SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] सूत्रकृतलक्षणां। ... अथोपसर्गरध्यात्मविषीदनं भवतीत्याह-.. ... न विचिकित्सया त्राणाय व्याकरणादौ यतते ॥ २५॥ नेति, अल्पसत्त्वाः प्राणिनः, विचित्रा च कर्मणां गतिः प्रमादस्थानानि च बहूनि विद्यन्ते, केन पराजितोऽहं संयमाद्धष्टो भवेयमिति को वेत्तुं शक्नुयात् , नास्माकं किश्चन पूर्वोपार्जितद्रव्यजातमस्ति यत्तथाविधे समये वृद्धावस्थायां ग्लानावस्थायां दुर्भिक्षे वोपयोगाय भवेदतो व्याकरणं गणितं । ज्योतिषं हस्तिशिक्षा धनुर्वेदं वैद्यकं होराशास्त्रं मंत्रादिकं वाऽधीतश्चेत्तदा परेण पृच्छ्यमानो हस्तिशिक्षाधनुर्वेदायुर्वेदादिकं कथयिष्यामीति संयमभारवहनं प्रति विचिकित्सां समापन्नो हीनसत्त्वो व्याकरणादौ प्रयतते, न च तथापि मन्दभाग्यत्वादभिप्रेतार्थसिद्धिर्भवति । महासत्त्वश्व साधुः सुभटवत् परलोकप्रतिस्पर्धिकषायाद्यरिवर्ग जेतुं संयमोत्थानेनोत्थितो गृहपाशमवधूय न्यकृत्य च सावद्यानुष्ठानमात्मनोऽशेषकलङ्कराहित्याय संयमानुष्ठानक्रियायां दत्तावधानो भवति, न च स्वप्नेऽपि गृहवासमनुशोचति ।। २५ ।। 10 ___ अथाऽऽजीविकानां दिगम्बराणां वा परोपकारपूर्वकजीवनस्वभावस्य साधोराचारे आक्षेप दूषयितुमाह अन्योऽन्योपकारेण गृहीवैते मूञ्छिता इत्युक्तिरयुक्ता, तेषां पक्षद्वयप्रसङ्गात् ॥ २६ ॥ ... __ अन्योऽन्येति, पुत्रकलत्रादिस्नेहपाशैरनुरक्ता गृहस्था यथा परस्परोपकारेण मात्रादिः पुत्रे पुत्रश्च 15 मात्रादौ मूर्च्छितस्तथैते परस्परतो रोगिणः साधो$क्षमन्वेषयत, ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थ - ध्वमाचार्यादेवैयावृत्त्यकरणाद्युपकारेण वर्तध्वमित्येवंविधया मूछिताः, परस्मै दानादिनोपकारो हि गृहिणां धर्मो न तु यतीनाम् , तस्मादेते गृहस्था इव सरागिणः परस्परायत्तत्वात् , यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्तीत्याजीविकादयो दिगम्बरा वा वदन्ति, तनिषेधायाह तेषामिति, एवंवदतामात्मीयपक्षस्य सदोषस्य समर्थनाद्रागस्य निष्कलङ्कस्यास्मदभ्युपगमस्य दूषणाहेषस्य च प्रसङ्ग: 20 स्यात् , स्वतोऽसदनुष्ठानं सदनुष्ठायिनां निन्दनमिति वा पक्षद्वयस्य प्रसङ्गः, यद्वा बीजोदकोदिष्टकृत-: भोजित्वाद्गृहस्थाः, यतिलिङ्गाभ्युपगमात् प्रव्रजिताश्चेत्येवं पक्षद्वयस्य प्रसङ्गः, तथा हि वयमपरिग्रहतया निष्किश्चना इत्यभ्युपगम्य गृहस्थभाजनेषु युष्माभिर्भुज्यते तत्परिभोगाच्च तत्परिग्रहोऽवश्यम्भावी, आहारादिषु मूर्च्छनाच कथं निष्परिग्रहाभ्युपगमो निष्कलको भवेत् , भिक्षाटनं कर्तुमसमर्थस्यापरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावात् , तथाच गृहस्थानयने यो दोषः स भवता- 25 मवश्यम्भावी, गृहिभिर्हि बीजोदकाद्युपमर्दैनापादितमाहारं भुक्त्वा ग्लानमुद्दिश्य यन्निष्पादितं तदवश्यं . युष्मदुपभोगायावतिष्ठते, एवञ्चैते षड्जीवनिकायविराधनयोदिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीव्रण कर्मबन्धेनोपलिप्ताः, नैते सद्युक्तिभिर्वादं कर्तुं समर्थाः, विपर्यस्तावबोधेन व्याप्तत्वात् , केवलं क्रोधानुंगा असभ्यवचनादीन्येवाश्रयन्ते, अर्थानुगतयुक्तिभिः प्रमाणभूतैहेतुदृष्टान्तैः स्वपक्षसंस्थापनायां सामर्थ्याभावात् । तस्मात्तदेव वक्तव्यं वादकालेऽन्यदा वा येन येनोप-30 न्यस्तेन हेतुदृष्टान्तादिना स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षण आत्मसमाधि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy