SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सूत्रानुकापल्या [तृतीया समुत्पद्यते येनाऽनुष्ठितेन भाषितेन वाऽन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो विरोधं न यायात् । तस्माद्भिक्षुः सर्वज्ञप्रणीतं धर्ममवेत्य यथा स्वस्य समाधिानस्य चोत्पद्यते तथा पिण्डदानादिकं कुर्यात् , न वोपसगैंरुपसर्गितोऽसमञ्जसं विध्यादिति ॥ २६ ॥ अथ स्खलितशीलस्य साधोः प्रज्ञापनामाह दुःश्रवणोपसर्गेऽज्ञाः संयमे विषीदन्ति ॥ २७ ॥ दुःश्रवणेति, केचित् पश्चान्यादितपसा सन्तप्तशरीराः सिद्धिं शीतोदकन्दमूलाद्युपभोगिनोऽपि प्रापुः, यथा बाहुकनारायणासितदेवलपाराशरादयः केचिचाशनादिकमभुक्त्वा यथा नम्यादयः, केचिदाहारादिकं भुक्त्वैव यथा रामगुप्तादय इत्येवं केनचिदुक्तं निशम्याज्ञाः सिद्धिं नानाविधोपाय साध्यमिति निश्चित्य संयमानुष्ठाने विषीदन्ति यदि वा तत्रैव शीतोदकादिपरिभोगे लगन्ति, किन्त्वे10 तनावधारयन्ति येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्ताज्जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यरज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न तु कदाचिदपि सर्वविरतिपरिणामभावलिङ्ग विना शीतोदकायुपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यत इति ॥ २७ ॥ मतान्तरं निरस्यति कारणसमत्वात्कार्यस्य सुखान्मुक्तिरित्येके, न विरूपादपि कार्यदर्शनाद्वैषयिकस्यासुखत्वाच ॥ २८॥ कारणेति, केचित् शाक्यादयः स्वयूथ्या वैवं ब्रुवते, सुखेनैव सुखं भवति न तु लोचादि. शेन कार्यस्य कारणसादृश्यात् , शालिबीजाद्धि शाल्यकुरोत्पत्तिर्न यवाङ्घरोत्पत्तिः, तस्मान्मनोझाहारविहारादेश्चित्तस्वास्थ्यं ततस्समाधिस्तस्माञ्च मुक्त्यवाप्तिरतः सुखेनैव सुखावाप्तिन कदापि लोचादिकाय शादिनेति, एते च सदा संसारान्तर्वर्तिनोऽज्ञाः, ज्ञानदर्शनचारित्रात्मकस्य जैनेन्द्रशासनप्रतिपादितमा20 गैस्य परिहरणात् । कारणसमत्वात्कार्यस्येति नियमं दूषयति विरूपादपि कार्यदर्शनादिति, शृङ्गाद्धि शरो जायते गोमयावृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति विसदृशादपि कारणात्कार्यस्योत्पत्तिदर्शनेन न कारणसादृश्यनियमः कार्यस्य, मनोज्ञाहारादिकमपि सुखं प्रति व्यभिचारि, विसूचिकादेरपि संभबात्, दोषान्तरमाह वैषयिकस्यासुखत्वाचेति, विषयजन्यं हि सुखं दुःखप्रतीकारहेतुत्वात्सुखाभासतया सुखमेव न भवति, अतः परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कुतः कारणं 25 भवेत्, भक्द्रीत्या साम्यताया अप्यभावादिति भावः । चशब्देन विचित्रसंसारानुपपत्तिलक्षणदोषस्य समुच्चया, यदि हि सुखेनैव सुखं तर्हि नित्यसुखिनां वर्गस्थानां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्थात्, नारकाणाञ्च पुनर्तुःखानुभवात्तत्रैवोत्पत्तिरिति नानागत्या संसारस्य वैचित्र्यं न भवेत् , न चैत इष्टमिष्टश्चेति भावः । लोचादिकमप्यल्पसत्त्वानामपरमार्थदृशामेव दुःखकारणरूपत्वं परमार्थदृशां २. महासत्स्वानान्तु सर्वमेतत्सुखायैव । मनोज्ञाहारादिना च न समाधिर्भवति, ततः कामोद्रेकात्तस्माचे30 तसोऽस्थिरत्वात् , तस्मादेवे साक्यानुष्ठायिनः परमसुखविलोपिनोऽनम्तसंसारा इति ॥ २८॥ .
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy