________________
१३०
सूत्रार्थमुक्तावल्याम्
[ तृतीया
विज्ञानपूर्व परित्यागी क्रोधादिविधुरो यतो यत इहामुत्र चानर्थहेतुमात्मनोऽपायं पश्यति ततः प्रागेवात्महितमिच्छन् विरतो दान्तः शुद्धो निष्प्रतिकर्मतया व्युत्सृष्टकाय: श्रमणो वाच्यः, पूर्वोदितगुणमणपरिपूर्णो निरभिमानी सदा गुर्वादौ विनीतो वैयावृत्योद्यतो दान्तः शुद्धो निष्प्रतिकर्मशरीरो द्वाविंशतिपरीषहाणां दिव्याद्युपसर्गाणाश्च सम्यगधिसोढा धर्मध्यानेनावदातचारित्रः संसारासारतायाः कर्मभू5 मेर्दुष्प्रापतायाः बोधेः सुदुर्लभतायाश्च परिज्ञाता सकलसंसारोत्तरणसामग्री सम्पन्नः परक्तभोजी भिक्षुर्वाच्यः । पूर्वव्यावर्णितगुणालङ्कृत एकस्यैव परलोकयायितया सदा भावत एकक एकान्तेन मौनीन्द्रमेव शासनं तथ्यं नान्यदिति सुदृढं विदितसंसारस्वभावतया वेत्ता परिच्छिनकर्माश्रमद्वार शत्रु मित्रादिषु सम उपयोगलक्षणजीवस्यासंख्ये यप्रदेशात्मकस्य संकोचविकासभाजो निजकृतकर्मभोक्तुः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधर्मात्मकस्याजीनादेश्च सुष्ठु 10 तस्ववेदी सुपरित्यक्तद्रव्यभावस्रोताः पूजादिनिरपेक्षतया निर्जरार्थमेव तपश्चरणादिक्रियाविधाता शान्तो दान्तो निष्प्रतिकर्मशरीरो निर्मन्थो वाच्यः सर्वेऽप्येते ब्राह्मणादिशब्दा भिन्नव्यञ्जना अपि कथचिदेकार्थाश्च ॥ ५२ ॥
अथ पूर्वोक्तार्थानेव दृढीकर्तुं सोपपत्तिकं परसमयं निरस्यति—
नास्ति देहभिन्नो जीवः कोशादसिवत् पृथगनुपलब्धेरित्येके ॥ ५३ ॥
15 नास्तीति न विद्यते शरीराद्भिन्न आत्मा, यदि भवेत्तर्हि यथा कोशात् खनं समाकृष्य खङ्गोऽयं कोशोऽयमिति प्रदर्श्यते तथा भेदवादिभिरयं जीव इदं शरीरमित्युपदर्थ्येत, न चास्त्येवसुपदर्शयिता कश्चिदतो न कायाद्भिन्नो जीवः, किन्तु यदेवैतच्छरीरं स एव जीवो ये च शरीरस्यावस्थाविशेषास्त एव तस्यापि, यावन्तं कालं तदविकृतमास्ते जीवोऽपि तावन्तमेव कालं जीवतीत्युच्यते यदा तु तद्विकृतं भवत्येकस्यापि भूतस्यान्यथाभावात्तदा जीवोऽपि न जीवति तस्मिंश्च वि20 नष्टे जीवो विनष्ट इति कृत्वा दहनायेदं श्मशानादौ नीयते ध्मापिते च तस्मिन्नस्थीन्येव केवलमुपलभ्यन्ते न तु तदतिरिक्तः कश्चिद्विकारः समुपलभ्यते येनात्मास्तित्वशङ्का भवेत्, न वा तत्र तद्बान्धवाः शरीरान्निर्गच्छन्तं कचिदात्मानं पश्यन्ति, तथा च शरीरमात्र एव जीवस्ततः परलोकिनोऽभावान्नास्ति " परलोको नापि पुण्यपापे, न वा सदसदनुष्ठानभेदः, तज्जन्येष्टानिष्टफलभोक्तुरभावादिति लोकायतिका महासमारम्भिणः प्राहुः ॥ ५३ ॥
तदेतन्मतं निराचष्टे -
"
तन्न भिन्नतयाऽनुभूयमानामूर्त्तगुणाधारतया तत्सिद्धेरन्यथा मरणानुपपत्तेः ॥ ५४ ॥
तन्नेति, आत्मा नेतिवादो न युक्तः, तथाहि कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि, इदं मे शरीरं पुराणं कृशं स्थूलमित्येवं शरीरात् पृथग्भावेनात्मनि सम्प्रत्यया अनुभूयन्ते, 30- इदच ज्ञानं मूर्त्तिमतरशरीरादन्यत्, तस्य चामूर्तेनैव गुणिना भाव्यम्, अतः शरीरात् पृथग्भूतोऽमूर्त आमा ज्ञानाधारभूतो ज्ञानमिवास्ति, अन्यथा ज्ञानमपि न भवेत्, न मुक्त मूर्तस्य गुणो युक्तः,
25