________________
मुक्ता]
सूत्रकृतलक्षणा - इत्थं समयनिरूपणमभिधाय कर्मविदारणोपायं हिताहितप्राप्तिपरिहारलक्षणं बोधं वक्तुमुपक्रमते
योग्यस्सद्धर्ममवेत्योत्थाय च सफलः स्यात् ॥ १८॥ योग्य इति, बोधयोग्यतामवाप्त इत्यर्थः, सा च मनुष्यजन्म तत्रापि कर्मभूमिः पुनरार्यदेशः तत्रापि सुकुलोत्पत्तिस्तथेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तिश्च, एवंविधसामग्रीप्राप्तौ सत्यां तुच्छान् भोगान् । परिहृत्यावश्यं सद्धर्मे बोधो विधेयः, अकृतधर्माचरणानां हि प्राणिनां सम्यग्ज्ञानदर्शनचारित्रप्राप्तिदुर्लभैव, प्रमादाद्धर्मभ्रष्टानामनन्तमपि कालं संसारपरिभ्रमणस्य दुर्वारत्वात्, आयुरप्यनेकापायपूर्णम् , त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्यचित् मृत्यूपस्थितिसम्भवात् , आयुषः सोपक्रमत्वात् । तथा स्वजनादिस्नेहाकुलितमानसस्य सदसद्विवेकविधुरस्य स्वजनादिपरिपालनाय यत्किञ्चित्कारिणो निजकृतकर्मबलादेव नरकादियातनास्थानेषु परिभ्रमणस्य दुर्निवारतया न जन्मा- 10 न्तरेऽपि तस्य सुगतिः सुलभा, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण तदपगमासम्भवात् । भोगेच्छुर्विषयासेवनेन तदुपशममपेक्षते, तस्य चेह परत्र केवलं क्लेश एव भवति न तूपशमावाप्तिः, प्राप्तमपि सौधर्मादिस्थानमायुषः क्षये न त्राणाय समर्थमतस्तस्मादपि प्राण्यवश्यं च्यवत एव । येऽपि तीर्थान्तरीयाः शास्त्रार्थपारगा धर्माचरणशीला ब्राह्मणा भिक्षवो वा मायाकृतास्सदनुष्ठानमूर्च्छिताः सन्तस्तेऽप्यत्यर्थमसद्वेद्यादिभिः पीड्यन्त एव । तीर्थान्तरीयोपदिष्टैस्तपआदिभिरपि न. दुर्गतिमार्ग-15 निरोधः, आन्तरकषायापरित्यागात् , तस्मान्न मुनिहिताहितप्राप्तिपरिहारे भोगासक्तो मुह्येत् , किन्तु मनुष्याणां स्तोकं जीवितमवगम्य यावन्न पर्येति तावज्ज्ञानदर्शनचारित्रलक्षणधर्मानुष्ठानेन जीवितं सफलं कर्त्तव्यम् , क्लेशबहुलान् विषयानवगम्य गृहपाशबन्धनं छिन्द्यात् , यतमानः प्राणिनामनुपरोधेनोद्युक्तविहारी भवेत्, तदेवं हिंसानृतादिपापेभ्यो यस्सर्वथा विरतो भवति स एव सम्यगुत्थितः क्रोधाद्यपनेता मनोवाकायकर्मभिः सर्वतः सावद्यानुष्ठानेन विरतः, स चानुकूलैः प्रतिकूलैर्वा परीषहै: 20 स्पृष्टोऽपि मनःपीडां न विदध्यात्, अनिगूहितबलवीर्योऽधिसहेत न वा मात्रादिभिः कृतैर्विविधैः संसारगमनैकहेतुभूतैरार्तालापैः कातरो भवेत्, एवं कर्मणां विदारणमार्गमागतो मनोवाकायसंवृतः सावद्यारम्भं परित्यज्येन्द्रियैः सुसंवृतः संयमानुष्ठानं विदध्यादिति ॥ १८ ॥ बाह्यद्रव्यस्खजनारम्भपरित्यागमुक्त्वाऽथान्तरमानपरित्यागमाह
परिहृतमदो विदितखभावस्समः संयमं चरेत् ॥ १९ ॥ 25 परिहृतेति, कर्माभावस्य कषायाभावः कारणमिति विदित्वा मुनिर्गोत्रादिमदं न यायात्, तथान्येषां निन्दामपि न कुर्यात् , तपःसंयमज्ञानेष्वपि यैर्मानो मुनिभिस्त्यक्तः ते कथं परनिन्दा कुर्युः तथापि यः कश्चिदविवेकी परं निन्दति स तत्कृतेन कर्मणा संसारेऽरघट्टघटीन्यायेन परिवर्तत एव, तस्मात् परनिन्दा दोषवतीं विज्ञाय विशिष्टकुलोद्भवोऽहं श्रुतवान् तपस्वी भवाँस्तु मत्तो हीन इति न प्रमादं कुर्यात्, किन्तु चक्रवर्तिनाऽपि संयमपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा 30 न विधेया, इतरेण चोत्कर्ष इत्यलजमान उत्कर्षमकुर्वन् परस्सरतो वन्दनप्रतिवन्दनादिकाः क्रिया
सू.मु.१४