SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११९ मुका सूत्रकृतलक्षणा । रथ्यमप्यवलम्बते रससातगौरवगृद्धों वा पूजासत्काराभिलाषी स्यात्तदभावे दीनः पार्श्वस्थादिभावेन विषण्णो भवति, श्लाघाभिमानी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते, अपरश्चाधाकर्माद्याहारोपकरणाभिलाषी संयमोद्योगे विषण्णानां पार्श्वस्थावसन्नकुशीलानां विषण्णभावमेषते, तदेवं संयमस्खलिता अल्पसत्त्वाः संसारपर्यङ्कावसन्ना असमाहिता विषमं नरकादियातनास्थानमुपयन्ति, तस्माद्विवेकी विदितमर्यादोऽखिलसमाधिगुणवेत्ता धर्ममालोच्य सबाह्याभ्यन्तरसङ्गविप्रमुक्तो मुक्तिगमनैक- 5 हेतु संयमानुष्ठानमनुतिष्ठेत्, औदारिकं शरीरं पार्श्वस्थादिसङ्गविप्रमुक्तो विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणः कृशयेत्, एकत्वभावनाभावितमनाः शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणः संयमेऽरतिमसंयमे च रतिमभिभूय भावसमाधिं प्राप्तः शीतोष्णादिपरीषहानक्षोभ्यतया निर्जरार्थमधिसहेत, वाग्गुप्तश्च शुद्धश्यामुपादायाशुद्धां परिहृत्य संयमानुष्ठाने व्रजेत् य एवं स समाहितोऽनिदानो भावभिक्षुर्भवतीति ॥ ३८ ॥ समाधिवद्भावमार्गोऽपीति मार्गमभिधत्ते— 10 प्रशस्तभावमार्गो भवसमुत्तारकः ॥ ३९ ॥ प्रशस्तभावमार्ग इति, भावमार्गो हि द्विविधः, प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो मिथ्यात्वाविरत्यज्ञानानि दुर्गतिफलानि, प्रशस्तश्च सम्यग्दर्शनज्ञानचारित्ररूपः सुगतिफलप्रदः, दुर्गतिफलमार्गवादिनां त्रीणि त्रिषष्ट्यधिकानि शतानि मार्गा भवन्ति, मिध्यात्वोपहतदृष्टिभिर्विपरीततया जीवादि - 15 पदार्थनिरूपणात्, सम्यग्दर्शनं ज्ञानं चारित्रश्चेति त्रिविधोऽपि भावमार्गः प्रशस्तफलः, तीर्थकरगणधरादिभिर्यथावस्थितवस्तुनिरूपणेन समाचीर्णत्वात्, ये केचनस्वयूथ्याः पार्श्वस्थादयोऽपुष्टधर्माणश्शीतलविहारिण ऋद्धिरससातगौरवेण गुरुकर्माण आधाकर्माद्युपभोगात् षड्जीवनिकायव्यापादनरता अपरेभ्यो मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेचाधर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्तः कुतीर्थिक मार्गाश्रिता एव । तत्र प्रशस्तभावमार्गो 20 मोक्षगमनं प्रति प्रगुणो यथावस्थितपदार्थस्वरूपनिरूपणात् सामान्यविशेषनित्यानित्यादिस्याद्वादाश्रयणास्, तं ज्ञानदर्शनतपश्चारित्रात्मकं मार्गमवाप्य जीवः समग्रसामग्रीकः संसारसमुद्रं दुस्तरं तरति, अतः स मार्गो भवसमुत्तारकः, स च मार्गे जिनोक्त एवाशेषैकान्त कौटिल्यरहितो निर्मलः पूर्वापरव्याहतिदोषापगमात्, सावद्यानुष्ठानोपदेशाभावाच्च तं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मि - ननादिकालेऽनन्तास्सषा भवं तीर्णवन्तः, साम्प्रतमपि संख्येयास्तरन्ति, अपर्यवसानात्मकेऽनागते काले 25 चानन्तास्तरिष्यन्ति । तत्र सूक्ष्मबादरपर्याप्तापर्याप्तभेदान् पृथिवीकायिकाद्येकेन्द्रियान् पर्याप्तापर्याप्तभेदान् द्वित्रिचतुरिन्द्रियान् संज्ञ्यसंज्ञिपर्याप्तकापर्याप्तकभेदान् पञ्चेन्द्रियांश्च सद्युक्तिभिरवगम्यानिष्टदुःखान् सुखैषिणो न हिंस्यात्, एतदेव सारतरं ज्ञानं यत्प्राणातिपात निवर्त्तनम् एतावतैव परिज्ञानेन मुमुक्षोर्विषक्षितकार्यपरिसमाप्तेः, असावेव परमार्थतो ज्ञाता यः प्राणातिपातनिवृत्तिं सम्यक् क्रियते, एवम्भूताद्विरतिमो नाम्ये केचन विभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विभेति, प्राणातिपातनिवृत्तेः परेषा - 30 शान्तिहेतुत्वात्, अत एवासावार्त्तरौद्रध्यानाभावाच्छान्तो निवृतश्च भवति, तस्मान्मनसा arer कायेन वा जीवं केनापि प्राणिना साकं विरोधं न कुर्यात्, आहारोपधिशय्यादिके एषणा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy