SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मुक्ता] सूत्रकृतलक्षणा। ११७ पत्तिकाले सादित्वात् , सिद्धाद्यवस्थायां तदभावात्सान्तत्वात् , बालपण्डितवीर्यन्तु देशविरतिसद्भावकाले सादि, सर्वविरतिसद्भावे तळ्शे वा सपर्यवसानम् , बालवीर्यन्त्वविरतिलक्षणमभव्यानामनाद्यपर्यवसितम्, भव्यानान्त्वनादिसपर्यवसितं सादिसपर्यवसितश्चात्र विरतिभ्रंशात्सादिता, पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्धपुद्गलपरावर्ताद्विरतिसद्भावात्सान्तता, साद्यपर्यवसितस्य चतुर्थभङ्गस्याभाव एव । बालेति, द्विविधं वीर्य बालपण्डितभेदात् , क्रियानुष्ठानं वीर्यमित्येके, कारणे कार्योपचारादष्टप्रकारं कर्म वीर्यमि-5 त्यन्ये, औदयिकभावनिष्पन्नं कर्म, औदयिकोऽपि च भावः कर्मोदयनिष्पन्नो बालवीर्यम् , जीवस्य वीर्यान्तरायक्षयजनितं सहजं वीर्य चारित्रमोहनीयोपशमक्षयोपशमजनितश्च पण्डितवीर्यम् , आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यां वीर्य व्यवस्थितमिति सूत्रार्थः, एताभ्यामेव वीर्याभ्यां मर्यो नानाविधक्रियासु प्रवर्त्तमानो वीर्यवानय मिति व्यपदिश्यते, तदावरणकर्मक्षयाच्चानन्तबलयुक्तोऽयमिति व्यपदिश्यते । प्रमादोपहतस्य कर्म बध्यते सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्यम् , 10 अप्रमत्तस्य कर्माभावो भवति, एवम्विधस्य च पण्डितवीर्यं भवति, अभव्यानां बालवीर्यमनाद्यपर्यवसितं भव्यानामनादिसपर्यवसितं सादिसपर्यवसितं वा, पण्डितवीर्यन्तु सादिसपर्यवसितमेव । तत्र खड्गादिप्रहरणलक्षणशस्त्रस्य धनुर्वेदायुर्वेदादिशास्त्रादेरभ्यसनं बालवीर्यं पापोपादानात्, सातगौरवगृद्धा हि तच्छिक्षन्ते शिक्षितं सत् प्राणिनां विनाशाय भवति, तत्र जीवव्यापादनायाऽऽलीढप्रत्यालीढादिस्थानविधानात् , क्षयिणे लावकरसस्याभयारिष्टाख्यस्य मद्यविशेषस्य च दातव्यतयोक्तेः, चौरादेः शूला-15 रोपणादिदण्डविधानात् पशुहिंसनयागादिविधानाच्च, तदेवं तदभ्यसनात्तत्तत्कर्म मनसा वाचा कायेन कृतकारितानुमतिभिश्च कुर्वन्तो जन्मशतानुबन्धिवैरानुषङ्गिणोऽनन्तसंसारभाजो भवन्ति, भव्यस्तु अल्पकषायस्सम्यग्दर्शनज्ञानचारित्रात्मकं श्रुतचारित्रात्मकं वा धर्म तीर्थकरोपदिष्टं गृहीत्वा मोक्षाय ध्यानाध्ययनादावुद्यमं विधत्ते, यदेतस्य वीर्य तत्पण्डितवीर्यम् , बालवीर्यमतीतानागतानन्तभवग्रहणेषु दुःखमावासयति, यथा यथा च स नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यव- 20 सायित्वादशुभमेव प्रवर्धत इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्यैतद्वीर्यवतो धर्मध्यानं प्रवर्तत इत्येवं धर्मभावनादिभिर्भावितो विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा धर्मसारं विज्ञायान्येभ्यो वा श्रुत्वा चारित्रं प्रतिपद्यते तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थमुत्तरोत्तरगुणसम्पत्तये समुपस्थितो वर्धमानपरिणामोऽनगारो निराकृतसावद्यानुष्ठानोऽकर्मा भवति, तस्माद्वालपण्डितवीर्या जीवाः संसारमोक्षभाज इति ॥ ३६॥ अथ धर्ममभिधत्ते- - त्यक्ताव्रतकषायादिरप्रमत्तचर्यः ॥ ३७॥ -त्यक्तेति, संसारस्वभावपरिज्ञानपरिकर्मितमतिर्धर्मरहितानां निजकृतकर्मविलुप्यमानानमैहिकामुष्मिकयोर्न कश्चित्राणायेति विचार्य जिनोक्त एव परमो धर्मोऽनन्तसुखनिदानमिति प्रत्युपेक्ष्य द्रव्यजातं पुत्रान् स्वजनांश्च विहाय प्रव्रजितः त्रसस्थावरैर्नारम्भी नापि परिमही मृषावादादीनां 30 ज्ञानपूर्वकं परिहत्त" कषायसद्भावे महाव्रतधारणस्य निष्फलत्वेन क्रोधादीनपि जात्यादिमदप्रयुक्तान दुर्गतिसुलभान विज्ञाय परिहरन् संयमोपघातकं शरीरसंस्कारं गन्धमाल्यस्नानदन्तप्रक्षालनादिरूपं
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy