SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सूत्रार्यमुक्तावल्याम् [तृतीया वयन्तु युक्तिविकलत्वादेकान्तदृष्टिं निरस्य यथावस्थिततत्त्वस्वरूपं प्रतिपादयामो न कश्चिद्गर्हामः, केवलं स्वपरस्वरूपाविर्भावनं कुर्मः, न हि वस्तुस्वरूपाविर्भावने परापवादः। एवञ्च त्याज्यधर्मदूरवर्तिभिः सर्वज्ञैः पूर्वापराव्याहतत्वेन यथावस्थितजीवादिपदार्थस्वरूपनिरूपणेन च प्रतिपादितः सम्यग्दर्शनादिक एवानुत्तरो मोक्षमार्गः, यथार्थप्ररूपणाद्रागद्वेषरहितस्य न च काचिद्गीं, अन्यथा शीतमुदकमुष्णोऽग्निः । विषं मारणमित्येवमादि किश्चिद्वस्तुस्वरूपं केनाप्याविर्भावनीयं न स्यादिति ॥ ७८ ॥ समाधानान्तरमाह प्रेक्षापूर्वकारित्वेनानिच्छाकारित्वाभावात् ॥ ७९ ॥ प्रेक्षेति, ननु तीर्थकरो रागद्वेषभययुक्तः, आगन्तागारादौ शयनादिक्रियाऽकरणात् , तत्र प्रभूतशास्त्रविशारदानां सम्भवेन पराजयशङ्कासद्भावात्, कदाचिन्म्लेच्छविषयं गत्वा धर्मदेशनाऽकरणात् , 10 आर्यदेशेऽपि क्वचिदेव करणाच्च रागद्वेषभययुक्ततेति शङ्कायामाह प्रेक्षेति, भगवान हि प्रेक्षापूर्वकारी, अतो नानिच्छाकारी भवति, यो ह्यप्रेक्षापूर्वकारी सोऽनिष्टमपि स्वपरनिरर्थकमपि कृत्यं कुर्वीत, सर्वज्ञः सर्वदर्शी परहितैकरतो भगवान् कथं स्वपरात्मनोनिरुपकारकं कुर्यात् , न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते, अपि तु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तत्प्रभाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाद्यभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्र15 वर्तते ततः कुतस्तस्य भयेन प्रवृत्तिः स्यात्, न चासौ वीतरागो धर्मकथां किमिति करोतीति शङ्कयम् , तीर्थकृन्नामकर्मणः क्षपणाय सर्वहेयधर्मदूरवर्त्तिनामार्याणामुपकाराय च तत्करणात् । तत्रापि विनेयासन्नं मत्वाऽगत्वा वा यथा भव्यसत्त्वोपकारो भवति तथैव धर्मदेशनाकरणान्न तु रागद्वेषाभ्याम् । अनार्यास्तु न सम्यग्दर्शिनः, असौ भगवानित्येतावन्मात्रस्यापि ज्ञानस्याभावादीर्घदर्शनाभावाच्च, ते हि शकयवनादयो वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमतः सद्धर्मपराङ्मुखेषु तेषु भग20 वान्न याति न तु तद्वेषादिबुद्ध्या । समस्ताः प्रावदुकास्तु भगवन्मुखमप्यवलोकितुं न समर्था वादस्तु दूरोत्सारित एव, एवञ्च यत्रैव स्वपरोपकार केवलालोकेन पश्यति तत्रैव धर्मदेशनां विधत्ते । न च तस्य वणिगिव लाभापेक्षया धर्मदेशना प्रसक्तेति वाच्यम् , दृष्टान्तानुपपत्तेः, किं स देशतो दृष्टान्तः, सर्वसाधर्म्यण वा, नाद्यः क्षत्यभावात् , वणिग्वदुपचयप्रेक्षया प्रवृत्त्यङ्गीकारात् । न द्वितीयो भगवान् हि विदितवेद्यः सर्वपरित्राणशीलः सर्वथा सर्वसावद्यानुष्ठानविधुरः, वणिक् च न तथाविधः, चतु25 देशविधजन्तुसमूहोपमर्दनक्रियाकारित्वात् , वित्तेच्छयेतस्ततः परिभ्रमणात् सातगौरवादिषु मूञ्छित. त्वात्, लाभार्थं प्रवृत्तस्यापि तदसिद्धेः सिद्धेऽपि लाभेऽचिरेणैव विनाशाच्च कथं निर्विवेकिनां वणिजां सर्वसाधयं साधनन्तलाभवता भगवता सङ्गच्छत इत्येवं गोशालको निरस्त आर्द्रकेण ॥ ७९ ॥ एवं तस्य शाक्यादिनिरासप्रकारमाह अकुशलचित्तादेव कर्मचय इति चेन्न, अविवेकिनो भावशुद्ध्यसम्भ39 वात् ।। ८०॥ - अकुशलेति, शाक्यः कश्चिदाह-यथा कश्चिच्छत्रुमन्वेष्टुं प्रवृत्तः पिण्याकपिण्डं काप्राकृत
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy