________________
मुक्ता ]
स्थानमुक्ता सरिका ।
यायित्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाच्च । पृथिव्यादीनान्तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिर्वृत्तम्, तत्रैकेन्द्रियाणां केवलमरथ्यादिविरहितं वायूनां वैक्रियं यत्तन्न विवक्षितं प्रायिकत्वात् । विग्रहगतिर्वक्रगतिः, यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तद्गतिं समापन्नानां तैजसकार्मणे द्वे शरीरे भवतः । शरीरस्य चोत्पत्ती रागेण द्वेषेण चेति द्विस्थानैर्भवतीति ॥१९॥ द्विस्थानका नुपातेन योग्यक्रियादिशमाह -
प्रव्राजन मुण्डापन शिक्षणोत्थापनसम्भोजन संवास स्वाध्यायोद्देशसमुद्दे - शानुज्ञालोचनप्रतिक्रमणातिचारनिन्दनगर्हणव्यतिवर्त्तन विशोधन करणाभ्युत्थानप्रायश्चित्तपादपोपगमनस्थितयः प्राच्यामुदीच्यां वा ॥ २० ॥
१६५
प्रव्राजनेति, निर्मन्थानां निर्मन्थीनां वा रजोहरणदानेन प्रत्राजयितुं शिरोलोचनेन मुण्डयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमा सेवना शिक्षापेक्षया प्रत्युपेक्षणादि शिक्षयितुं महात्रतेषु व्यव- 10 स्थापयितुं भोजनमण्डल्यां निवेशयितुं संस्तारकमण्डल्यां निवेशयितुं योगविधिक्रमेणाङ्गादि सम्यग्योगेनाधीष्वेत्युपदेष्टुं योगसमाचार्यैव स्थिरपरिचितं कुर्विदमिति समुद्देष्टुं सम्यगेतद्धराय, अन्येषाश्च प्रवेदयेत्यभिधातुं गुरवेऽपाधरान्निवेदयितुं प्रतिक्रमणं कर्त्तुमतिचारान् स्वसमक्षं जुगुप्सितुं गुरुसमक्षश्चं तानेव जुगुप्सितुमतिचारानुबन्धं विच्छेदयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकत्तु पुनर्न करिष्या - मीत्यभ्युत्थातुं प्रायश्चित्तं निर्विकृतिका दितपः प्रतिपत्तुं पादपोपगमनं प्रतिपत्तुं तत्राऽऽमरणं यावदनुत्सु - 15 कतया स्थातुश्च पूर्वोत्तरा च दिकू कल्पत इति ॥ २० ॥
देवाश्रयाद्विविधमाह —
कल्पोपपन्नाः कल्पातीता देवा ज्योतिष्काः स्थितिमन्तोऽनुपरतगतयश्च तत्रान्यत्र वेदनामनुभवन्ति ॥ २१ ॥
कल्पोपपन्ना इति, ये देवा वैमानिका अनशनादेरुत्पन्ना ऊर्ध्वोपपन्नकास्ते सौधर्मादिदेव - 20 लोकोत्पन्ना मैवेयकानुत्तर विमानोत्पन्नाच, समस्तज्योतिश्चक्रक्षेत्र उत्पन्ना ज्योतिष्काः पादपोपगमनादेलैब्धज्योतिष्कभाषा समयक्षेत्र बहिर्वर्त्तिनः क्षेत्रवर्त्तिनश्च ते देवा द्विविधाः सदा यज्ज्ञानावरणादिपापकर्म बघ्नन्ति तस्य कर्मणोऽबाधाकालातिक्रमे सति केचित्तत्रैव देवभव एव वर्त्तमाना वेदनामनुभवन्ति कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवात् । केचिच्च देवभवादन्यत्रैव भवान्तर उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति ॥ २१ ॥
25
नारकादीनां गत्यागती निरूपयति
नारका देवा मनुष्येभ्यस्तिर्यग्भ्यो वा पृथिव्यादयः पृथिवीकायादिभ्यो नोपृथिवीकायादिभ्यो वाऽऽगच्छन्ति गच्छन्ति च तत्रैव ॥ २२ ॥
नारका इति, उदितनरकायुषो नारका मनुष्येभ्यस्तिर्यक् पश्चेन्द्रियेभ्यो वाऽऽगत्योत्पद्यन्ते. नारकत्वं परित्यजन्तश्च तत्रैव गच्छन्ति, असुरकुमारादयो देवास्तेभ्य एवागत्योत्पद्यन्ते परित्यजन्तश्च 30