SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मुक्ता] सूत्रकृतलक्षणां। - १३३ । नियतिनियतित्वादेव नियतस्वभागा, न तु नानास्वभावा, तथा च तस्या एकत्वेन तत्कार्यमप्येकाकार । स्यात् , एकाकारकारणजन्यस्यानेकाकारत्वादर्शनात् , तस्मान्न नियतियुक्तिभिर्विचार्यमाणा घटते, नानावादाभ्युपगन्तृणां समानत्वमपि यदुक्तं तदपि प्रतीतिबाधितमेव, भिन्नभिन्नवादानां हि कथमेकता स्यात् , एकनियतिप्रयुक्तत्वादिति चेन्न जगद्वैचित्र्यासम्भवात् , तस्मान्न नियतिवादः श्रेयान् , तांश्च श्रद्दधानाः कामोपभोगेषु सक्ता एव दुष्पारसंसारपकनिममा न कदापि पारयायिन इति ॥ ५७ ॥ यः कामभोगेष्वसक्तः संसारपारयायी भवति तथाविधमादर्शयति क्षेत्रखजनादयो न त्राणायेति तत्त्यागाय कृताध्यवसायो विदितवेद्यः॥ ५८॥ क्षेत्रेति, यो हि प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा जानीयादेवम् , यथा-जगत्यस्मिन् क्षेत्रवास्तुहिरण्यधनधान्यादिकं बाह्यतरं यद्वस्तु जातं तन्ममोपभोगाय भविष्यति, अहमप्येषां योगक्षेमार्थ प्रभ- 10 विष्यामीत्येवं सम्प्रधार्य तदासक्तो भवति, ततश्च कदाचित् नितरां दुःखोपादानमनिष्टं शिरोवेदनादिदुःखं जीवितविनाशकश्शूलादिर्वा यदि तस्य समुत्पद्यते तदा हे कामभोगाः! यूयं मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगं वा विभागशः परिगृहीत, अहमनेनातीवोद्विमो दुःखितः, अतोऽमुष्मान्मां प्रतिमोचयतेति भृशं प्रार्थयमानोऽपि न ते क्षेत्रादयस्तस्य त्राणाय शरणाय वा भवन्ति, तथा . सुलालिता अपि राजाद्युपद्रवकारिभिह्रियमाणा नेषदपि विचारयन्त्येतावन्तं कालं यावल्लालयितारमा-18 स्मानम् , तस्माद्भिन्नाः खल्वमी क्षेत्रादयस्तेभ्यश्चाहम्, एवंस्थिते किमेतेष्वन्येषु परभूतेषु विनश्वरेषु मम मूर्च्छति, एवं मातापितृभगिन्यादयोऽपि सुलालिता अपि न दुःखान्मोचयितारः, न वाऽहं तेषां दुःखस्य मोचनाय समर्थः, सर्वे हि संसारिणः स्वस्वकृतकर्मोदयापादितदुःखादिमन्तः, न ह्यन्यस्य दुःखमन्यः कोऽपि प्रतिग्रहीतुं समर्थः, अन्यथा पुत्रादेवुःखेनासयेनात्यन्तपीडिताः स्वजनास्तहुःखमात्मनि कुयुः, तथा च सत्यकृतागमकृतनाशौ युक्त्यसङ्गतौ प्रसज्येयाताम् , अतो यद्येन कृतं तत्सर्व स एवानुभवति, 20 ततश्च सर्वोऽप्यसुमानेकको जायते क्षीणे चायुष्येकक एव म्रियते, तस्मादन्ये खल्वमी मत्तो ज्ञातय इत्वराश्च, एभ्यश्चान्योऽहमस्मि, किमेषु मम मूर्च्छयेति च । तदेवं क्षेत्रखजनादावुत्पन्नवैराग्यो यस्तान् त्यक्ष्यामीत्येवमध्यवसायं करोति स एव विदितवेद्यो भवति ॥ ५८॥ अनन्तरकर्त्तव्यमाहस निष्किञ्चनो भिक्षुरारम्भनिवृत्तो निराशंसः सत्संयमी ॥ ५९॥ 25 स इति, यो विदितवेद्यः प्रतिक्षणं म्रियमाणे शरीरेऽपि ममतारहितः संसारासारतां विज्ञाय परित्यक्तसमस्तगृहप्रपश्चस्संयमी कामभोगार्थिनो गृहस्थशाक्यब्राह्मणादयः, स्वत एव तदुपादानान् सचित्तानचित्तांश्चार्थान् परिगृहन्ति, अन्येन च परिग्राहयन्ति परिगृह्णन्तं समनुजानते, परिप्रहिण एते पापान्युपाददते त्रसस्थावरोपमर्दकं व्यापार स्वतः कुर्वन्ति परेण कारयन्ति कुर्वन्तश्च समनुजानन्ति, तस्मादेते सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच्च संयमानुष्ठानेनानुपस्थिताः, येऽपि कथ- 30ब्रिद्धर्मकरणायोस्थितास्तेऽप्युदिष्टभोजित्वात्सावधानुष्ठानपरत्वाच गार्हस्थ्य नातिवर्त्तन्त इत्येवं परिक्षाय''
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy