________________
१३३
सूत्रार्थमुक्तावल्याम्
[ तृतीया
1
विवर्त्ताः सर्वेऽप्येते पुरुषमेवाभिव्याप्य तिष्ठन्ति यथा हि शरीरिणां संसारान्तर्गतानां कर्मवशगानां यो गण्डादिर्भवति स शरीरावयवभूतः शरीराभिवृद्धौ तस्याभिवृद्धिः स च शरीरं व्याप्य व्यवस्थितो न तु शरीरात् पृथग्भूतः, तदुपशमे च शरीरमेवाश्रित्य स वर्त्तते न ततो बहिर्भवत्येवमेवामी धर्माचेतनाचेतनारूपास्ते सर्वेऽपीश्वरकर्तृका न त ईश्वरात् पृथक् कर्त्तुं पार्यन्ते तद्विकारापगमे चात्मानमे5 वाश्रित्यावतिष्ठन्ते न तस्माद्वहिर्भवन्ति, उक्तञ्च - 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमिति, तथा 'एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदि'ति । तथा वदन्ति च द्वादशाङ्गं मिथ्या, अनीश्वरप्रणीतत्वात् स्वरुचिविरचितरथ्या पुरुषवाक्यवत्, नैतत्तथ्यमिति तन्मतं निराकरोति नेति, सर्वमीश्वरकर्तृकमित्यभ्युपगमे किमसौ परान् स्वत एव क्रियासु प्रवर्त्तयते, उतान्यप्रेरितः, आधे परेsपि स्वत एव प्रवर्त्तेरन् किमीश्वरेण, द्वितीये त्वनवस्था, ईश्वरोऽन्येन प्रेर्यते सोऽप्य10 न्येनेत्यादि । किञ्चासावीश्वरो महापुरुषतया वीतरागोपेतस्सन्नेकान्नरकयोग्यासु क्रियासु प्रवर्त्तयति, अपरांस्तु स्वर्गापवर्गयोग्यास्विति कथं स्यात्, न च ते पूर्व शुभाशुभचरितोदयादेव तथाविधक्रियासु प्रवर्त्तन्ते, ईश्वरस्तु निमित्तमात्रमिति वाच्यम्, प्राक्तनाशुभप्रवृत्तेरपि तदायत्तत्वात्, तत्रापि प्राक्तनाशुभाचरणान्तरस्य हेतुत्वे तत एव शुभाशुभस्थानप्राप्तिसम्भवे किमीश्वरपरिकल्पनया, संस्थानविशेषवत्त्वं हेतुरप्यसिद्धाविनाभावक इत्यसकृदावेदितमेव सम्मति सोपाने, जगत ईश्वरकर्त्तृत्वे तस्यैकरूपत्वेन 15 जगद्वैचित्र्यस्यासिद्धिश्च । आत्माद्वैतपक्षस्त्वत्यन्तं युक्त्यसङ्गत एव, आत्मन एकत्वात् प्रमाणमिदं प्रमेयमिदं प्रतिपाद्योऽयम्, प्रतिपादकोऽयम्, हेतुरयम्, दृष्टान्तोऽयम्, तदाभासोऽयमित्यादिभेदावगमो न स्यात् ततश्च कथं जगद्वैचित्र्यं घटेत, निर्हेतुकत्वे नित्यं सत्त्वमसत्त्वं वा भवेत् । तदेवमीश्वरकर्तृकत्वमात्माद्वैतश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद्धटां प्राञ्चति, तथाप्येते स्वदर्शनमोहिता दुःखान्नातिमुच्यन्ते, विप्रतिपन्नाश्चासमञ्जसभाषितया तमेव पक्षं श्रद्दधानाः कामोपभोगेषु मूर्च्छिता न कदापि 20 निरतिशयसुखानन्दभाजो भवन्ति ॥ ५६ ॥
अथ नियतिवादं निराकरोति—
"
नियतिकृतं सर्वमनिष्टस्यापि कर्तृत्वादिति चेन्न तस्या एवाभावात् ॥ ५७ ॥ नियतीति, सर्व लोके नियतिकृतमेव, न तत्र कालो वेश्वरो वा पुरुषकारो वा प्रकृतिर्वा कारणम्, समानक्रियाणामपि कस्यचिदेवार्थसिद्धेः, यदि हि नियतिप्रेरितं जगन्न स्यात्, कश्चिन्नियत25 वादी कश्चिदनियतवादी कश्चित्क्रियावादी कश्चिदक्रियावादीति न तुल्यता भवेत्, किन्तु नियतिवशेनैव तथावादाश्रयणात्समानता, पुरुषकारादिकृतत्वे च दुःखोत्पादकक्रियासमारम्भमात्मा न कुर्यात्, न हि कस्यचित्स्वात्माऽनिष्टः, येन तस्य परितापादिजनकमनुष्ठानं विदध्यात्, किन्तु नियत्यैवासावनिच्छनपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, तस्मात्सर्वे प्राणिनो नियतित एव तत्र तत्र नानाविधशरीरसम्बन्धं ततो वियोगं चानुभवन्ति, न तु कर्मादिनेति । नियतौ प्रमाणाभावं विचिन्त्य तन्मतं दूष30 यति, तस्या एवाभावादिति, नियतेरेव निर्युक्तिकतयाऽभावादित्यर्थः, तथा हि- किमसौ नियतिः स्वत एव नियति स्वभावा, अन्यया वा, स्वत एवेति चेत्कुतो न पदार्थानामेव तथा स्वभावत्वम्, येन बहुदोषा नियतिराश्रयणीया भवेत् । अन्यया सा नियम्यत इति चेत्किं न पश्यति भवाननवस्थाम् । किंच
"