________________
मुक्ता ]
सुत्रकृतलक्षणा ।
१४७
कचिद् दृष्ट्वा पुरुषोऽयमिति मत्वा जग्राह ततस्तं वस्त्रवेष्टितं पिण्याकपिण्डं पुरुषबुद्ध्या शूले प्रोतं पावके पचति, तथा कश्चिदलाबुकं कुमारोऽयमिति मत्वा वहौ पचति स च प्राणिवधजनितेन पातकेनाकुर्वन्नपि वस्तुतः प्राणातिपातं लिप्यते चित्तस्य दुष्टत्वात् चित्तमूलत्वाच्च शुभाशुभबन्धस्य, तथा सत्यपुरुषमपि खलबुद्ध्या कश्चिच्छूले प्रोतमग्नौ पचेत् कुमारकवाला बुकबुद्ध्या, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकम् एवं सर्वास्ववस्थास्वचिन्तितं कर्मचयं न गच्छति 'अविज्ञानो- 5 पचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकञ्च कर्मोपचयं न यातीत्युक्तेरिति, तदेतन्मतं दूषयति नेति, पिण्याकपिण्डे पुरुषोऽयमित्येवमत्यन्तजडस्यापि न बुद्धिरुदेति, तस्माद्य एवं वक्ति सोऽत्यन्तनाव, अत एव तथाविधं वचनमप्यसत्यं सत्स्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बध्यते, तस्मात् पिण्याककाष्टादावपि प्रवर्त्तमानेन जीवोपमर्दन भीरुणा साशङ्केन प्रवर्त्ति - तव्यम् । वागभियोगादपि पापं कर्म भवत्यतो विवेकी भाषागुणज्ञो न तादृशीं भाषामुदाहरेत्, 10 न हि प्रत्रजितो यथावस्थितार्थाभिधायीदृक् निःसारं निरुपपत्तिकं वचनं ब्रूयात् पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, अलाबुकमेव बालको बालक एवालाबुक इत्यादि । केवलमेवम्भाषणमज्ञानावृतमूढजनानाम्, तेषां च न भावशुद्ध्या शुद्धिः, अन्यथा संसारमोचकानामपि कर्मविमोक्षः स्यात् तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकञ्चानुष्ठानमनर्थकमापद्यते, तस्मान्नैवंविधया भावशुद्ध्या शुद्धिरुपजायते । मौनीन्द्रशासनप्रतिपन्नाश्च तन्मा - 15 र्गानुसारिणो जीवानामवस्था विशेषं तदुपमर्दनेन पीडां पर्यालोचयन्तोऽन्नविधौ द्विचत्वारिंशद्दोषरहितेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति । न चौदनादेरपि प्राण्यङ्गसमानतया मांसादिसादृश्यमिति वाच्यम्, लोकतीर्थान्तरीयमतानभिज्ञतया चोदनात् । तुल्येऽपि प्राण्यङ्गत्वे किञ्चिन्मांसं किश्चिच्चामांसमिति व्यवह्नियते गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्था क्रियते, स्त्रीत्वे समानेऽपि भार्यास्वस्रादौ गम्यागम्यव्यवस्था विधीयते शुष्कतर्कदृष्ट्या, प्राण्यङ्गत्वादिति हेतुश्चा - 20 नैकान्तिकविरुद्धदोषदुष्टः, प्रयोगश्च मांस भक्षणीयं भवेत् प्राण्यङ्गत्वादोदनादिवदिति, श्वमांसादेरभक्ष्यत्वाद्दोषद्वयमेवं यथाऽयं हेतुमांसस्य भक्ष्यत्वं साधयति तथा बुद्धास्नामपूज्यत्वमपीति पूज्यत्वविरुद्धाव्यभिचारित्वं हेतोः, मांसौदनयोरसाम्याद् दृष्टान्तविरोधः लोकविरोधिनी च प्रतिज्ञा, तस्मान्मांसभक्षणं रसगौरव गृद्धानामनार्याणामविवेकिनामासेवनं न धर्मश्रद्धावताम्, तदुक्तं 'श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गर्ति ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गतरुजः 25 सम्भाव्य यास्यन्ति ते मर्त्येषूत्कटभोगधर्ममतिषु स्वर्गापवर्गेषु च ' ॥ तदेवं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा दयया तं परिवर्जयन्तः साधवो दानाय परिकल्पितमुद्दिष्टं भक्तपानादिकं परित्यजन्ति । एतेन यागादिविधिना ब्राह्मणानां सहस्रद्वयं भोजयेदित्यादिवादोऽपि परास्तः, निन्द्याजीविकोपगतानां नित्यं पिण्डपातान्वेषिणामसत्पात्राणां दाने तेषां दातुश्चाऽऽमिषगृनुभिरभिव्याप्त बहुवेदननरकगतिप्राप्तेः, दयाप्रधानं धर्मं निन्दन्तं प्राण्युपमर्दकारिधर्मं प्रशंसन्तमेकमपि निःशीलं निर्व्रतं षड्जीवनिकायो- 80 पमर्दनेन यो भोजयेत् स बराको नरकभूमिं याति कुतस्तस्याधमदेवेष्वपि प्राप्तिः सम्भाविनी । अतो याज्ञिकमतवादोऽपि न श्रेयान् वेदान्तवादोऽपि न यथार्थाभिधायी, असर्वज्ञप्रणीतत्वात्, तत्त्व
"
3