SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४० सूचार्यमुक्कावल्याम् [वतीया __ अप्रतिहतेति, आत्मा बनादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगतः स्वभावादेवाप्रत्याख्यानी भवति, स एव च कुतश्चिनिमित्तात् प्रत्याख्यान्यपि भवति, तथाऽक्रियाकुशलो मिथ्यात्वोदयसंस्थितोऽपरप्राणिदण्डो रागद्वेषकलुषितो हिताहितप्राप्तिपरिहारविकलो भावसुप्तोऽप्रत्याख्यानक्रियत्वादेवाविचारितमनोवाकायश्च भवति, तदेवम्भूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति 5 तस्य चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते । नन्वव्यक्तविज्ञानस्य कथं पापं कर्म बभ्यते, पापकर्म हि कर्माश्रवद्वारभूतैर्मनोवाकायैर्बध्यते न त्वेकेन्द्रियविकलेन्द्रियादेः कर्मबन्धसम्भवः, प्राणिघातकस्य मनोवाक्कायव्यापारस्य तत्राभावात् , अन्यथा मुक्तानामपि कर्मबन्धो भवेत् , तस्माश्राव्यक्तविज्ञानस्य कर्म बध्यते किन्तु प्रस्फुटविज्ञानस्येति चेन्न, अप्रतिहतप्रत्याख्यातपापकर्मत्वात् , प्रतिहतं-विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, अतथाविधश्चाप्रतिहतप्रत्याख्यात10 पापकर्मा, तत्सद्भावाञ्चैकेन्द्रियविकलेन्द्रियादीनां मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं तद्भावात् प्राणातिपातादिदोषवन्तस्ते कथं न स्युः, तथाविधदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि कर्मबन्धका एव यथा हि वधकोऽवसरापेक्षी वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्यसावपि बालोऽस्पष्टविज्ञानो निवृत्तेरभावेन योग्यतया सर्वेषां प्राणिनां व्यापादको भवत्येव, तत्प्रत्ययिकेन च कर्मणा बध्यत एव । एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यम् । तथा चाप्र16 तिहतप्रत्याख्यातक्रिय आत्मा पापानुबन्धी, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वात्, खपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवद्यथाऽऽसौ वधपरिणामादनिवृत्तत्वाद्वध्यस्यामित्रभूतस्तथाऽऽत्मापि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्डः, यत एवं तस्मात् पापानुबन्धीति पञ्चावयवाः। ननु सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इत्यसिद्धम् , चतुर्दशरज्वात्मके लोके प्राणिनामनन्तत्वेन देशकालस्वभावविप्रकृष्टत्वेन न दृष्टा न श्रुता न 20 वा प्रातिभेन स्वयमेव विज्ञाता इति कथं तद्विषयस्तस्यामित्रभावः कथं वा प्रत्येकं वधं प्रति चित्तसमा धानं भवेत् , न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति चेन्मैवम् , तथापि देशकालखभावविप्रकृष्टेषु तेष्वमुक्तवैरत्वात् , अस्याविरतिप्रत्ययत्वात् , एवञ्च य इमे पृथिवीकायादयोऽसंशिनः प्राणिनः तेऽप्यहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादन यावत्परितापनपरिक्लेदादेरपतिविरता असंशिनोऽपि सन्तोऽहर्निशं सदा प्राणातिपाते कर्तव्ये तद्योग्य20 तया तदसम्प्राप्तावपि प्रामघातकवदुपाख्यायन्ते किमुत संज्ञिनः ॥ ६९ ॥ ___ ननु संज्ञित्वमसंज्ञित्वं च भव्यत्वाभव्यत्ववन्नियतरूपम् , न तु संझिनोऽसंशिनः, असंझिनो वा संझिनो भवन्तीत्याशंकायामाह संज्ञित्वासंज्ञित्वे न नियते, तथाविधकर्मपरिणामात्, एकस्मिन्नेव भवे उभयदर्शनाच्च ॥ ७॥ 30 संशित्वेति, पुरुषः पुरुष एव पशुरपि पशुरेव भवतीति वेदान्तिमतवन्न संज्ञित्वमसंज्ञित्वच नियतम्, भव्यत्वाभव्यत्ववदनयोर्न व्यवस्थानियमः, एते हि कर्मायत्ते, तथाभूतकर्मपरिणामात्
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy