SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०६ सूत्रार्थमुकावल्या कुर्यात्, किमालम्ब्य तत्कार्यमित्यत्राह विदितस्वभाव इति, जीवानामुच्चावचस्थानगतिलक्षणमतीतमनागतं च स्वभावं सुष्ठु विदित्वा परिहृतलज्जामदो बहुप्रज्ञोऽपि सदा कषायजयकृतप्रयत्नः कीदृशः क व्यवस्थितो लज्जामदौ न कुर्यादित्यत्राह सम इति, सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् संयमस्थाने छेदोपस्थापनीयादौ वर्त्तमानः समभावेन यावन्मृत्युकालं ताव5 लज्जामदपरित्यागोपेतः संयमं चरेत्, संयमानुष्ठाने प्रवर्त्तेत, हन्यमानो वा पूज्यमानो वा क्रोधं मान परिहरन् संयमस्याविराधको भवेदिति भावः ॥ १९ ॥ परीषहोपसर्गादीनां सम्यगधिसहनं कार्यमित्याह सहनोऽस्मृतशब्दादिर्निर्ममो विहरेत् ॥ २० ॥ सहन इति, समीचीनभावयुतश्शीतोष्णादिरूपाननुकूल प्रतिकूलोपसर्गान् मनोवाक्कायेन सम्य10 गधिसहमानों लोके सर्वज्ञोक्तः क्षान्त्यादिरूपः श्रुतचारित्ररूपो वा धर्म एकान्तहितत्वादनुत्तर इति दृढं भाव्यमानो गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय पूर्वमनुभूताननागतान् वा शब्दादिविषयान् स्मरणमात्रेणापि महदनर्थकराननभिलषन्नष्टविधकर्मापनयनाभिलाषुक इदं मम, अस्य स्वाम्यहमित्येवं कापि परिग्रहाग्रहरहित इन्द्रियनोइन्द्रियैर्वि स्रोतसिकारहितस्तपोवीर्यः कदाचिदप्यनवाप्तपूर्वमात्महितं दुःखेनावाप्यत इति मन्यमानो नेषदपि संयमानुष्ठानात् प्रमाद्येत ॥ २० ॥ 15 [ तृतीया परीषहसहनादेवाज्ञानोपचितस्य कर्मणो विनाश इत्याह संवृतावद्वारोऽकामी सर्वसंवरमाश्रयेत् ॥ २१ ॥ संवृतेति, अज्ञानेनोपचितं हि कर्म बद्धस्पृष्टनिधत्तनिकाचितं सप्तदशविधसंयमानुष्ठानात् प्रतिक्षणं क्षयमुपयाति यथा हि तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदा रविकर सम्पर्कादनुक्षणमपचीयते तथा संवृताश्रवद्वारस्य साधोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः संयमानुष्ठानेन चानेक20 भवाज्ञानोपचितं कर्म क्षीयते मोक्षच स व्रजति, यश्च कामान् ख्यादीन् कथमपि न कामयति तान् व्याधिरूपतया द्रष्टृत्वात् सोऽपि सन्तीर्णसमः, निष्किंचनतया शब्दादिविषयेष्वप्रतिबद्धत्वेन संसारोदन्वतस्तटोपान्तवर्त्तित्वात् । यस्तु लघुप्रकृतिः समृद्धिरससातगौरवेषु गृद्धः कामासेवने धृष्टतां गतः कर्त्तव्येष्ववसीदन् समस्तमपि संयमं मलिनीकरोति, धर्मध्यानादिकं कथ्यमानमपि नावबुध्यते, अतिभारादिभिरत्यन्तश्रमितबलीवर्दस्य विषमपथादौ प्रचोदितस्यापि गमनसामर्थ्यानुदयादिव कामादिविषयै25 र्जितस्य तत्पङ्कनिमग्नस्य तत्सम्बन्धपरित्यागेनान्यत्र संयमादौ गमने सामर्थ्यानुदयात् । तदनुषङ्गाच्च भवान्तरे कुगतिप्राप्तिरविनाभाविनीति विषयासङ्गादात्मानं सर्वथा पृथक् कर्त्तव्यम्, तथैवमात्मानमनुशासितव्यं अयि जीवोsशुभकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तो दुर्गतौ पतति परमाधार्मिकैश्च स कदर्थ्यमानः क्षुधादिवेदनाप्रतोऽत्यर्थं रटति हा मातर्क्रियत इत्येवमाक्रन्दति, न हि तत्रास्ति कश्चित् त्राता, तदेवं दुःसहानि दुःखानि सम्भवन्ति तस्मान्न त्वया विषयानुषङ्गः कर्त्तव्य इति, तथा कश्चिदज्ञलोकोऽसद - 30 नुष्ठाने प्रवृत्तः पापकर्मकारी परेण धर्मायाधर्मनिवृत्तये वा चोदितो धृष्टतया पण्डितमान्यतीतानागौ विनष्टानुत्पन्नत्वेनाविद्यमानौ न ताभ्यां किश्चित्प्रयोजनमस्ति प्रेक्षापूर्वकारिभिश्च तदेव परमार्थ -
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy