SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मुला] स्थानमुलासरिका। प्रथमपरिच्छेदोऽर्थावप्रहः, निर्विकल्पकज्ञानं दर्शनमिति चाभिधानान्तराण्यस्यैव, अयमेव नैश्चक्किा सामयिक उच्यते, यस्तु व्यावहारिकः शब्दोऽयमित्युल्लेखवान् स आन्तमॊहूर्तिकः । अयश्चेन्द्रियमन:सम्बन्धात पोढा । व्यञ्जनमुपकरणेन्द्रियं शब्दादितया परिणतद्रव्यसङ्घातो वा, तथा च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादितया परिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः इन्द्रियशब्दादिद्रव्यसम्बन्धो वा व्यञ्जनम् । अयश्च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वात् ।। ननु म्यञ्जनावग्रहः कथं ज्ञानं, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावादधिरादीनामिवेति चेन्न, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानादुपलब्धिर्भवति तज्ज्ञानं दृष्टम् , यथाऽर्थग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावादोवप्रहज्ञानमिति । किन्तव्यञ्जनावग्रहकालेऽपि सदपि ज्ञानं सूक्ष्माव्यक्तत्वान्नोपलभ्यते, सप्ताव्यक्त. विज्ञानवदिति । ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधात् । अश्रुतनिश्रितमप्य-10 वाहव्यञ्जनावग्रहभेदेन द्विविधम् , इदश्च श्रोत्रादिप्रभवमेव, यदौत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावप्रहः सम्भवति न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् , बुद्धीनान्तु मानसत्वात् , ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । अङ्गप्रविष्टानङ्गप्रविष्टभेदेन श्रुतज्ञानं द्विविधम् । अनङ्गप्रविष्टश्चऽऽवश्यकतद्व्यतिरिक्तभेदेन द्विविधम् , तद्व्यतिरिक्तमपि कालिकोत्कालिकभेदेन द्विविधम् , कालिकमुत्त. राध्ययनादि, उत्कालिकं दशकालिकादि । प्रत्यक्षश्च केवलज्ञाननोकेवलज्ञानभेदेन द्विविधम् , भवस्थ-15 सिद्धकेवलज्ञानभेदेन प्रथमं द्विधा, भवस्थकेवलज्ञानमपि सयोग्ययोग्यपेक्षया सयोगिभवस्थकेवलज्ञानमपि प्रथमसमयाप्रथमसमयापेक्षया चरमाचरमसमयापेक्षया वा द्विधा, एवमयोगिभवस्थकेवलज्ञानमपि । सिद्धकेवलज्ञानमनन्तरपरम्परापेक्षया द्विविधम् , उभयमप्येकानेकापेक्षया द्विद्विभेदम् । अवधिमनापर्यवभेदेन नोकेवलज्ञानं द्विविधम् , भवप्रत्ययक्षायोपशमिकभेदेनावधिज्ञानं द्विविधम् , भवप्रत्ययस्थापि क्षयोपशमनिमित्तकत्वेऽपि तत्क्षयोपशमे भवस्यैव निमित्तत्वात्तत्प्राधान्येन भवप्रत्ययत्वेन पृथ- 20 गुक्तम् , भवप्रत्ययं देवानां नैरयिकाणाञ्च, क्षायोपशमिकन्तु मनुष्याणां पञ्चेन्द्रियतिर्यग्योनिकानाम् । ऋजुमतिविपुलमतिभेदतो मनःपर्यवज्ञानं द्विविधम् ॥ १६ ॥ श्रुतचारित्रापेक्षया द्वैविध्यमाह सूत्रार्थों श्रुतधर्मोऽगारानगारचारित्रे च चारित्रधर्मः ॥ १७ ॥ सूत्रार्थाविति, दुर्गतिप्रपतज्जीवरोधकः सुगतिप्रापकश्च धर्मः स द्विविधः श्रुतधर्मश्चारित्रधर्म-25 श्वेति, द्वादशाङ्गरूपो धर्मः श्रुतधर्मः, मूलोत्तरगुणकलापरूपश्चारित्रधर्मः, तत्र प्रथमः सूत्रार्थभेदतो द्विविधः, द्वितीयोऽपि गृहिसाधुसम्बन्धित्वादगारानगारचारित्रभेदेन द्विविधः। रागसदसद्भावाभ्यामनगारचारित्रं सरागवीतरागचारित्रभेदेन द्विविधम् । असंख्याततमकिट्टिकावेदनतः सूक्ष्मलोभामकापायस्थूलकपायावाश्रित्य सरागसंयमः सूक्ष्मबादरसंपरायभेदतो द्विविधः, सूक्ष्मसम्परायसंयमश्च प्रथमाप्रथमसमयाभ्यां घरमाचरमसमयाभ्यां संक्लिश्यमानविशुद्ध्यमानाभ्यां वा द्विविधः। द्वितीयोऽपि 30 प्रथमाप्रथमसमयाभ्यां चरमाचरमसमयाभ्यां प्रतिपात्यप्रतिपातिभ्यां वा द्विविधः । उपशान्तकषायश्रीणकपायभेदवो वीतरागसंयमो द्विविधा, आयः प्रथमाप्रथमसमयभेदेन चरमाचरमसमयभेदेन वा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy