________________
१६८ सूत्रार्थमुक्तावल्याम्
(चतुर्थी परिमाणौ स्तः, हैमवते शब्दापातीनामा ऐरण्यवते च विकटापातीनामा पर्वतः, यत्र च क्रमेण खातिप्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यग्वर्षे माल्यवत्पर्वतः क्रमेण चारुणेन पद्मनाधिष्ठितो वर्तते । देवकुरुषु पूर्वपार्श्वेऽपरपार्श्वे च क्रमेण सौमनसविद्युत्प्रभावश्वस्कन्धसदृशावाद्यन्तयोनिग्नोन्नतावुत्तरकुरुषु गन्धमादनोऽपरपार्श्वे पूर्वपार्श्वे माल्यवानिति, भरतैरव5 तयोस्तु दीर्घवैताढ्यौ पर्वतौ स्तः तौ च तयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियो
जनोच्छ्रितौ तत्पादावगाढौ पश्चाशद्विस्तृतावायतसंस्थितौ सर्वराजतावुभयतो बहिःकाञ्चनमण्डनाको विज्ञेयौ । एषु गुहाकूटादिविचारोऽन्यत्र द्रष्टव्यः ॥ २७ ॥
- जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायानाह
- भरतैरवतयोः सुषमदुःषमायाः स्थितिर्दिसागरकोटीकोटिमाना, सुष10 मायां मनुष्याणां द्विगव्यूतिरुच्चता, द्वे पल्योपमे परमायुः, द्वावर्हच्चक्रवर्ति बलदेववंशौ, द्वावेकसमयेऽर्हन्तौ चक्रवर्तिनौ बलदेवौ वासुदेवौ च ॥ २८ ॥
भरतेति, जम्बूद्वीपे भरतैरवतवर्षेष्वतीतायामागामिन्याश्चोत्सर्पिण्यां सुषमदुःषमालक्षणस्य चतुर्थकालस्य स्थितिर्द्धिसागरकोटीकोटिरूपा, एवं वर्तमानाया अवसर्पिण्यास्तृतीयारकस्य सुषम
दुःषमालक्षणकालस्यापि । तथा भरतैरवतयोरतीतायामागामिन्यां वर्तमानायाश्चोत्सर्पिण्यां सुषमायां 15 मनुष्याणामुञ्चता गव्यूतिद्वयप्रमाणा, आयुश्च द्विपल्योपमप्रमाणम् , एवं भरतेष्वैरवतेषु चैकस्मिन् युग एकस्मिन् समये द्वौ द्वार्हतां चक्रवर्त्तिनां वासुदेवानाश्च वंशौ, एवमेकसमये भरत एकोऽर्हन् चक्रवर्ती बलदेवो वासुदेवश्च, ऐरवतेऽप्येवमिति द्वौ द्वाईन्तौ चक्रवर्तिनौ बलदेवौ वासुदेवौ च भवत इति ॥ २८ ॥
पुनर्विशेषमाह20. कुरुद्वये सदा मनुजाः सुषमसुषमोत्तमद्धि हरिवर्षरम्यकवर्षयोः सुषमोत्तमर्छि हैमवतैरण्यवतयोः सुषमदुःषमोत्तमर्द्धि पूर्वापरविदेहयोर्दुःषमसुषमोत्तमद्धि भरतैरवतयोस्तु षड्डिधकालद्धिश्चानुभवन्ति ॥ २९ ॥
कुरुद्वय इति, देवकुरुघूत्तरकुरुषु च सुषमसुषमासम्बन्धिनी प्रधानविभूतिमुच्चैस्त्वायु:कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्तास्तामेवानुभवन्तो विहरन्ति, एवमेवाग्रेऽपि योजनीयम् , स्पष्टं मूलम् ॥२९॥ 25 - कालव्यञ्जकज्यौतिष्कद्वित्वमाह
चन्द्रसूर्यनक्षत्राणां द्वित्वम् ॥ ३०॥ चन्द्रेति, जम्बूद्वीपे सदा द्वौ चन्द्रौ प्रभासयतः, द्वौ सूर्यौ तापयतः । तथा द्वे कृत्तिके रोहिण्यौ मृगशिरे आर्द्र पुनर्वसू इत्येवं द्वे द्वे नक्षत्रे भाव्ये, एवमेव वेदिकादीनां गव्यूतद्वयमुञ्चत्वादिकमन्यतो विज्ञेयम् ॥ ३०॥