SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११८ सूत्रार्थमुक्कावायाम् [हतीया कर्मोपादानवया संसारकारणत्वेन परिनायौदेशिकाद्याहारमनेषणीयं विदित्वा निःस्पृहा शब्दादिविषय. गायरहितो जीवोपघातकारिशीतोदकादिपरिभोगरहितः परित्यक्तासंयमानुष्ठानोपदेशप्रशंसोऽर्थशास्त्रद्यूतक्रीडाशुष्कवादाद्यनासेवी छत्रोपानहव्यजनादिविधुर उच्चारप्रस्रवणादिक्रियां हरितबीजस्थण्डिलेषु परिहरन् पुरः पश्चात्कर्मभयाद्धृतनष्टादिदोषसम्भवाच्च परपात्रभोजनादि परिवर्जयन् यशःकीर्यनभि5 लाषुको द्रव्यक्षेत्रकालभावापेक्षया शुद्धमन्नपानादि परिगृहन् संयममनुतिष्ठेत् , सदा धर्मकथासम्बन्ध भाषमाणः स्यात्, न मर्मगं वचो ब्रुवीत, भिक्षार्थ गृहादौ प्रविष्टो नोपविशेदुत्सर्गतः, जरसा रोगातङ्काभ्यां वा शक्त्यभावे उपविशेत् , अतिवेलं न हसेत् , न वाऽऽहारादिषु मनोज्ञशब्दादौ च गायमुपेयात्, परीषहोपसर्गेर्नादीनमनस्को भवेत् , एवं कुर्वतो भावविवेक आविर्भावितो भवति, सुतपस्विनं गीतार्थं गुरुं सदा सेवेत, इत्थं संयमं प्रतिपालयन् कर्मक्षयमभिकाङ्केत ॥ ३७॥ 10 धर्मस्य समाधिं विनाऽपूर्णत्वात्समाधिमाह समाहितोऽनिदानो भावभिक्षुः ॥ ३८॥ समाहित इति, दर्शनज्ञानतपश्चारित्ररूपेषु भावसमाधिषु व्यवस्थितः समाहितः, यः सम्यक् चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो वा भावसमाधिसमाहितात्मा भवति स सम्यक्चरणे व्यवस्थितो भवति, दर्शनसमाधौ हि व्यवस्थितो जिनवचनभावितान्तःकरणो 15 निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽ तीव भावसमाधावुद्युक्तो भवति, चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि पर समाधिमवाप्नोति, तपःसमाधिनामपि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते तथाऽभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति, यद्वा धर्मसमाधि प्राप्तः समाहितो भावसाधुः, 20 तपोऽनुष्ठानं कुर्वत ऐहिकामुष्मिकाकासाभावात् , अनिदान:-भूतसमारम्भो निदानं तन्न विद्यते यस्यासावनिदानः सावद्यानुष्ठानरहितः, कर्मणो हि प्राणातिपातादीनि निदानानि, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, सान् स्थावरान्वा ऊर्ध्वाधस्तिर्यग्रूपेषु त्रिषु लोकेषु प्राच्यादि दिक्षु विदिक्षु द्वेषाच दिवा रात्रौ वा प्राणिनो हस्तपादाभ्यां बध्वाऽन्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं तन्न कुर्यात् , सर्वत्र मनोवाक्कायकर्मसु संयतो भवन भावसमाधिमनुपालयेत् , ज्ञानसमाधियुक्तः स्वाख्यात28 धर्मा भवेत् , चित्तविप्लुतिं विहाय तदेव च निःशङ्कं यज्जिनैः प्रवेदितमित्येवं निःशङ्कतया विद्वज्जुगुप्सां न कुर्यात् , येन केनचित्प्रासुकाहारोपकरणादिना गतो विधिनाऽऽत्मानं संयमे स्थापयेत् , आत्मवत्सर्वप्राणिनः पश्येत् , एवम्भूत एव भावसाधुर्भवति, यथा च ममाऽऽक्रुश्वमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते तथाऽन्येषामपीति मत्वा प्रजास्वात्मसमो भवति तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी सन् कर्माश्रवलक्षणमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेर्वा 30 परिग्रहलक्षणं सञ्चयश्च विकृष्टतपोनिष्टप्तदेहो भिक्षुन कुर्यात् , प्राणिगणश्च समतया प्रेक्षमाणस्य न कश्चित्रियो नापि द्वेष्यो भवति, तथा च निःसङ्गः सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनतामवाप्य विषण्णो भवति, विषयार्थी वा कश्चिदाई
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy