________________
मुक्ता ]
• सूत्रकृतलक्षणा । .
१२१
द्विद्यते यस्य वाक्यं प्रमाणं भवेत्, विद्यमानोऽप्यसौ नार्वाग्दर्शिनोपलक्ष्यते, तथा चोक्तम् 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथमि'ति । न च सर्वविषयविज्ञानसम्भवः, तदुपायपरिज्ञानाभावात्, अन्योऽन्याश्रयात्, विशिष्टज्ञानव्यतिरेकेण न तत्प्रान्युपायज्ञानम्, न च तदन्तरेणोपेयस्य सर्वविषयविज्ञानसम्भव इति । न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छिनत्ति, उपलभ्यमानस्यार्वायध्यपरभागत्रयवत्त्वेनार्वाग्भाग एव ज्ञानेन परिच्छिद्यते, नेतरौ, 5 - अर्वाग्भागेन व्यवधानात् तथाऽर्वाग्भागस्यापि भागत्रयपरिकल्पनया तदेकभागस्यापि पुनस्तथाकल्प - नातू परमाणुपर्यवसानता भागस्य स्यात्, तथा च तस्य स्वभावविप्रकृष्टत्वादवग्दर्शिनां नोपलम्भवि-पयसेति पदार्थ परिच्छेदासम्भवेन सर्वज्ञाभावादसर्वज्ञस्य यथावस्थितवस्तुस्वरूपापरिच्छेदात् सर्वबादिनां परस्परविरोधेन पदार्थस्वरूपस्याभ्युपगमाद्यथोत्तर परिज्ञानिनां प्रमादवतां बहुतरदोषसम्भवादज्ञानमेव श्रेयः, अज्ञानवांश्च कथञ्चित् पादेन शिरसि यदि हन्यात्तदापि चित्तशुद्धेर्न तथाविधदो - 10 षानुषङ्गीति । मतमिदं दूषयति नेति, असर्वज्ञप्रणीतागमाभ्युपगमवादिनामेव परस्परविरुद्धार्थचादित्वेना यथार्थवादित्वं भवेत्, सर्वज्ञप्रणीतागमाभ्युपगम वादिनान्तु नास्ति कोऽपि परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेः । सर्वज्ञो ह्यनृतकारणरागद्वेषरहितः प्रक्षीणाशेषमोहकर्मत्वात्, अतस्तद्वाक्यं क्रथमयथार्थं भवेत् तस्प्रणीतागमवतां च कथं विरोधवादित्वम् । न च सर्वज्ञ एव नास्तीति वक्तव्यम्, प्रत्यक्षतस्तस्यानुपलम्भेऽपि सम्भवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तत्सिद्धेः, प्रत्यक्षतोऽनुप- 15 लम्भस्तु परचेतोवृत्तीनां दुरन्वयत्वात्, सरागाणां वीतरागवद्वीतरागाणामपि सरागवश्चेष्टमानत्वात् । सम्भवानुमानं तु ज्ञेयावगमं प्रति प्रज्ञाया व्याकरणादिशास्त्राभ्यासेन संस्क्रियमाणाया अतिशयो दृष्टः, सोऽयमतिशयस्तारतम्येनोपलभ्यमानः क्वचिद्विश्रान्तो वाच्यो महत्परिमाणतारतम्यस्य गगनादाविव, एवञ्च कश्चित्तथाभूताभ्यासवशात्प्रज्ञायाः प्रकृष्टतारतम्यवानपि स्यात् स च सर्वज्ञ एवेति, नास्ति 'च सर्वज्ञाभावसाधकं किचित् प्रमाणम्, न हि प्रत्यक्षतस्तत्सिद्धिः, अर्वाग्दर्शिनां तज्ज्ञानज्ञेयविज्ञान - 20 शून्यत्वात्, अशून्यत्वे च सर्वज्ञत्वापत्तेः । नाप्यनुमानेन, तदव्यभिचारिहेत्वभावात्, न चोपमानेन, तादृग्विधसादृश्याभावात् । न वाऽर्थापत्त्या, तस्याः प्रत्यक्षादिपूर्वकप्रवृत्तिमत्तया तदभावेऽप्रवृत्तेः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् । नापि प्रमाणपञ्चकाभावरूपाभावप्रमाणेन, सर्वत्र सर्वदा तद्ब्राहकप्रमाणं न सम्भवतीत्यवग्दर्शिनो निश्चयासम्भवात्, सम्भवे वा तस्यैव सर्वज्ञत्वापत्तेः, न वाऽर्वाग्दर्शिनां ज्ञानं निवर्त्तमानं तदभावसाधनक्षमम्, तस्याव्यापकत्वात्, व्यापकव्यावृत्त्यैवं 25 पदार्थव्यावृत्तेः । ज्ञानं ज्ञेयस्य स्वरूपं न परिच्छिनत्तीत्यभिधानमपि न सम्यक्, सर्वज्ञज्ञानेन देशकाऴस्वभावव्यवहितानामपि ग्रहणात्, व्यवधानासम्भवात्, अर्वाग्दर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्त्या व्यवधानाभावात्, न ह्यवयवी स्वावयवैर्व्यवधीयते । अज्ञानमेव श्रेय इत्यपि न युक्तम्, तस्य पर्युदासरूपत्वे ज्ञानान्तररूपतया नाज्ञानवादसिद्धिः । प्रसज्यरूपत्वे ज्ञानाभावस्य नीरूपतया तुच्छत्वात्सर्वसामर्थ्यविकलतया श्रेयस्त्वासम्भवात् तस्मान्नैते धर्मोपदेशनिपुणाः सदा मृषावादिनोऽपा - 30 रसंसारसमुद्रपर्यटनशीला इति ॥ ४१ ॥
I
6
सू० मु० १६
"