________________
१२०
सूत्रार्थमुक्तावल्याम्
[इतीया समितः परीषहैरक्षुब्धः संयम चरेत् । कूपखननसत्रदानादिप्रवृत्तिः पुण्यमपुण्यं वेति राजादिभिः पृष्टो मत्वोभयथापि महाभयं नानुमन्येत, अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिक्रियया कूपखननादिकया चोपकल्पयेत् , तत्र नसाः स्थावराश्च व्यापाद्यन्तेऽतो भवदनुष्ठाने पुण्यमिति नो वदेत् , अन्नपानादिकं धर्मबुद्ध्या प्राण्युपमर्ददोषदुष्टं निष्पादयन्यतो नास्ति पुण्यमित्यपि न ब्रूयात् , तन्निषेधे हि 5 आहारपानार्थिनामन्तरायो भवेत् , तदभावेन तु ते पीडयेरन्, किन्तु मौनं समाश्रयणीयम् , निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षुणामधिकार एव नास्तीति ब्रूयात् , अनवद्यभाषिणां निर्वाणप्राप्तेः । इयमेव च सर्व विरत्याख्यो मोक्षगमनैकहेतुरकारणवत्सलेन परहितैकरतेन भगवता तीर्थकरेण परतीर्थिकैरनाख्यातपूर्वः प्रवेदितः, तमिमं शुद्धं परिपूर्ण धर्ममजानाना अविवेकिनो धर्मज्ञंमन्याः परतीर्थिकाः सम्यग्दर्शनादूरे वर्तन्ते, जीवाजीवपरिज्ञानाभावेन शीतो10 दकौदेशिकाद्याहाराभ्यवहरणात् , संघभक्तादिक्रियया सातर्द्धिरसगौरवावाप्त्यर्थमार्तध्यानवत्त्वाच्च, न
दैहिकसुखैषिणां दासदासीधनधान्यादिपरिग्रहवतां धर्मध्यानं भवति, ते च महाभयं संसारं परिभ्रमन्ति, तस्मादकषायी साधुः प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितमूलोत्तरगुणसम्पूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं
च वर्द्धयेत् , ततश्च प्रशस्तभावमार्गो भवं ध्रुवं समुत्तरति ॥ ३९ ॥ 15 अथ प्रतिपन्नभावमार्गेण साधुना कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्त्तव्या इति तत्स्वरूपमाचष्टेसमवसरणानि चत्वारि, क्रियाऽक्रियावैनयिकाज्ञानवादिभेदात् ॥ ४०॥
समवसरणानीति, जीवादयस्सन्येवेति वादिनः क्रियावादिनः, तदभाववादिनोऽक्रियावादिनः, ज्ञाननिह्नववादिनोऽज्ञानवादिनः, विनयादेव केवलादिष्टावाप्तिरिति वादिनो वैनयिकवादिनः, 20 एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तत्समवसरणं भावसमवसरणमिति भावार्थः । एते क्रियादिवादिनो मिथ्यादृष्टय एव, एकान्तेन जीवास्तित्वे पररूपेण सत्त्वापत्तरेकविधत्वप्रसङ्गाजगतः, एकान्तेन जीवप्रतिषेधे प्रतिषेधकर्तुरभावेन प्रतिषेधासिद्ध्या सर्वास्तिताया दुर्वारत्वात्, ज्ञानव्यतिरेकेणाज्ञानमेव श्रेय इत्यप्यभिधानासम्भवात्तदभिधाने ज्ञानस्यावश्यकतया स्वाभ्युपगमविरोधात् , ज्ञानक्रियाव्यतिरेकेण मोक्षासम्भवाद्विनयमात्रस्याकिञ्चित्करत्वाच्चासद्भूतार्थप्रतिपादनात् , 25 तत्र क्रियावादिना भेदा अशीत्यधिक शतम् , अक्रियावादिनां चतुरशीतिः, सप्तषष्टिरज्ञानवादिनाम् , वैज्ञानिकानां द्वात्रिंशदिति सर्वमेलनेन त्रिषष्ट्यधिकत्रीणि शतानि मतानि भवन्ति ॥ ४० ॥
अज्ञानवादिमतमनूद्य निराचष्टे
ज्ञाने परस्परविरोध इति चेन्न सर्ववेत्तुस्तदभावात् ॥ ४१॥
ज्ञान इति, अज्ञानवादिनो हि वदन्ति, ज्ञानिनः सर्वे परस्परविरुद्धवादित्वेन न यथार्थवा30 दिनः, तथा हि केचिदात्मानं विभुमपरेऽसर्वगतमन्येऽङ्गुष्ठपर्वमात्रमितरे च श्यामाकतन्दुलमात्रमाहुः तथा मूर्चममूर्त हृदयस्थं ललाटस्थमात्मानमूचुरित्येवं नैकवाक्यता दृश्यते, न वाऽतिशयज्ञानी कश्चि