SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। मिकम् , तच्च द्विधा पल्योपम सागरोपमञ्चेति, पल्यवत्पल्यः, तेनोपमा यस्मिंस्तत्पल्योपमं सागरेणोणम यस्मिंस्तत्सागरोपमम् , औपमिकं तावत्सामान्येनोद्धाराद्धाक्षेत्रभेदेन त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद्विधा, यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभिर्व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाप्राणां दृष्टि- 5 गोचरातिसूक्ष्मद्रव्यासंख्येयभागमात्रसूक्ष्मपनकावगाहनाऽसंख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसंख्यायन्ते, अद्धापल्योपमसागरोपमे अपि सूक्ष्मबादरभेदे एवमेव । नवरं वर्षशते वर्षशते वालस्य वालासंख्येयखण्डस्य चोद्धार इति । अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उड्रियन्ते 10 स कालो व्यावहारिक इति, यावता च वालाप्रासंख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्भियंते स कालः सूक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्याञ्च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने . प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्य चोपयोगित्वादद्धेति सूत्रे विशेषणमुपात्तम् ॥ ३५ ॥ जीवस्य प्रशस्ताप्रशस्तमरणे निरूपयति वलन्मरणवशार्तमरणे निदानमरणतद्भवमरणे गिरिपतनतरुपतने . जलप्रवेशज्वलनप्रवेशौ विषभक्षणशस्त्रपाटने मरणे चाप्रशस्ते वैहानसगृध्रस्पृष्टे पादपोपगमनभक्तप्रत्याख्यानमरणे च प्रशस्तेऽनुज्ञाते ॥ ३६ ॥ वलन्मरणेति, परीषहादिबाधितत्वात्संयमान्निवर्त्तमानानां मरणं वलन्मरणम् , इन्द्रियाधीनतां गतानां दीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशान्मरणम् , इमे द्वे मरणे निम्रन्था-20 नामुपादेयधिया भगवता न कीर्त्तिते न वा प्रशंसिते, एवमग्रेऽपि, ऋद्धिभोगादिप्रार्थनापूर्वकं मरणं निदानमरणम् , यस्मिन् भवे जन्तुर्वर्त्तते तद्भवयोग्यमेवायुर्बध्वा पुनर्मियमाणस्य मरणं तद्भवमरणम् , एतच्च संख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवति, विशुद्धसंयमिनान्तु देवायुष एव बन्धयोग्यत्वेन मनुजायुषो बन्धे सत्यप्रशस्तता, गिरितस्तरुतः पतित्वा च मरणे गिरिमरणतरुमरणे, जलप्रवेशो ज्वलनप्रवेशः, जले ज्वलने वा प्रविश्य मरणमिति भावः, विषं भक्षयित्वा मरणं विषभक्षणम् , 28 स्वशरीरस्य शस्त्राविना विदारयित्वा मरणं शस्त्रमरणमेतानि सर्वाण्यप्रशस्तान्यननुज्ञातानि च । शीलभगरक्षणादिकारणे तु वैहानसगृध्रपृष्टे मरणे अनुज्ञाते, एवं विषभक्षणशस्त्रपाटने अपि, वृक्षशाखादाबुद्धद्धत्वानभसि भवं मरणं वैहानसम् , गृधैर्भक्षणं गृध्रस्पृष्टम् । अथ प्रशस्तमरणमाह पादपेति-पादपस्य छिन्नपतितस्येवात्यन्तनिश्चेष्टतयाऽवस्थाय मरणम् , भक्तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं यत्र ततप्रत्याख्यानम् । पादपोपगमनं द्विविधं निर्झरिमानिर्दारिमभेदात्, यदसतेरेक- 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy