________________
मुक्ता] सूत्रकृतलक्षणा।।
१२९ ग्रहणम्। स्त्रीसङ्गो हि निखिलाविनयास्पदभूत:, सूकरादिपशूनां वध्यस्थानप्रवेशनमूतो भक्ष्यविशेषो नीवार उच्यते तत्समानं मैथुनम् , यथा हि पशुर्नीवारेण प्रलोभ्य वध्यस्थानमुपनीय नानाप्रकारा वेदनाः प्राप्यत एवमसौ जीवो नीवारतुल्येनानेन स्त्रीसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, येन च स्त्रीप्रसङ्गः परित्यक्तः स एव प्रधानभूतमोक्षलक्षणपुरुषार्थोद्यतो धर्मवानशेषकर्मबन्धनोन्मुक्तश्च, नासंय. मजीवितमभिलषति परिग्रहादिकमपि नेच्छति, असंयमजीवितञ्चानादृत्य सदनुष्ठानपरायणो ज्ञाना-5 वरणादिकर्मणां पर्यवसानाय यतते, यतमानः संसारावतरणद्वाराण्यपनीय रागद्वेषासम्पृक्ततया विषयाप्रवृत्तेः स्वस्थचेताः सदेन्द्रियनोइन्द्रियाभ्यां दान्तः कर्मविवरलक्षणं भावसन्धिमनन्यतुल्यं प्राप्तो न केनचित्सह विरोधं करोति, प्रशान्तमना हितमितभाषी निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थचक्षुष्मान् भवति, स एव च भव्यमनुष्याणां चक्षुः, सदसत्पदार्थाविर्भावनात् , एवंविधा महासत्त्वा इहार्यक्षेत्रे संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणः, न केवलं तीर्थङ्करादयः, किन्त्व-10 न्येऽपि सम्यग्दर्शनज्ञानचरित्रात्मकं धर्ममाराध्य मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था उपरतसर्वद्वन्द्वा भवन्ति, प्रचुरकर्मतया केचित्सत्यामपि सम्यक्त्वादिकायां सामन्यां न तद्भव एव मोक्षं प्राप्नुवन्ति किन्तु सौधर्माद्याः पञ्चोत्तरविमानावसाना देवा भवन्तीति, सिद्धिस्तु मनुष्यभवादेव, एतेन देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्तीति शाक्यवादो निरस्तः । तस्मात् सत्संयमवीर्यं तपोवीर्य वा लब्ध्वा तेन पूर्वानेक-15 भवोपात्ताष्टप्रकारं कर्म धुनीयात, अभिनवश्चाश्रवनिरोधान्न कुर्यात् , यच्चोयुक्तविहारिणः सदनुष्ठानमाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावाद्देवा अभूवन, एवं कर्मविदारणसहिष्णवोऽनेके सदा भूता भवन्ति भविष्यन्ति च, सत्संयमानुष्ठानासंसारं तीर्णास्तरन्ति तरिध्यन्ति च ॥ ५१ ॥ पूर्वोक्तार्थानुष्ठातैव साधुरित्याह
... . ..
20 - स एव ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थः ॥ ५२॥
स एवेति, यः स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकाराणां कर्मणां विदारकोऽनुकूलप्रतिकूलोपसर्गसहनः स्त्रीपरीषहजेता नरकवेदनाभ्यः समुद्विजमानः श्रीवीरवर्धमानखामिवत्संयम प्रति कृतप्रयत्नः कुशीलदोषपरिज्ञानेन सुशीलतावस्थायी पण्डितवीर्योद्यतः क्षान्त्यादिधर्मानुष्ठाता सम्पूर्णसमाधियुक्तः सम्यग्दर्शनज्ञानचारित्रलक्षणमार्गानुगस्ती- 25 र्थिकदर्शनेषु दोषज्ञानेन तेष्वश्रद्दधानः शिष्यगुणदोषवेत्तृतया सद्गुणेषु वर्तमानः प्रशस्तभावप्रन्थभावितात्मा यथावदवदातचारित्रश्च स एव ब्राह्मणो नवब्रह्मचर्यगुप्तिगुप्तत्वात् , ब्रह्मचर्यधारणाद्वा, स एव श्रमणः, सदा तपसा श्रान्तत्वात्, सर्वत्र वासीचन्दनकल्पत्वाच, स एव भिक्षुर्भिक्षणशीलत्वादष्टकर्मभेदकत्वाच, स एव निर्मन्थः, सबाह्याभ्यन्तरमन्थाभावात् । यः पूर्वोक्तार्थवृत्तिः प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादरत्यरतिमायामृषावादमिथ्यादर्शनशल्यविरतः समितः सदा 30 ज्ञानादिमान् सत्संयमानुष्ठानपरायण आक्रुष्टो न क्रोध्युत्कृष्टतपोयुतोऽपि न मानी स साधुर्माहनो.. वाच्यः। पूर्वोक्तगुणविशिष्टः शरीरादावपि कचिदप्रतिवद्धो निराकांक्षः सम्यक् प्राणातिपातादीनां
सू० मु०१७