________________
सूत्रार्थमुक्तावल्याम्
[" तृतीया
. बालानिति, एते पूर्वव्यावर्णितास्तीर्थिका बालाः सदसद्विवेकवैकल्याद्यत्किश्चन कारिणो भाषिणश्च तथा परीषहोपसर्गैः कामक्रोधादिभिश्च जिता अत एव च न कश्चित्रातुं समर्थाः, बालत्वा'देव च धनधान्यादिभिः संयोगं विहाय वयं प्रव्रजिताः निःसङ्गा इत्युत्थायापि परिग्रहारम्भेष्वासक्ता गृहस्थयोग्य व्यापारोपदेशादिषु प्रवर्त्तन्ते तानेतान् पाखण्डिलोकानेते मिध्यात्वोपहतान्तरात्मानः सद5 सद्विवेकशून्या नात्मनेऽन्यस्मै वा हितायेति सम्यगवगम्य विदितवेद्यो भिक्षुर्न तैः सम्पर्क विदध्यात्, तीर्थषु गृहस्थेषु पार्श्वस्थेषु वा परिहृतसम्बन्धी मध्यस्था रागद्वेषयोरन्तरालेन सञ्चरन् कथञ्चित् तीर्थकादिभिः सह सत्यपि सम्बन्धे त्यक्ताहङ्कारो भावतस्तेष्वप्रलीयमानस्तेषां निन्दामात्मनश्च प्रशंसां परिहरन् धर्मोपकरणव्यतिरेकेण शरीरोपभोगार्थमीषदपि परिग्रहं परिहरन् तपोज्ञानमदमप्यकुर्वन् संयमं चरेत् ॥ १६ ॥
10
मतान्तराण्यपि सङ्गृह्य निराचष्टे -
अत्रेवान्यत्र लोको नित्योऽनित्यो वा बहुज्ञ ईश्वरो नापुत्रस्य गतिरित्यादयो वादा निष्प्रमाणाः क्रियावैफल्यात् ॥ १७ ॥
२०४
अत्रेवेति, तत्त्वविपर्यस्तमतीनां केषाश्चिदभ्युपगम इत्थं - अस्मिन् जन्मनि जीवा यदि पुरुषास्तर्हि परभवेऽपि ते पुरुषा एव न स्त्रियो न वा त्रसाः स्थावरा वा, इह भवे स्त्रियश्चेत् परत्रापि स्त्रिय 15 एवेति तथा लोकोऽपि सप्तद्वीपात्मकोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावः, अथवा निरन्वयं विनाशी, यद्वा द्व्यणुकादिरूपेण भवन्नपि परमाणुर्न परमाणुत्वं जहातीति नित्यः, दिगात्माकाशाद्यपेक्षया वा न विनाशी, एवं ईश्वरोऽपि बहुज्ञ एव न तु सर्वज्ञः कीटसंख्या दिपरिज्ञानवैयर्थ्यात् । तथा नापुत्रस्य सन्ति लोकाः, ब्राह्मणा देवाः श्वानो यक्षाः, , गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका इत्येवं नैर्युक्तिका वादाः केचिज्जगुः, तदेते वादाः प्रमाणरहिता इत्याह निष्प्रमाणा इति, अत्रेष परत्रापि जीवो यदि भवेत्तदा दानाध्य20 यनजपनियमतपोऽनुष्ठानादिकाः सर्वाः क्रिया अनर्थिका भवेयुरित्याह क्रियावैफल्यादिति, तस्मात्स्थावरजङ्गमा जीवाः निजनिजकर्मानुगुण्येन परस्परं सङ्क्रमन्तीति भावः, लोकोऽपि नाप्रच्युतानुत्पन्नस्थिरैकस्वभावः, प्रत्यक्षबाधितत्वात्, क्षणभाविपर्यायानास्कन्दितस्य कस्यापि वस्तुनः प्रत्यक्षतोऽनिश्चयात्, निष्पर्यायश्च वस्तु खपुष्पसदृशमेव । यदि तु स्वजात्यनुच्छेदान्नित्यतेत्युच्यते तर्हि सा परिणामा नित्यतैवेत्यस्मन्मतप्रवेशः । आकाशादेरप्यविनाशित्वं न युक्तमुत्पादव्ययधौव्यात्मकत्वव्याप्यत्वाद्वस्तुत्वस्य, 25 अन्यथा वस्तुत्वमेव तस्य न भवेत् । ईश्वरो बहुज्ञ एव न तु सर्वज्ञ इत्यप्ययुक्तम्, बहुज्ञत्वेऽपि तस्य सर्वज्ञत्वाभावे न प्रेक्षापूर्वकारिभिर्ब्राह्यता भवेत्, हेयोपादेयोपदेशप्रदानवैकल्यात्, तथा तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, एतद्विषयपरिज्ञानाभावेऽपरत्रापि हेयोपादेयेष्वपरिज्ञानत्वशङ्कयां तत्र प्रेक्षापूर्वकारिणां प्रवृत्तिर्न स्यात्, तत्परिपालनमपि सम्यङ्ग भवेत् तस्मात्तस्य सर्वज्ञत्वमेष्टव्यमेव । अपुत्रस्य न सन्ति लोका इत्याद्यभिधानमपि युक्तिरहितमेव, पुत्रसत्तामात्रेण यदि विशिष्टलोकावाप्तिस्तर्हीन्द्र30 महकामुकगर्त्तावराहादिभिर्लोका व्याप्ता भवेयुः, तेषां बहुपुत्रत्वसम्भवात्, यदि पुत्रकृतानुष्ठानविशेतर्हि पुत्रेणैकेन शुभेऽनुष्ठितेऽपरेण चाशुभे तत्र का वार्त्ता, निजकृतानुष्ठानवैयर्थ्यमपि भवेत्, तस्मा - मैले बादाः प्रमाणोपमा इति ॥ १७ ॥