________________
मुक्ता ]
सूत्रकृतलक्षर्णा ।
१३९
एवमष्का यतेजोवायुवनस्पतीनामपि भाव्यम् । नानाविधानां त्रसानामपि प्राणिनां शरीरं स्वकायेनावष्टभ्य प्रासुकी कुर्वन्ति, एवमाहार्य स्वकायत्वेन परिणमय्य सरूपतां नीतं तच्छरीरं तन्मयतां प्रतिपद्यते, एवं तावत्पृथिवीयोनिका वृक्षाः, वनस्पतियोनिकेष्वेवापरे वनस्पतयस्तथाविधकर्मोदयादुत्पद्यन्ते, एवं वृक्षावयवेष्वपि परे वनस्पतिरूपा भवन्ति तेषामाहारः स्वयोनिभूतं वनस्पतिशरीरं पृथिव्यप्तेजोवाय्वादीनां शरीर, एवमन्यवनस्पत्यादावपि द्रष्टव्यम् ॥ ६६ ॥
अमुमेव न्यायमन्यत्राप्यतिदिशति
5
एवं पृथिवीकायादयोऽपि स्वाधाराणां शरीरम् ॥ ६७ ॥
एवमिति, पूर्वोक्तप्रकारेण स्वकृतकर्मवशगा नानाविधत्र सस्थावराणां शरीरेषु सचित्तेष्वचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तथाऽकाय आगत्य नानाविधानां दर्दुरादित्रसानां हरितलवणादिस्थावराणां सचित्ताचित्तभेदभिन्नेषु शरीरेषु जीवा अप्कायत्वेनोत्पद्यन्ते, अप्कायशरीरस्य वातयोनिकत्वादूर्ध्व- 10 तेष्वपि वायुर्ध्व भागी भवत्यप्कायः, अधस्ताद्गतेषु च तद्वशादधोभागी भवति, यथावश्यायहिमादयः, तथा तेजस्काया अपि सचित्ताचित्तमिश्रेषु त्रसस्थावराणां शरीरेषु प्रादुर्भवन्ति, एवं वायुकाया अपि, ये यत्रोत्पन्नास्ते तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, एवं विकलेन्द्रिया अपि, एषां स्वयोनिभूतमचित्तमचित्तगतानाच मांसचर्मरुधिरादिकमाहारं भवतीति ॥ ६७॥
गर्भव्युत्क्रान्तमनुजानामाहारमाह
उभयोरेकस्याssहारो नवनीतादयश्च मनुजानाम् ॥ ६८ ॥
उभयेोरिति, शुक्राधिकं पुरुषस्य शोणिताधिकं स्त्रियास्तयोः समता नपुंसकस्य कारणतां प्रतिपद्यते, तदुभयमप्यविध्वस्तम्, स्त्रियो वामा कुक्षिः पुरुषस्य दक्षिणा षण्डस्य मिश्राऽऽश्रयः, योनौ बीजे चाविध्वस्त एवोत्पत्तेरवकाशः, नारी यदा पञ्चपञ्चाशिका पुरुषश्च सप्तसप्तिकस्तदा तयोर्विध्वंसः । तथा द्वादशमुहूर्त्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः, तत ऊर्द्ध ध्वंसमुपगच्छत इति । तत्र 20 वेदोदये पूर्वकर्मनिर्वर्त्तितायां योनौ रताभिलाषजनितेन संयोगेन तच्छुक्रशोणिते अवलम्ब्य जीवास्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसन्दा नितास्तत्रोत्पद्यन्ते तत्र जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुंनपुंसकभावेनोत्पद्यन्ते, तदुत्तरकालं स्त्रियाऽऽहारितस्याहारस्य स्नेहमाददति तत्स्नेहेन च क्रमोपचयात्, कललबुद्बुदादिरूपेण निष्पद्यन्ते तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमो-., जसा मिश्रेण वा लोम्रभिर्वाऽऽनुपूर्व्येणाहारयन्ति, क्रमेण वृद्धिमुपेता गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः 25 कायात् पृथग्भवन्तस्तद्योनेर्निर्गच्छन्ति, ततस्ते पूर्वाभ्यासादाहाराभिलाषिणो मातुः स्तन्यमाहारयन्ति क्रमेण प्रवृद्धा नवनीतदध्योदनादि भुञ्जते तथाऽऽहारत्वेनोपानतान् त्रसाम् स्थावरांश्च प्राणिन आहारयन्ति, एवं तिर्यग्योनिका अपि किश्विद्विशेषेण भाव्याः ॥ ६८ ॥
तदेवमेत आहारेष्वगुप्ता अत एवैषां कर्मबन्धोऽवश्यम्भावीति तत्प्रत्याख्यानमुत्तरगुणसम्पादनाय सम्प्रति प्रदर्शयति —
अप्रतिहतप्रत्याख्यातपापकर्मा कर्मबन्धकः ॥ ६९ ॥
-
15
30