SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७० सूत्रार्थमुक्तावल्याम् [चतुर्थी निर्जरणे च कर्मणो देशतः सर्वथा वा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीत्याह शरीरं देशेन सर्वेण वा स्पृष्ट्वा सस्पन्दं स्फुटं विशीर्णश्च कृत्वा संवर्त्य निवर्त्य निर्याति ॥ ३३॥ शरीरमिति, जीवः शरीरान्मरणकाले देहं कतिपयप्रदेशलक्षणेन देशेन स्पृष्ट्वा श्लिष्वा निर्याति, 5 केषाश्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीरादहिः क्षिप्तत्वात् । कन्दुकगयोत्पादस्थानं गच्छता शरीरादहिः प्रदेशानामप्रक्षिप्तत्वात् सर्वैर्जीवप्रदेशैः स्पृष्ट्वा निर्याति, अथवा देशेनापि सर्वेणापीति वाच्यम् , तदाऽवयवान्तरेभ्यः प्रदेशसंहाराच्छरीरदेशं पादादिकं स्पृष्ट्वा निर्याति, स च संसारी, सर्वेणेत्यत्रापि देशेनेत्यपेक्ष्यते, सर्वमपि शरीरं स्पृष्ट्वा निर्याति, स च सिद्धः। शरीरस्पर्श स्फुरणस्य भावात्सस्पन्दमिति, ईलिकागतिकाले कियद्भिरात्मप्रदेशैर्गेन्दुकगतिकाले सर्वैरपि शरीरं सस्पन्दं कृत्वा 10 निर्याति । अथवा पादादिनिर्याणकाले शरीरदेशं स्फोरयित्वा सर्वाङ्गनिर्याणावसरे सर्व शरीरं स्फोरयित्वा निर्यातीति । स्फोरणाच सात्मकत्वं स्फुटं भवतीत्याह स्फुटमिति, आत्मदेशेन शरीरं सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वेलिकागतो, गेन्दुकगतौ सर्वैरपि शरीरं स्फुटं कृत्वेत्यर्थः। तथाऽक्ष्यादिविघातेन सर्वविशरणेन वा देवदीपादिजीववद्विशीर्णं च कृत्वेति वार्थः । शरीरं सात्मकतया स्फुटी कुर्वन् कश्चित्तत्संवर्त्तनमपि करोतीत्याह संवत्त्येति, संकोच्य, शरीरं देशेनेलिकागतौ शरीरस्थित15 प्रदेशैः सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वात्, अथवा देशतः संवर्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, आत्मनः संवर्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह निवत्यै॒ति, ईलिकागतौ देशेन गेन्दुकगतौ सर्वेण जीवप्रदेशेभ्यः शरीरं पृथक्कृत्येत्यर्थः, यद्वा देशतः शरीरं निवात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरमौदारिकादि निबर्त्य तैजसकार्मणे त्वादायैव, तथा सर्व 20 शरीरसमुदायं निवर्त्य निर्याति सिद्ध्यतीत्यर्थः ॥ ३३ ॥ सर्वनिर्याणस्य परम्परया प्रयोजकानि धर्मश्रवणादीन्याह क्षयोपशमाभ्यां केवलिप्रज्ञप्तधर्मश्रवणादिलाभः ॥ ३४॥ क्षयेति, उदयप्राप्तस्य कर्मणो ज्ञानावरणस्य दर्शनमोहनीयस्य च क्षयेण मिर्जरणेनानुदितस्य चोपशमेन-विपाकानुभवनेन, क्षयोपशमेमेति भावः, ततश्च केवलिप्रज्ञप्तबोधिमुण्डनानगारिताब्रह्मचर्य25 वाससंयमसंवराभिनिबोधिकज्ञानादेर्लाभः, केवलज्ञानन्तु क्षयादेव, बोध्यादीनां सम्यक्त्वचारित्ररूप.' त्वात् क्षयेणोपशमेन लाभेऽपि श्रवणाभिनिबोधिकादीनां क्षयोपशमेनैव भावात्सर्वसाधारण्येन क्षयोप शमपरतया व्याख्यातमिति ॥ ३४ ॥ __बोध्यादीनामुत्कर्षतः षक्षष्टिसागरोपमस्थितिकत्वात्सागरोपमस्य च पल्योपमाश्रितत्वात - विध्यं वक्ति- ...... 30 सागरोपमं पल्योपमञ्चेत्यद्धौपमिकं द्विधा ॥ ३५॥ सागरोपममिति, यत्कालप्रमाणमुपमानमन्तरेणानतिशयिना ग्रहीतुं न शक्यते तदद्धोप
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy