________________
सूत्रार्थ मुक्तावल्याम्
[तृतीया लाबुकान्यानय, धर्मकथादिफलानि वस्त्रादिलाभरूपाण्याहर, पतगृहाणि लेपय येन सुखेनैव भिक्षाटनं भवेत्, अलक्तकादिना पादौ रञ्जयेत्येवंरूपेषु कर्मसु, गृहस्थोपकरणान्यधिकृत्य च कज्जलाधारभूतां नीलिका कटककेयूरादिमलङ्कारं प्रयच्छ येनाहं सर्वालङ्कारभूषिता वीणादिविनोदेन भवन्तं विनोदयामि, मुखाभ्यङ्गार्थ संस्कृतं सुगन्धितैलमाहर, आतपवृष्टिभ्यां संरक्षणाय छत्रमुपानहञ्च मामनुजानीहि, केश5: संयमनाथ कङ्कतकं दन्तप्रक्षालनार्थ दन्तकाष्ठं मदन्तिकं प्रवेशय, रात्रौ भयावहिर्गमनमसमर्था कर्तु
मतो मम यथा रात्रौ बहिर्गमनं न भवति तथा कुरु, मत्पुत्राय क्रीडाभाजनान्युपानय, तं क्रीडय, प्रावृट्समयनिवासार्हमालयं तण्डुलादिभक्तञ्च निष्पादय येन सुखेनैव सोऽतिवाह्येतेत्येवं कर्मसु च तन्निर्देशवर्ती महामोहोदये वर्तमानोऽपहस्तितैहिकामुष्मिकापाय उष्ट्र इव परवशगो भवति, तस्माद्विषोपलिप्तकण्टकादपि महदनर्थकारिणी स्त्रियमवेत्य स्नुषादुहित्सुताधाच्यादिकमप्यविचिन्त्य योषिन्मात्रेण 10 सह विवेकिना सम्पर्को न कर्त्तव्यः, विविक्ते दुहित्रादिना सार्धं हि साधं दृष्ट्वा योषिज्जातीनामन्येषां
वैवं शङ्का भवेत्, प्राणिमात्र हीच्छामदनकामैग़द्धं, यत एवम्भूतोऽपि श्रमणः स्त्रीवदनालोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया साध निींकस्तिष्ठतीति । यतोऽनर्थाय स्त्रीसम्बन्धस्तस्मादात्महितकामेन स्त्रीवसतयः परित्याज्या इति ॥ ३० ॥ . . अथ स्त्रीवशगोऽवश्यं नरकं यातीति नरकवेदनाः प्राह
नरकेषु तीव्रतरदुःखभाजो रौद्राः ॥ ३१॥ नरकेष्विति, नारका देवादिनाप्युपशमयितुमशक्यं शीतोष्णरूपपृथिव्यास्तीव्रवेदनोत्पादक स्पर्श समनुभवन्ति, तथैकान्तेनाशुभान रूपरसगन्धशब्दानपि, तत्राद्यासु रत्नशर्करावालकाख्यासु तिसृषु पृथिवीषु पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्रासिकुन्तक्रकचकुम्भीपाकादिकं प्रभूतकालं
यावदशरणा नारका वधमनुभवन्ति, पङ्कधूमतमोमहातमःप्रभाख्यासु चतसृषु पृथिवीषु परमधार्मिका20 भावेऽपि स्वत एव तत्कृतवेदनायास्तीव्रतरं वेदनासमुद्धातमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्ति, तत्र ये महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ता असंयमजीवितार्थिनः प्राणिनामसदनुष्ठानयोत्पादकत्वेन रौद्राः-भयानकास्ते तीव्रपापोदयवर्तिनोऽत्यन्तभयानके बहुलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा, केवलमवधिनापि मन्दमन्दमुलूकेनेवाह्नि दृश्यते तथाविधे
दुःसहखदिराङ्गारराश्यनन्तगुणतापसन्तप्ते बहुवेदने नरके पतन्ति नानारूपा वेदनाः समनुभवन्ति च । 25 तत्र तिर्यङ्मनुष्यभवात्सत्त्वा उत्पन्ना अन्तर्मुहूर्तेन नि नाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्ति
भावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकननितान् शृण्वन्ति हत मुद्गरादिना, छिन्त खड्गादिना, भिन्त शूलादिना, दहत मुर्मुरादिनेत्येवंविधान् । निशम्य च ते भयोद्धान्तलोचना भीत्या नष्टचेतनाः क गतानामस्माकमेवंविधमहाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्याशङ्कमाना इतस्ततो धावन्तः ज्वाला
कुलं भूमिमाक्रमन्तो दन्दह्यमाना आक्रन्दन्ति, एवं तेषां तत्र स्थितिरुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि 30 अघन्यतो दशवर्षसहस्राणि । तदेवं तप्ता नारकास्तापापनोदनायोदकपिपासयाऽभिषिषिक्षया वा तां । भूमि विलाय क्षारोष्णरुधिराकारजलवाहिनीं शरीरावयवकर्तकतीक्ष्णस्रोतस्विनीं दुःखदां वैतरणी नदी
प्राप्तास्तत्रापि शरप्रतोदेनेव प्रेरिताः शक्तिभिश्च हन्यमानास्तरन्ति, दुर्गन्धेनात्यन्तक्षारोष्णेन वैतरणी