SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ मुका] सूत्रकृतलक्षणा। भगवानशेषजनहितं धर्म कथयन् प्रतिसन्दधाति, केवलालोकेन हि यथावस्थितं लोकमवगम्य प्राणिहितङ्करो द्वादशविधतपोनिष्टप्तदेहो लाभपूजादिनिरपेक्षेण प्राणिहितार्थ धर्ममाचक्षाणोऽपि छद्मस्थावस्थायामिव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेन । देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितोऽसावेकान्तमेव साधयति, पताधारपङ्कजवत्तद्दोषव्यासङ्गाभावात् , ममताविरहादाशंसादोषविकलत्वाञ्च, न चैकाकिपरिकरोपेता-5 वस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वादिति वाच्यम् , बाह्यविशेषस्य परिदृश्यमानस्य सत्त्वेऽपि प्रधानस्याऽऽन्तरकषायजयित्वस्योभयोरवस्थयोरविशेषात् , न ह्यसावष्टप्रातिहार्योपेतोऽप्युत्सेकं याति, न वा शरीरं संस्कारायत्तं विदधाति, निष्कलङ्कस्य भगवतो जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि दोषलेशाभावात् , छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥ ७६ ॥ ___ 10 पुनर्गोशालाशङ्कामनूद्यार्द्रकेण निराकृतमाचष्टे एकान्तचारिणस्तपखिनस्तर्हि शीतोदकादिपरिभोगो न दोषायेति चेन्न, तथात्वे तस्याश्रमणत्वप्रसङ्गात् ॥ ७७ ॥ एकान्तेति, यदि परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहः शिष्यादिपरिकरो धर्मदेशना च न दोषाय त_स्मदीये धर्मे प्रवृत्तस्यारामोद्यानादावेकाकिविहारोद्यतस्य तपखिनः शीतोदकबीजपत्रफला-15 गुपभोगो न दोषाय भवेत् , ईषत्कर्मबन्धेऽपि धर्माधारशरीरप्रतिपालनार्थत्वादिति यदुच्यते भवता तदपि न चारु, अप्रासुकोदकपरिभोगादीनां श्रमणायोग्यत्वात् , अप्रव्रजिता हि तानि प्रायः प्रतिसेवन्ते, श्रमणास्तु 'अहिंसा सत्यमस्तेयं ब्रह्मचर्यमलुब्धते'त्यादिलक्षणलक्षिताः। तच्च लक्षणं शीतोदकादिपरिभोगिनां नास्तीति न ते परमार्थानुष्ठानतः श्रमणाः, यदि शीतोदकादिपरिभोगिनोऽपि श्रमणास्तर्हि गृहस्था अपि श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारित्वं 20 क्षुत्पिपासादिपीडनश्च सम्भाव्यते, केवलं स्त्रीपरिभोग एव तैर्द्रव्यतः परित्यक्तः, शेषेण तु बीजोदकाापभोगेन गृहस्थकल्पा एवेति ॥ ७७ ॥ पुनरप्याशङ्कामुद्भाव्य दूषितमादर्शयति- परनिन्दाऽऽत्मोत्कर्षयोः प्रसङ्ग इति चेन्न, वस्तुखरूपप्रकाशने तदसम्भवात् ॥ ७८॥ परनिन्देति, ननु पूर्वोक्तप्रकारेण बदन सर्वानपि प्रावादुकान गर्हसि, आत्मन उत्कर्ष प्रकटयसि चेति ते परमिन्दाऽऽत्मोत्कर्षयोः प्रसङ्गः स्यादित्यपरमुत्तरं दातुमसमर्थेन गोशालकेनान्यतीर्थिकसहायेन प्रोक्तं निषेधति नेति, सर्वे हि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इत्यस्मदीयं दर्शनम् , एवं व्यवस्थिते काऽत्र परनिन्दा, को वाऽऽत्मोत्कर्षः, प्रावादुका अपि स्वद-30 र्शनप्रतिधाशयाः परदर्शनं गईमाणाः स्वदर्शनगुणानाचक्षते, परस्परं व्याहतं चानुष्ठानमनुतिष्ठन्ति, ___26
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy