्घातेन बाह्यान् पुद्गलान् गृहीत्वा विकुर्वणा क्रियते, या तु भवधारणीयरूपैव साऽपर्यादाय विकुर्वणा, यत्तु भवधारणीयस्यैव किचिद्विशेषापादनं सा पर्यादायाप्यपर्यादायापीति तृतीया व्यपदिश्यते । यद्वा विकुर्वणा विभूषणं 20 तत्र बाह्यपुद्गलानादायाभरणादीन्, अपर्यादाय केशनखसमारचनादिना, उभयतस्तूभयथेति । अभ्यन्तरान् पुद्गलान् पर्यादाय विकुर्वणा भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढाव ये वर्त्तन्ते तेऽभ्यन्तरपुद्गला इति, तानपर्यादाय विकुर्वणा द्वितीया, उभयथेति तृतीया । भूषापक्षे निष्ठी - वनादय आभ्यन्तरपुद्गला इति । तदुभयपुद्गलान् पर्यादायापर्यादायोभयथेति त्रैविध्यम्, उभयेषा - मुपादानाद्भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनश्च अनादानाश्चिरविकुर्वितस्यैव मुखादि - 26 विकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषाश्चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति । विकुर्वणा चैवं नारकाणामपि भवत्यतो नारकाश्रयेणाह - एकेन्द्रियवर्जा इति, एकेन्द्रियेषु प्रतिसमयमसंख्याता अनन्ता वाऽकतिशब्दवाच्या एवोत्पद्यन्ते न त्वेकः संख्याता वा, अतस्तद्वर्जनम्, नारकादीत्यादिना चतुर्विंशतिदण्डकोक्ता वाच्याः, तत्र नारकाः कति संख्याता एकैक - समये ये उत्पन्नाः सन्तः सचिताः - कत्युत्पत्तिसाधर्म्याद् बुद्ध्या राशीकृता ते कतिचिताः । 80 एकैकसमयेऽसंख्याता उत्पन्नाः सन्तस्तथैव सचितास्तेऽकति सचिताः, यः परिणामविशेषो न कति नाप्यतीति शक्यते वक्तुं सोऽवक्तव्यकः, स चैक इति तत्सविता अवक्तव्यकसचिताः समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसंख्येयान्ता इति ॥ ३९ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy