________________
१२२
बैविकमतं निराकरोति
10
सूत्रार्थमुकाबल्वाम्
विनयादेव मोक्ष इति चेन्नासामर्थ्यात् ॥ ४२ ॥
विनयादेवेति, एवशब्देन सम्यग्दर्शनज्ञानचारित्र्व्युदासः, वैनयिकों हि विनयादेव केवलात् परलोक मिच्छन्ति, विनयश्च सुरनरपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कार्येन दानेन च 5. चतुर्विध इति वदम्ति, सर्वकल्याणभाजनं विनय इति च, तन्मतं निराकरोति असामर्थ्यादिति, ज्ञानक्रियाभ्यां हि मोक्षः स च केवलं विनयादेव कथं भवेत्, सम्यग्दर्शनादिसम्भव एव तस्य मोक्षसामर्थ्यात्, तद्रहितो हि विनयोपेतः सर्वस्य प्रहृतया न्यक्कारमेवाप्नोति, तस्मादेते मृषावादिन एवासले सत्याभिगानात्, मोक्षजनकतया सत्ये सम्यग्दर्शनादौ सत्यत्वाभिमानात् तस्माद्युक्तिविकलत्वान्न सम्ययथावस्थितधर्मस्यैते परीक्षका इति ॥ ४२ ॥
अक्रियावादिमतं निराकरोति
तृतीया
"
आत्मक्रियानभ्युपगमो न युक्तो विपाकात्कर्मवत्त्वादिसिद्धेः ॥ ४३ ॥
आत्मेति, लोकायतिको ह्यात्मा न प्रमाणविषयोऽत एव न तत्क्रिया न वा तज्जनितः कर्मबम्भः, उपचारेण त्वस्ति बन्धः, तद्यथा ' बद्धा मुक्ताश्च कथ्यन्ते मुष्टिप्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति मुष्टिप्रन्थिकपोतका ः ' ॥ इति वदन्ति शाक्यानामपि मते सर्वसंस्काराणां क्षणिकत्वात्, 16 अत एव चाक्रियत्वम्, पञ्चस्कन्धाभ्युपगमोऽपि संवृतिमात्रेणैव न परमार्थतः, अवयविनामवयवेभ्यो भिन्नत्वाभिन्नत्वाभ्यामनुपपत्तेः, अवयवानामपि परमाणुपर्यवसायिनामतिसूक्ष्मतया ज्ञानविषयस्वासम्भवात् तथा विज्ञानस्यापि न परमार्थतः सत्वम्, ज्ञेयाभावेन निराकारत्वात्, आकाररहितस्यावस्तुत्वात् तस्य सत्त्वेऽपि क्षणिकत्वेनातीतानागतानामभाषात्, वर्त्तमानस्यापि क्षणत्वेनाक्रियत्वात्तथा
कथं तज्जनितः कर्मबन्धः स्यात्, सांख्यादयोऽप्यात्मनो विभुत्वादक्रियावादिनः । अत्र दोषमाह 20 विपाकादिति, नानाविधो हि कर्मविपाको दृश्यते सर्वशून्यत्वे हि जातिजरामरणरोगलोकोत्तममध्यमाधमत्वानि न स्युः, अयमेव कर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मवस्ववावेदयति, सर्वशून्यत्वे च लोकायतिकाः स्वशिष्येभ्यो न जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयेयुः, यदि प्रतिपादयेयुस्तर्हि नान्तरीयकतयाऽऽत्मानं कर्त्तारं करणं शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, बौद्धा अपि षड्गतीः वर्णयन्ति, असति चात्मनि कारके कथं गतयः स्युः, सन्तानस्यापि सन्ता निव्यतिरेकेण 25 संवृतिमत्त्वेन क्षणस्य चास्थितत्वेन क्रियाभावान्न नाम गतयः स्युः, तदेवमेते नास्तित्वं प्रतिपादयन्त आत्मनोऽस्तित्वमेव प्रतिपादयन्ति । सांख्या अपि सर्वव्यापितयाऽक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगात् मोक्षसद्भावं प्रतिपादयन्त आत्मनो बन्धं मोक्षश्च स्ववाचा प्रतिपादयन्ति बन्धमोक्षसद्भावे सक्रियतायाः सिद्धेः, न हि क्रियामन्तरेण बन्धमोक्षौ घटेते । किञ्च लोकायतिकानां सर्वशून्यत्वे म किञ्चित् प्रमाणमस्ति, प्रमाणसद्भावे च न सर्वशून्यत्वं, प्रमाणस्य सत्त्वात् । न वा प्रत्यक्षमेव प्रमाणम्, 30 अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततश्च सर्वव्यवहारोच्छेदः स्यात् । बौद्धानामयत्यन्त क्षणिकत्वेन वस्तुत्वाभावः स्यात् यदेव ह्यर्यक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियाकारी, क्षणिकत्वहानेः, न वा यौगपद्येन, एकक्षण एव तत्कार्याणामखिलानां भाव