________________
सूत्रार्थमुक्तावल्याम्
[ तृतीया
व्यवहारस्सूपपद्यते, तस्मादेकान्तपक्षयोरनाचारं विजानीयात् । एवञ्चोत्पादव्ययधौव्यात्म कान्यर्हद्दर्शनाश्रितानि वस्तूनि व्यवहाराङ्गम् नान्यदर्शनाश्रितानि, तस्याभावात् एवमर्हच्छासनप्रतिपन्नाः सर्वे भव्याः सिद्धिं यान्ति ततश्वोच्छिन्नभव्यं जगत्स्यात्, जीवसद्भावेऽप्यपूर्वोत्पादाभावेनाभव्यस्य सिद्धिगमनासम्भवेन कालस्यानन्त्यादनारतञ्च सिद्धिगमनसम्भवेन तद्व्ययोपपत्तेरिति तथा सर्वेऽभव्या एव इति 5 च न वक्तव्यम्, भव्यराशेर्भविष्यत्कालस्येवानन्तत्वात्, न वा सकलभव्यानां मुक्तिरवश्यम्भाविनी, तत्सामग्री प्रात्यवश्यम्भावानियमात् आगमेऽनन्तानन्तास्वप्युत्सर्पिण्यव सर्पिणीषु भव्यानामनन्तभाग एवं सिद्ध्यतीत्युक्तेः । नापि सर्वेऽभव्या एव, अनेकेषां सिद्धिगमनश्रुतेः, मुक्त्यभावे च संसारस्याप्यभावप्रसङ्गात्, सम्बन्धिशब्दौ ह्येतौ न हि मुक्तिः संसारं विना संसारोऽपि मुक्तिं विना सम्भवतीति दर्शनाचारः ॥ ७२ ॥
"
चारित्राचारमाश्रित्याह
अध्यवसायात् कर्मबन्धो न वध्यसादृश्यवैसादृश्यतः ॥ ७३ ॥
अध्यवसायादिति, एकेन्द्रियाद्यल्पकायानां हस्त्यादिमहाकायानाश्च व्यापादने सदृशं कर्म वैरं वा, सर्वजन्तूनां तुल्यप्रदेशत्वादिति नैकान्तेन वक्तव्यम्, प्रदेश तुल्यतायामपीन्द्रियविज्ञानकायानां विसदृशत्वात्तद्व्यापत्तौ कर्म वैरं वा न समानमित्यप्येकान्तेन न वाच्यम्, भवेत्तदा तथा कर्मबन्धो वैरं 15 वा यदा कर्मबन्धादिर्वध्यापेक्षः स्यात्, न तु तद्वशादेव बन्धः किन्त्वध्यवसायवशादपि, तथा च तीव्राध्यवसायिनोऽल्पकायसत्त्व व्यापादनेऽपि महद्वैरं कर्मबन्धो वा, अकामस्य तु महाकाव्यापादने स्वल्पमिति स्थिते तथावादोऽनाचारः, जीवसाम्यात्कर्मबन्ध सादृश्यासम्भवात्, न हि जीवव्यापत्त्या हिंसा, तस्य शाश्वतत्वेन व्यापादनासम्भवात्, किन्त्विन्द्रियादिव्यापत्त्या । किश्च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, आगमसव्यपेक्षस्य वैद्यस्य हि सम्यक् क्रियां कुर्वतो यद्यप्यातुर विपत्तिर्भवति 20 तथापि न वैरानुषङ्गो भावदोषाभावात्, अपरस्य तु सर्पबुद्ध्या रज्जुमपि प्रतो भावदोषात् कर्मबन्धः । तथा च वध्यवधकभावापेक्षया स्यात्सदृशत्वं स्यादसदृशत्वमित्याचारः, अन्यथाऽनाचारः । एवमाहारविषयाचारानाचारौ वक्तव्यौ, तथा हि-आधाकर्मोपभोगेनावश्यं कर्मबन्धो भवतीत्येवं नो वदेत्, श्रुतोपदेशेन शुद्धमिति कृत्वाऽऽधाकर्मापि भुञ्जानस्य कर्मोपलेपाभावात्, न कर्मबन्धो भवतीत्यपि नो वदेत्, श्रुतोपदेशमन्तरेणाहारगृद्ध्या भुञ्जानस्य तन्निमित्तकर्मबन्धसद्भावात्, किन्त्वाधा कर्मोपभोगेन 25 स्यात्कर्मबन्धः स्यान्न, अन्यथाऽनाचार इति । एवं तैजसकार्मणे शरीरे औदारिकवैक्रियाहारकेभ्योऽव्यतिरिक्त एव ताभ्यां सह तेषां युगपदनुपलब्धेरिति न वदेत्, एवमेकान्तेनाभेदे संज्ञाभेदः कार्यभेद न स्यात् तस्माद्भेद एवेति न वदेत्, किन्त्वे कोपलब्धेः स्यादभेदः, संज्ञादिभेदात्स्याद्भेद इति वक्तव्यम्, अन्यथाऽनाचार इति । तथा सर्वत्र सर्वस्य शक्तिरस्त्येव सत एव कारणात् कार्यकारणयोरभेदाचेति न वक्तव्यम्, सर्वथा कारणे कार्यस्य सत्त्व उत्पत्त्यसम्भवात् निष्पन्नघटस्येव, मृत्पिण्डावस्था30 यामेव घटसम्बन्धिक्रियागुणव्यपदेशप्रसङ्गाच्च, न चानभिव्यक्ततयाऽस्तीति वक्तव्यम्, सर्वथा वर्त्तमानत्वासम्भवात्, कार्यकारणयोः सर्वथैकत्वे चेदं कारणमिदं कार्यमित्यादिव्यवहाराभावप्रसङ्गः, नाप्येकान्तेन कार्य कारणेsसदुत्पद्यत इति वक्तव्यम्, घटादेरिव मृत्पिण्डाच्छशशृङ्गादेरप्युत्पत्तिप्रसङ्गात् । तस्मात्सर्व
10
१४२