SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६४ सूत्रार्थमुक्तावल्याम् [चतुर्थी द्विविधा, द्वितीयश्च छद्मस्थकेवलिभेदेन द्विविधः, अत्रापि प्रथमः स्वयम्बुद्धबुद्धबोधितभेदेन द्विविधः, उभावपि प्रथमाप्रथमसमयभेदेन चरमाचरमभेदेन वा द्विविधौ । केवलिक्षीणकषायवीतरागसंयमस्तु सयोग्ययोगिभेदेन द्विविधः, उभावपि च प्रथमाप्रथमसमयापेक्षया चरमाचरमसमयापेक्षया वा द्विविधाविति ॥ १७॥.. 6 जीवविशेषाश्रयेणैव द्वैविध्यप्रकारमाह६. अनन्तरावगाढगतिसमापन्नपरिणतपर्याप्तकसूक्ष्माः सविपक्षा एकेन्द्रियाः ॥ १८॥ अनन्तरेति, एकेन्द्रियाः पृथिव्यादयः, सूक्ष्मबादरापेक्षया पर्याप्तकापर्याप्तकापेक्षया परिणतापरिणतापेक्षया गतिसमापन्नागतिसमापन्नापेक्षयाऽनन्तरावगाढपरम्परावगाढापेक्षया च द्विविधा भवन्ति, 10 सूक्ष्मा बादरास्तत्तत्कर्मोदयवर्तिनः, सूक्ष्माः सर्वलोकव्यापिनो बादराः पृथिवीनगादयः, एषां सूक्ष्म बादरता नापेक्षिकी किन्तु कर्मोदयप्रयुक्तैव । अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीन पूरयन्ति, पर्याप्तनामकर्मोदयाच्च पर्याप्ता ये चतस्रः पर्याप्तीः पूरयन्ति, पर्याप्तिश्च पुद्गलोपचयजः शक्तिविशेषः, स चाहारशरीरेन्द्रियानपानभाषामनोभेदेन षोढा, तत्रैकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, एता युगपदारब्धा अन्तर्मुहूर्तेन निर्वय॑न्ते, आहारपर्याप्तेस्तु निर्वृत्तिकालः समय एव । अपर्याप्त15 काश्चोच्छासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते न तु शरीरेन्द्रियपर्याप्तिभ्याम् , आगामिभवायुष्कबन्धेन मरणात्तद्वन्धस्य च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तेनैव साध्यत्वात् । स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः परिणता अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः शस्त्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना कालेन, भावतो वर्णगन्धरसस्पर्शान्यथात्वेन क्षेत्रतो योजनशतात् परतः परिणताः । ये पृथिवी कायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्योत्पत्तिस्थानं व्रजन्ति ते गतिसमा20 पन्नाः, अगतिसमापन्नास्तु स्थितिमन्तः। सम्प्रत्येव समये कचिदाकाशदेश आश्रितास्त एवानन्तराव गाढाः, येषान्तु व्यादयः समया अवगाढानां ते परम्परावगाढाः। एवं द्रव्यं परिणतापरिणतभेदेन गतिसमापन्नागतिसमापन्नभेदेनानन्तरावगाढपरम्परावगाढभेदेन द्विविधम् , उत्सर्पिण्यवसर्पिणीभेदेन कालो लोकालोकभेदेनाकाशश्च द्विविधो विज्ञेयः ॥ १८ ॥ ... अथ चतुर्विंशतिदण्डकाश्रयेण शरीरद्वैविध्यमाह25 देवनारकाणां कार्मणवैक्रिये एकेन्द्रियविकलेन्द्रियतिर्यमनुष्याणां कार्मणौदारिकविशेषौ, सर्वेषां विग्रहे कार्मणतैजसे ॥ १९ ॥ देवेति, अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तत्र देवानां नारकाणाश्च कार्मणं वैक्रि' यश्च भवतः, कार्मणशरीरनामकर्मोदयनिर्वर्त्यमशेषकर्मणां प्ररोहभूमिराधारभूतं संसार्यात्मनां गत्यन्तर संक्रमणे साधकतम कार्मणं तच्चाभ्यन्तरमुच्यते, आभ्यन्तरत्वञ्च तस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन 30 लोलीभवनात्, भवान्तरगतावपि जीवस्यानुगमनस्वभावत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशयिनाम प्रत्यक्षत्वाच । वैक्रियश्च बाह्यम् , बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननु
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy