SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रसक्ते, न चैतद् दृष्टमिष्टं वा । न च परिदृश्यमानानामादित्यचन्द्रसरिदादीनामभावानपुद्रमनास्लमकहासवृद्धयादिक्रियाः कुतः स्युः सर्वमिदश्च जगति यदुपलभ्यते तत्सर्व मायाखनेन्द्रजालकल्पमिति काच्यम् , आगोपालाङ्गनाप्रतीतस्य समस्तान्धकारक्षयादिकारिण उद्मनादेरपलपितुमशक्यत्वात् , सर्वाभावे सत्यस्याभावात्तत्प्रतिपक्षभूतासत्यरूपाया मायाया अप्यभावेन मायाखगेन्द्रजालकल्पमिदं जगदि. सभ्युपगमस्यासम्भवाच, खप्नोऽपि हि जाग्रदवस्थायाः सद्भावे भवेत् , तस्याश्चाभावे सोऽपि कथं स्यात्, एवमिन्द्रजालव्यवस्थाप्यपरसत्यत्वे सति भवति, नान्यथा, किश्च सर्वशून्यत्वमपि न वस्तु, अभावल तुण्डरूपत्वात्, शशविषाणादीनामत्यन्ताभावतया प्रसिद्धानामपि सम्बन्धस्यैव निषेधो न तु वस्तुम आत्यन्तिकोऽभावः, तस्माद्विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः ॥ ४३ ॥ __ अनिरुद्धप्रज्ञाश्च यथावस्थितार्थवेदिनो भवन्ति, त्रैलोक्यवर्तिनश्च पदार्थानवध्यादिभिः कर-10 तलामलकन्यायेन पश्यन्ति श्रुतज्ञानिनोऽपि श्रुतबलेनातीतानागतान् जानते, अष्टाङ्गनिमित्तपारगा निमितेनेति स्थिते तत्र व्यभिचारमाशङ्कय निराकरोति श्रुतमपि व्यभिचारीति चेन्न, क्षयोपशमादिवैकल्यात् ॥ ४४ ॥ श्रुतमपीति, अपिशब्दो भिन्नक्रमः, श्रुतं व्यभिचार्यपि भवति, आगमे चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वश्रवणात्, यदा च चतुर्दशपूर्वविदां षट्स्थानपतितत्वं तदाऽष्टाङ्गनिमित्तशास्त्रविदां किमु 15 वक्तव्यम्, अत्रेदं बोध्यमङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदशशतानि सूत्रम्, तावन्येव सहस्राणि वृत्तिः, तावल्लक्षप्रमाणा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रम्, तावपरिमाणलक्षा वृत्तिः, अपरिमितं वार्त्तिकमिति । एतद्वेदिनामपि षट्स्थानपतितत्वेन व्यभिचारित्वम् , तत्र केषाश्चिनिमित्तानामुत्पातशकुनादीनां जीवितमरणादिफलजनकानां तददर्शनतो व्यभिचारात् । तत्रोत्तरमाचष्टे क्षयोपशमादिवैकल्यादिति, निमित्तानां केषाश्चिदन्यथात्वं मत्वा श्रुतस्य व्यभिचारशङ्कया 20 तत्परित्यागो भ्रान्तिमूल एव, निमित्तस्य हि कस्यचित् फलव्यभिचारित्वदर्शनं निमित्तवेदिनां तथाविधक्षयोपशमाभावेनान्यथापरिज्ञानात् , तथाविधसामग्र्यन्तरवैकल्याद्वा । तथा श्रुतमपि सम्यम्गृहीतं नार्थाविसंवादि, षट्स्थानपतितत्वञ्च पुरुषाश्रितक्षयोपशमवशेन, न हि प्रमाणाभासव्यभिचारे प्रमाणस व्यभिचारशका युक्ता, अन्यथा मरुमरीचिकाजलग्राहिप्रत्यक्षस्य व्यभिचारित्वेन सत्यजलपाहिप्रत्यक्षस्यापि व्यभिचारिता स्यात् । तथा च सुविवेचितकार्यस्य कारणाव्यभिचारितया प्रमातुरेवायमपराधो 25 न प्रमाणस्यातो निमित्तश्रुतमपि न व्यभिचारि । कचिक्षुतादौ कार्यसिद्धिदर्शनन्तु मध्येऽन्यशुभमिमित्तबलात्, शोभननिमित्तदर्शनानन्तरमपि कचित्कार्यासिद्धिरपान्तरालेऽशुभनिमित्तान्तरत एवेति ॥४४॥ अथ क्रियात एष मोक्ष इति मनिरासायाह ज्ञानक्रियाभ्यां मोक्ष इति सर्वज्ञोपदेशः॥४५॥ . ज्ञानेति, न हि ज्ञानरहितायाः क्रियायाः सिद्धिस्तदुपायावेदनात्, न चोपायं विना प्राप्यत 30 उमेरम्, ज्ञाक्यता क्रियाया व फलवत्त्वात् , तस्मान ज्ञाननिरपेक्षा दीक्षादिलक्षणा क्रिया मोक्षफल
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy