SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सूचवलक्षणा। सैन्धवसौवर्चलबिडरौमसामुद्रभेदेन पश्चविधम् , तद्वर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच मोक्षावाप्तिरिति । अन्ये च सचित्ताप्कायपरिभोगेन मोक्षं वदन्ति तथा युदकं मलशोधकं दृष्टम् , यथा वस्त्रादेः, तथा चान्तरशुद्धिरप्युदकादेव, अन्ये हुतेन मोक्षं प्रतिपादयन्ति, ये स्वर्गादिफलानपेक्षया समिधा घृतादिभिर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वति शेषास्त्वभ्युदयाय, अग्निर्हि सुवर्णादीनां मलं दहति तथाऽऽन्तरमपि पापमिति । मतानीमानि निराचष्टे, व्यभिचारादिति, पञ्चविधक्षारापरिभोगेन न मोक्षप्राप्तिः, लवणमेव रसपुष्टिजनकमित्यसिद्धेः, रसपुष्टिजनकैः क्षीरशर्करादिभि यभिचारात्, किञ्च किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः, उत भावतः, नाद्यः, लवणरहितदेशे सर्वेषां मोक्षप्राप्तिप्रसङ्गात् , न द्वितीयः, भावस्यैव मोक्षप्राप्तौ प्रधानत्वाल्लवणवर्जनवैयापातात् , एवं प्रत्यूषजलावगाहनेन न मोक्षः, उदकपरिभोगेन तदाश्रितप्राण्युपमर्दनात , न हि जीवोपमर्दान्मोक्षः, न वैकान्ततो जलं बाह्यमलस्याप्यपनयने समर्थम् , आन्तरन्तु न शोधयत्येव, भावशुद्ध्या तच्छुद्धः, 10 भावरहितस्यापि यदि तच्छुद्धिः स्यात्तदा मत्स्यादीनामपि मुक्त्यवाप्तिः स्यात्, किच जलं यथाऽनिष्टं मलमपनयति तथेष्टमपि कुंकुमादिकमङ्गरागम् , एवञ्च पापस्येव पुण्यस्यापीष्टस्यापनयनादिष्टविघातकद्भवेत् , तथा नाग्निहुतादपीष्टसिद्धिः प्राण्युपमर्दनात्, यद्यग्निपर्शन सिद्धिः स्यात्तङ्गारदाहककुम्भकारायस्कारादीनामग्निं संस्पृशतामपि सिद्धिः स्यात् , एवञ्चैते परमार्थावेदिनः प्राण्युपघातेन पापमेव धर्मबुद्ध्या कुर्वन्तो नानाप्रकारैः प्राणिनो व्यापादयन्ति नरकादिगतिश्च गतास्तीबदुःखैः पीड्यमाना 15 असावेदनयाऽशरणाः करुणमाक्रन्दन्ति ॥ ३४॥ अथ तत्प्रतिपक्षभूतान सुशीलान प्ररूपयति विरतोऽलुब्धोऽनाकुलः सुशीलः ॥ ३५॥ विरत इति, एकेन्द्रियादिजीवसमारम्भेऽवश्यं कर्मबन्धो भवतीति सम्यक् परिज्ञाय यस्तद्विरतः प्रासुकोदकादिकेन यावज्जीवं प्राणान् धारयति बीजकन्दादीनभुञ्जानः स्नानाभ्यङ्गोद्वर्तनादिक्रियासु 20 निष्पतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्त्तते ख्यादिविरतः, अलुब्धः-आन्तप्रान्तेन लब्धेनालब्धेन वाऽऽहारेण मददीनतारहितस्तपःफलपूजासत्कारानभिलाष्यनुकूलप्रतिकूलरसशब्दादावासक्तिविद्वेषविधुरः, अनाकुल:-विषयकषायैरनाविलः, परीषहोपसर्गर्हन्यमानोऽप्यप्रकम्पमना ज्ञानदर्शनचारित्रैः परिपूर्णः स एव सुशीलः, स एव चाष्टप्रकारं कर्मापनीय जातिजरामरणरोगशोकादिपूर्ण संसारं नापैति ॥ ३५ ॥.. 25 कुशीलत्वसुशीलत्वयोः संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भावाद्वीय निरूपयति बालपण्डितवीर्या जीवास्संसारमोक्षभाजः॥ ३६॥ बालेति, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा वीर्यस्य निक्षेपः, नामस्थापने तु प्रसिद्धे। ज्ञाताऽनुपयुक्त आगमतो द्रव्यवीर्यम् , नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, सचिचद्रव्यवीर्य त्रिविधं द्विपदचतुष्पदापदभेदात्, अईचक्रवर्तिबलदेवादीनां वीर्य 30 द्विपदद्रव्यवीर्यम्, अश्वहस्तिरनादीनां वीर्य चतुष्पद्व्यवीर्यम्, गोशीर्षचन्दनप्रभृतीनां शीतोष्ण
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy