________________
मुक्ता]
स्थानमुक्तासरिका। अथ त्रिस्थानकमाश्रित्य जीवधर्मानाह
नामस्थापनाद्रव्यभेदेन ज्ञानदर्शनचारित्रभेदेन देवासुरमनुष्यभेदेन चेन्द्रस्त्रिविधः ॥ ३८॥
नामेति, नाम संज्ञा, ऐश्वर्यादिन्द्र इति यथार्थ इन्द्रेत्यक्षरात्मक इन्द्रो नामेन्द्रः, यद्वा सचेतनस्याचेतनस्य वा यस्येन्द्र इति नाम यथार्थ क्रियते स नामतद्वतोरभेदोपचारान्नामेन्द्रः। अथवा नाग्न-5 वेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्रः। नामलक्षणश्च 'यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयश्च नाम यादृच्छिकञ्च तथा' इति । इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः, अक्षादिन्यासस्त्वितरः, स्थापनालक्षणञ्च 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालश्चेति । द्रव्यलक्षणन्तु 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम्' तथा 'अनु-10 पयोगो द्रव्यमप्रधानश्चेति । तत्तत्पर्यायगमनलक्षणं द्रव्यं तच्च भूतभावं भाविभावञ्च तथाविध इन्द्रो द्रव्येन्द्रः । स चाऽऽगमतो नोआगमतश्चेति द्विधा, ज्ञानापेक्षया तद्विपर्ययापेक्षयेति यावत्, इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः प्रथमः । द्वितीयस्तु ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदात्रिविधः, इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रज्ञानकारणत्वादिन्द्रज्ञानशून्यत्वाच्च । भाविनी वृत्ति-15 मङ्गीकृत्येन्द्रोपयोगाधारं यच्छरीरं मधुघटादिन्यायेनैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इन्द्रशब्दार्थज्ञानयोग्यत्वात् । तदुभयव्यतिरिक्तश्च भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तदपि तथा ज्ञशरीरद्रव्येन्द्रवत् , यश्च भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदपि तथा भव्यशरीरद्रव्येन्द्रवत् । स चावस्थानभेदेन त्रिविधः, एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, योऽनन्तरभव एवेन्द्रतयोत्पत्स्यते स आद्यः, 20 स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवात् । स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्षतः पूर्वकोटीत्रिभागं यावत् , ततः परमायुष्कबन्धाभावात् , संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहूर्तानन्तरभावितयेन्द्रसम्बन्धिनी नामगोत्रे यस्य सोऽभिमुखनामगोत्रः, तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाऽप्रधानत्वाच्छकादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि वृत्तेः । भावेन्द्रस्त्विह त्रिस्थानकानुरोधानोक्त:, 28 तल्लक्षणञ्च 'भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात्' इति, स चाऽऽगमतो नोआगमतश्च द्विधा, इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः, नन्विन्द्रोपयोगमात्रात् कथं तन्मयता, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, तदर्थक्रियाऽप्रसाधकत्वादिति चेन्न, अभिप्रायापरिज्ञानात् , संवित् ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्रार्थाभिधानप्रत्ययास्तुल्यनामधेया इति सर्ववादिनामविसंवादस्थानम् , यथा कोऽयम् ? घटः, किमयमाह ? घटशब्दम् , किमस्य 30 मानम् ? घट इति । अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञानेऽपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत्, पुरुषान्तरवद्वा । न चानाकारं सत्, पदार्थान्वरवद्वि