SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ मुका १६ _ स्थानमुक्तासरिका। ___ तदेवं स्तोकेन पुद्गलजीवधर्मानभिधाय सर्व जीवाजीवात्मकमित्येतत्सूचनायाह समयावलिके आनपानस्तोको क्षणलवो मुहर्ताहोरात्रे पक्षमासौ ऋत्वयने संवत्सरयुगे जीवाजीवरूपे, तत्पर्यायत्वात् ॥ ३१ ॥ समयेति, सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलशतव्यतिभेदाचुदाहरणोपलक्षितः समयः, असंख्यातसमयसमुदायात्मिकाऽऽवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाश-5 दुत्तरद्विशततमभागभूता । तत्र समय इत्यावलिकेति वा यत्कालवस्तु तदविगानेन जीवो जीवपर्यायत्वात् पर्यायपर्यायिणोश्च कथश्चिदभेदात् , पुद्गलानां पर्यायत्वे चाजीव इत्यभिधीयते, न तु जीवादिव्यतिरेकिणः समयादयो जीवाजीवानां हि सादिसपर्यवसानादिस्थितिविशेषाः समयादयः, स्थितिश्च तेषां धर्मत्वान्नात्यन्तं धर्मिणो भिन्ना, अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलम्भे प्रतिनियतधर्मविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषात् , अनुभूयते च विटपिविकटशाखाविसरान्तराले 10 किमपि शुक्लं पश्यतः किमियं पताका बलाका वेति संशयः प्रतिनियतधर्मिविषयः । सर्वथाऽभेदेऽपि संशयानुपपत्तिरेव, गुणग्रहणे तदभिन्नगुणिनोऽपि ग्रहात् । उच्छासनिःश्वासकालाः संख्यातावलिकाप्रमाणा आनपानौ । सप्तोच्छासनिःश्वासप्रमाणः स्तोकः । संख्यातानः पानलक्षणः क्षणः, सप्तस्तोकप्रमाणो लवः । त्रिंशन्मुहूर्तप्रमाणमहोरात्रम् । पञ्चदशाहोरात्रप्रमाणः पक्षः। द्विपक्षो मासः। द्विमासमानो ऋतुः, ऋतुत्रयमानमयनम् । अयनद्वयमानः संवत्सरः । पञ्च संवत्सराणि युगम् , एवं चतुरशीतिवर्षलक्षप्रमाणं 15 पूर्वाङ्गं तदेव चतुरशीतिलक्षगुणितं पूर्व, एवं पूर्वपूर्व चतुरशीतिलक्षगुणितं त्रुटिताङ्गादिकं शीर्षप्रहेलि. कापर्यन्तं भाव्यम् । शीर्षप्रहेलिकान्तः सांव्यवहारिकः संख्यातकालः, तेन च संख्यातायुषां प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुःषमायाः पश्चिमे भागे नरतिरश्वाञ्चायुर्मीयते । अतः परं यः संख्यातकालः सोऽनतिशयिनां न व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः स च पल्योपमादिरूप इति ॥ ३१ ॥ बद्धमुक्तभेदेन जीवानां द्वैविध्याद्बद्धापेक्षया बन्धद्वैविध्यमाचष्टे रागद्वेषनिमित्तः पापबन्धः, आभ्युपगमिकवेदनयौपक्रमिकवेदनया चोदीरयन्ति वेदयन्ति निर्जरयन्ति च ॥ ३२॥ रागेति, मायालोभकपायरूपो रागः, क्रोधमानकषायलक्षणो द्वेषः, कारणाभ्यामाभ्यामशुभ भवनिबन्धनस्य पापकर्मणो बन्धो भवति, ननु मिथ्यात्वाविरतिकषाययोगानां बन्धहेतुत्वेन कथमत्र 25 कषायाणामेव बन्धहेतुत्वमुक्तम् , युक्तम् , कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनाय तथोके, तेषां प्राधान्यञ्च स्थित्यनुभागप्रकर्षकारणत्वात् , अत्यन्तानर्थकारित्वात्, द्विस्थानकानुरोधाद्वा बन्धहेतु. देशोक्तिः । स्थानद्वयबद्धपापकर्मणश्च शिरोलोचनतपश्चरणादिकयाऽङ्गीकरणनिर्वृत्तया स्वैच्छिकया कर्मोदीरणकारणनिर्वृत्तया ज्वरातिसारादिजन्यया वा पीडयोदीरयन्ति, अप्राप्तावसरं सदुदये प्रवेशयन्ति, उदीरितं सद्विपाकतोऽनुभवन्ति प्रदेशेभ्यः बाटयन्ति च ॥ ३२ ॥ खु.म.१२ 20 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy