SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [चतुर्थी १७२ सूत्रार्यमुकावल्याम् देशे विधीयते तत्ततः शरीरस्य निस्सारणाग्निहरिमम् । यत्तु गिरिकन्दरादौ तदनिर्हरणादनिहारिमम् , नियमाच्छरीरप्रतिक्रियावजे पादपोपगमनं भवति । इङ्गितमरणन्त्विह नोक्तं द्विस्थानकानुरोधात् ॥३६॥ - पुनः सामान्येन बोध्यादीनाह ज्ञानेन दर्शनेन च बुद्धा मूढा देशेन सर्वतश्च ज्ञानदर्शनावरणीये, 5 सातासाते दर्शनचारित्रमोहनीये अद्धायुभवायुः शुभाशुभनामनी उच्चैनींचैर्गोत्रे प्रत्युत्पन्नविनाशिपिहितागामिपथावन्तरायो प्रेमप्रत्ययद्वेषप्रत्यये मू, श्रुतचारित्रे धर्माराधने अन्तक्रियाकल्पविमानोपपाते केवल्याराधने च॥३७॥ ज्ञानेनेति, जीवा बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्ति, तत्र केचिज्ज्ञानावरणक्षयो10 पशमसम्भूतज्ञानप्राप्त्या बुद्धाः, केचिच्च दर्शनमोहनीयक्षयोपशमादिसम्पन्नश्रद्धानप्राप्त्या, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वात् । तथा ज्ञानावरणोदयात् केचिन्मूढाः केचित्तु सम्यग्दर्शनमोहोदयात् , मोहश्च ज्ञानावरणादिकर्मनिबन्धनमिति ज्ञानावरणादीन्याहदेशेनेति, यत्कर्माभिनिबोधिकादिमावृणोति तद्देशज्ञानावरणीयम् , यच्च केवलमावृणोति तत्सर्वज्ञानावर णीयं केवलावरणं ह्यादित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति 15 सर्वज्ञानावरणम् , मत्याद्यावरणन्तु घनातिच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशज्ञानावरणम् । अथवा देशोपघातिसर्वोपघातिफडकापेक्षया देशसर्वावरणत्वमस्य । चक्षुरचक्षुरवधिदर्शनावरणीयं देशदर्शनावरणीयम् , निद्रादिपञ्चकं केवलदर्शनावरणीयञ्च सर्वदर्शनावरणीयम् । सातरूपेणासातरूपेण च द्विविधं वेदनीयम् । मिथ्यात्वसम्यक्त्वमिश्रभेदं दर्शनमोहनीयम् , सामायिकादेर्मोहनीयं चारित्रमोहनीयं कषायनोकषायभेदम् । चतसृष्वपि गतिषु 20 यदुःखं सुखश्च न ददाति दुःखसुखयोराधारं जीवं देहस्थितं धारयति च तदायुः कायस्थितिरूपं भवस्थितिरूपश्च । तीर्थकरादिकर्म शुभनामकर्म, अनादेयत्वाद्यशुभनामकर्म जीवस्य विविधानि शुभाशुभेष्टानिष्टरूपाणि करोति । पूज्यत्वनिबन्धनमुच्चैर्गोत्रं तद्विपरीतं नीचैर्गोत्रम् । जीवश्चार्थसाधनश्चान्तरा एतीत्यन्तरायः प्रत्युत्पन्नार्थविनाशकखभावो लब्धव्यार्थनिरोधकश्च । अष्टविधस्यापि कर्मणो मूर्छाज न्यत्वात्त विध्यं दर्शयति प्रेमप्रत्ययेति, मूर्योपात्तकर्मणः क्षय आराधनयेति तामाह श्रुतेति, आरा28 धना ज्ञानादिवस्तुनोऽनुकूलवर्त्तित्वं निरति चारज्ञानाद्यासेवना वा, धर्माराधनाकेवल्याराधनाभेदतो द्वेषा, धर्माराधना श्रुतधर्माराधनाचारित्रधर्माराधनाभेदतो द्विधा, अयञ्च भेदो विषयभेदात्, केवल्याराधना तु फलभेदात् , भवच्छेदहेतुः शैलेशीरूपाऽऽराधनाऽन्तक्रियेत्युच्यते, उपचारात् । एषा च क्षायिकज्ञाने केवलिनामेव भवति । कल्पेषु देवलोकेषु न तु ज्योतिश्चारे विमानानि-देवावासविशेषाः यद्वा कल्पाः सौधर्मादयो विमानानि प्रैवेयकादीनि तेषूत्पत्तिर्जन्म यस्याः सकाशात् सा कल्पविमानो30 पपाता बानाचाराधना, एषा च भुतकेवल्यादीनामिति ॥ ३७॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy