________________
मुक्ता]
सूत्रकृतलक्षणा।
१४३ पदार्थानां सत्त्वादिभिर्धर्मैः कथंचिदेकत्वम् , प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति कृत्वा कथश्चिद्भेद इति सामान्यविशेषात्मकं वस्त्वित्याचारः, अन्यथाऽनाचारः ॥ ७३ ॥ । किम्बहुना सर्वत्र स्याद्वाद आचार इतरत्रानाचार इत्याह
लोकजीवधर्माधर्मबन्धमोक्षपुण्यपापाश्रवसंवरनिर्जरादयोऽनेकान्ता आचारः ॥ ७४॥
लोकेति, चतुर्दशरज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा लोको नास्ति, अवयवद्वारेणावयविद्वारेण वा वस्तुनः प्रतिभासमानत्वासम्भवात् , अप्रतिभासमानस्याभ्युपगन्तुमशक्यत्वात् , अवयवो ह्यतिसूक्ष्मः परमाण्वात्मकश्छद्मस्थविज्ञानेन न द्रष्टुं शक्यः, अवयवी च विचार्यमाणो नैव सद्भावमलङ्करोति, अतो न किमपि वस्त्वात्मलाभ लभत इति तद्विशेषो लोकोऽलोकश्च कथं भवेदिति न वाच्यः, सर्वं यदि नास्ति तर्हि न कोऽपि प्रतिषेधकोऽस्तीति कथं सर्वाभावः सिद्ध्येत, 10 अतोऽस्ति लोकः कथञ्चित् , तद्व्यतिरिक्तोऽलोकश्च, सम्बन्धिशब्दत्वात् , लोकव्यवस्थाऽन्यथाऽनुपपत्तेश्व, एकान्तेनैत अवयवा एव, अमी चावयविन एवेत्यनभ्युपगमेन तदाश्रितो दोषो नात्र सम्भवति । एवं प्रत्यक्षेणानुपलम्भाज्जीवो धर्मास्तिकायाद्यजीवो वा नास्त्येवेति संज्ञां न निवेशयेत् , सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानाम् । किन्तु जीवः स्याज्जीवः, स्यादजीवः, अजीवोऽपि स्यादजीवः स्याज्जीव इति स्याद्वाद आदरणीयः। तथा श्रुतचारित्राख्यो जीवस्यात्मपरिणामः कर्मक्षय-15 कारणं धर्मः, मिथ्यात्वादयः कर्मबन्धकारणमात्मपरिणाम एवाधर्मः, एतौ कालेश्वरस्वभावनियत्यादिमतेन न विद्यते, धर्माधर्मव्यतिरेकेण जगद्वैचित्र्यस्य कालादय एवैकान्तेन कारणमित्येवं मतिं न कुर्यात् , धर्माधर्मावन्तरेण केवलं कालादिना संसारवैचित्र्यस्यानुपपत्तेः, ततोऽस्ति धर्मः सम्यग्दर्शनादिकः, अस्त्यधर्मो मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेत् । प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणं बन्धः, स चामूर्तस्यात्मनो गगनस्येव न विद्यते तदभावाच्च मोक्ष-20 स्थाप्यभाव इति न मतिं कुर्यात् , आकाशस्यापि सर्वव्यापित्वेन पुद्गलसम्बन्धस्य दुर्निवारत्वात् , अन्यथा तयापित्वमेव न स्यात् , तथा विज्ञानस्य हृत्पूरमदिरादिना विकारो दृश्यते न चासौ तत्सम्बन्धव्यतिरेकेण सम्भवति, किश्च संसारिजीवाः सदा तैजसकार्मणशरीरिणोऽत आत्यन्तिकामूर्तत्वश्च तेषां न सम्भवति, ततोऽस्ति बन्धोऽस्ति च तत्प्रतिपक्षभूतो मोक्ष इति संज्ञां निवेशयेत् । शुभप्रकृतिलक्षणं पुण्यं नास्ति तद्विपर्ययलक्षणञ्च पापमपि नास्तीत्येवं संज्ञा न विधेया, तत्र हि कारणमित्थं वाच्यम् , 25 पापमेवास्ति न पुण्यं, उत्कर्षावस्थपापस्यैव सुखनिबन्धनत्वात् , पुण्यमेवास्ति न तु पापम् , अपचीयमानपुण्यस्यैव दुःखनिबन्धनत्वात् , अथवोभयमपि नास्ति संसारवैचित्र्यस्य नियतस्वभावाविकृतत्वात्, तन युक्तम्, एकस्य सद्भावेऽपरसद्भावनान्तरीयकत्वात् , सम्बन्धिशब्दत्वात्तयोः पुण्यपापशब्दयोः, न वा द्वयोरभावः, जगद्वैचित्र्यानुपपत्तेः, नियत्यादीनामवैचित्र्येण ततोऽपि तद्वैचित्र्यासम्भवाच, एवं कर्मोपादानलक्षण आश्रवस्तनिरोधः संवरः, एतौ द्वावपि न स्तः,. कायवालानःकर्म हि योगा स 30 चाश्रव इति वक्तव्यं तन्न, कायादिव्यापारेण कर्मबन्धाभावात् , आश्रबो यदि जीवाद्भिमस्तवा घटादि