________________
स्वागमुक्तातरिका। बद्धपार्श्वस्पृष्टते जीवासतानात्तते इष्टतानिष्टते कान्तवाकान्तते प्रियताप्रियते मनोज्ञतामनोज्ञते मनोहरतामनोहरते भावनीये ॥ २५ ॥
पुनर्जीवधर्मानाह
तपोवीर्यात्मकनोचारित्रचारित्रघटितनोदर्शनदर्शनाचारलक्षणो नो ज्ञानाचारो ज्ञानाचारश्चेति द्विविध आचारः ॥ २६ ॥
तप इति, ज्ञानाचारनोज्ञानाचारभेदाभ्यामाचारो द्विविधः, तत्र ज्ञानाचारः श्रुतज्ञानविषयोऽष्टविधः कालविनयबहुमानोपधानानिह्नवनव्यञ्जनार्थतदुभयभेदात् । नोज्ञानाचार एतद्विलक्षणो दर्शनाद्याचारः, दर्शनं सम्यक्त्वं तदाचारो निःशङ्कितनिष्कांक्षितनिर्विचिकित्सितामूढदृष्ट्युपबृंहणस्थिरीकरणवात्सल्यप्रभावनारूपेणाष्टविधः ।नोदर्शनाचारश्चारित्रादिरिति पञ्चसु समितिषु तिसृषु गुप्तिषु प्रणिधामयोगयुक्तत्वादष्टधा । नोचारित्राचारो द्वादशधा तपआचारः, वीर्याचारश्च ज्ञामादिष्वेव शक्तरगो-10 पनम् , तदनतिक्रमश्च । वीर्याचारस्यैव विशेषः प्रतिमा समाधिप्रतिमोपधानप्रतिमा लक्षणा, प्रशस्तभावलक्षणस्य समाधेः प्रतिमा दशाश्रुतस्कन्धोक्ता श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च । द्वादशभिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चोपधानप्रतिमेति ॥ २६ ॥
क्षेत्रमाश्रित्य द्वैविध्यमाह
जम्बूद्वीपे मन्दरस्य दक्षिणेनोत्तरेण भरतैरवते वर्षे हैमवतैरण्य-15 वते हरिवर्षरम्यकवर्षे पूर्वपश्चिमयोः पूर्वापरविदेहो दक्षिणोत्तरेण देवकुरू. त्तरकुरू बहुसमतुल्यावितरेतरं न लङ्घयतः ॥ २७ ॥
जम्बूद्वीप इति, परिपूर्णचन्द्रमण्डलाकारं हि जम्बूद्वीपं तन्मध्ये मेरोदक्षिणस्यामुत्तरस्याश्च द्वे वर्षे स्तः, ते च प्रमाणतोऽत्यन्तसदृशे नगनगरनद्यादिकृतविशेषरहिते अवसर्पिण्यादिकृताबुरादिमावमेदवर्जिसे दैयण पृथुत्वेनारोपितज्याधनुराकारेण संस्थानेन परिधिना च परस्परं न 20 लान्यतः। जम्बूद्वीपस्य दक्षिणे भागे आ हिमवतो भरतं तस्यैव चोत्तरे भाग ऐरवतं शिखरिणः परतः । एवं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हैमवतमुत्तरतो रुक्मिशिखरिणोरन्तो हिरण्यवतं तथा दक्षिणतो महाहिमवन्निषधयोरन्तो हरिवर्षमुत्तरतश्च नीलरुक्मिणोरन्तो रम्यकवर्षमिति । पूर्वस्यां पश्चिमायाश्च पूर्वविदेहोऽपरषिदेहश्च वर्तते; मन्दरस्योत्सरस्यामुत्तरकुरवो दक्षिणस्यां देवकुरवः, तत्राद्याः विद्युत्प्रमसौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदम्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्य- 25 वद्यामावृताः, उभये चामी अर्धचन्द्राकारा दक्षिणोत्तरतो विस्तृताः । वर्षा इव वर्षधरपर्वतौ मन्दरस्योस्तरदक्षिणतो भरतानन्तरो लघुर्हिमवान् तथा शिखरी यत्परमैरवतं वर्षधरपर्वतौ स्तः, तौ च पूर्वापरतो छबणसमुद्रावबद्धौ भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनावगाढौ भवतः । एवं दक्षिणतो महाहिमवानुत्तरतो रुक्मी च, एवमेव निषधनीलवन्तौ । आयामादयस्तु क्षेत्रसमासादवसेयाः । मन्दरस्य दक्षिणोत्तरेण हैमवतैरण्यवतवर्षयोद्वौ वृत्तौ वैतान्यनामको रजतमयौ सर्वतः सहस्र- 30