________________
सूत्रार्थमुकावल्याम् स्थापयितुमलम् । तदेवं श्रुतचारित्राख्यं सयुक्तिकमहद्भाषितं सर्वधर्मप्रधान धर्म श्रद्दधाना अनुतिष्ठन्ते लोका व्यपगतायुःकर्माणः सन्तः सिद्धिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ ३२ ॥
___ अथ ये परतीर्थिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थास्ते कुशीलाः, तान् तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूपयितुमाह
कायायतदण्डास्तेष्वेव ॥ ३३ ॥ कायेति, कायाः पृथिव्यादिजीवनिकायाः नसाः स्थावराश्च, सर्वेऽप्येते सुखैषिणो दुःखद्विषश्च, एभिः कायैः पीड्यमानैरात्मा दण्ड्यते, एवञ्चैतान कायान् ये दीर्घकालं दण्डयन्ति ते तेष्वेव पृथिव्यादिकायेषु भूयो भूयः समुत्पद्यन्ते, सुखार्थिभिर्यदि कायसमारम्भः क्रियते तदा दुःखमेवाप्यते न सुखम, मोक्षार्थं कुतीर्थिकैरेतैः कायैाँ क्रियां कुर्वन्ति तया संसार एव भवति, सोऽयमायतदण्डः 10 एकेन्द्रियादिषु समुत्पन्नः सन् बहुक्रूरकर्मा यस्यामेकेन्द्रियादिजातौ यत्प्राण्युपमर्दकारि कर्म कुरुते, स तेनैव कर्मणा परिच्छिद्यते, किश्चित् कर्मास्मिन्नेव जन्मनि विपाकं ददाति, किञ्चित् परस्मिन्नरकादौ किञ्चिदेकस्मिन्नेव जन्मनि तीव्र विपाकं ददाति, किश्चिच्च बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते । तदेवं कुशीलाश्चतुर्गतिकं संसारमापन्ना अरहट्टघटीयंत्रन्यायेन संसारं पर्यटन्तः प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्त आर्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति च, 15 न च स्वकृतस्य कर्मणो विनाशोऽस्ति, ये चानवगतपरमार्था धर्मार्थमुत्थितास्यक्तमातापित्रादयोऽप्यात्मानं श्रामण्यव्रते वर्तमानतया मन्यमानाः पचनपाचनादिना कृतकारितानुमत्यौदिशिकादिपरिभोगाचानिकायसमारम्भं कुर्वन्ति, पश्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिना च स्वर्गावाप्तिमिच्छन्ति, लौकिका अपि पचनपाचनादिनाऽग्निकार्य समारभमाणाः सुखमभिलषन्ति, तेऽग्निकायमपरांश्च पृथिव्याद्याश्रितान स्थावरान् वसांश्च प्राणिनो निपातयन्त्येव, उदकादिना ह्यग्निकार्य विध्यापयन्तस्तदाश्रिता20 नन्यप्राणिनो निपातयेयुः, तथा शलभादयः करीषकाष्ठाविस्खा घुणपिपीलिकाकृम्यादयो भस्मीभवन्त्येव, ततोऽग्निकायसमारम्भो महादोषाय, केचित् वनस्पतिसमारम्भादनिवृत्ता वनस्पत्यादीनाहारार्थ देहोपचयाथ देहक्षतसंरोहणार्थ वाऽऽत्मसुखमाश्रित्य छिन्दन्ति ते बहूनां प्राणिनामतिपातिनो भवन्ति, न हि वनस्पती मूलादिषु सर्वेष्वपि समुदितेष्वेक एव जीवः, किन्तु मूलस्कन्धशाखापत्रपुष्पादिषु प्रत्येकं जीवा व्यवस्थिताः, तच्छेदे च संख्येयासंख्येयानन्तभेदभिन्नानां तदाश्रितानां जीवानामतिपातोऽवश्यंभाव्येव, 25 तथा च वनस्पतिकायोपमर्दका बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु नियन्ते, तथा व्यक्तवाचोऽव्यक्तवाचश्च परे च पश्चशिखाः कुमाराः सन्तो नियन्ते केचिद्युवानः, अपरे च स्थविरास्सन्तः, तदेवमनार्यकर्मकारी सुखार्थी कुशीलः प्राण्युपमई कुर्वन् स्वकर्मणा दुःखमेव प्राप्नोति न सुखं नापि मुक्तिम् ॥ ३३ ॥ - अक्षारसानादिना मुक्तिरिति मतविशेषान्निराकरोति9अक्षारस्नानादितो न मुक्तिर्व्यभिचारागावस्यैव हेतुत्वाच ॥ ३४॥
- अक्षारेति, केचिदन्ति लक्माहारस्य रसपुष्टिः क्रियते तद्वर्जनेन च मोक्षः, तच लवर्ण