SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सुका ] सूत्रकृतलक्षर्णा । २०३ तस्य स्वत उत्पत्तौ लोकस्यापि तथोत्पत्तिप्रसङ्गः, न च तस्यान्यत उत्पत्तिरनवस्थाप्रसक्तेः, अनुत्पन्नस्य तस्य कारणत्वे तु लोकस्यापि कुतो नानुत्पादः, किञ्च सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, नाप्यविकृतात्तस्मान्महदाद्युत्पत्तिरिष्यते, विकारे तु न तस्य प्रधानतेति कथं प्रधानान्महदाद्युत्पादो भवेत् । किञ्च प्रकृतेरचेतनतया न पुरुषार्थं प्रति तस्याः प्रवृत्तिरिति कथमात्मोपभोगाय सृष्टिः स्यात् । न च तस्यास्तथाविधस्वभावत्वमिति वाच्यम्, ततो बलीयस्त्वेन स्वभावादेव लोकोत्पत्तिप्रसङ्गात् । यदि 5 तस्यैव कारणता स्वीक्रियते तदा न काचित् क्षतिः, स्वो हि भावः स्वभावः स्वकीयोत्पत्तिः, सा च पदार्थानामिध्यत एव, उत्पादव्ययधौव्यात्मकत्वाद्वस्तूनामिति न प्रकृतिकर्त्तृतावादो युज्यत इति, तदेवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखिस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लका का रसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुकाकारोर्ध्वलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पा- 10 दव्ययधौव्यापादितद्रव्यसन्त्वस्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तो मृषा वदन्तीति ॥ १३॥ एते न दुःखपारगामिन इत्याह नैते दुःखविच्छेदोपायज्ञाः, अन्यकृत दुःखाभिमानित्वात् ॥ १४ ॥ नैत इति, पूर्वोदिता अज्ञानिनो न दुःखोच्छेदाय समर्थाः, दुःखं हि निजाशोभनानुष्ठान- 15 प्रभवं नान्यस्माद्भवति एते च तदजानाना ईश्वरादिकृतं दुःखमिति विदन्ति, एवंविधवेदिनां कथं दुःखविघातोपायपरिज्ञानं भवेत्, कारणविच्छेदे हि कार्यस्य विच्छेदो भवेत्, ते च कारणमन्यथा जानन्ति तस्मात्तदुपायापरिज्ञानात्तैस्तदुद्देशेन विधीयमानस्य च यत्नस्यानुपायत्वान्न दुःखविच्छेदमावन्ति, किन्तु जन्मजरामरणादिमहादुःखमये संसार एवानन्तं कालं परिवर्त्तन्त इति ॥ १४ ॥ गोशालक मतानुसारिणं दूषयितुमाह 20 पुनः पुनर्मुच्यते रज्यते चेति केचित्तन्न, पुनः कर्मबन्धासम्भवात् ॥ १५ ॥ पुनः पुनरिति, यो ह्यात्मा मनुजभवे शुद्धाचारो भूत्वा व्यपगतनिश्शेषकलङ्कोऽपापत्वान्मोक्षमवाप्य मोक्षस्थ एव स्वशासनपूजामुपलभ्य पुना रागं स्वशासनतिरस्कारदर्शनात् क्रोध प्राप्नोति, ततश्च क्रमेण मलीमसः कर्मगुरुत्वात्पुनः संसारेऽवतरति तत्र पुनः प्रब्रज्यया संवृतो निर्गतकल्मषो मुच्यते पुनरपि तथैव शासननिमित्तरागद्वेषाभ्यां संसारः पुनश्च शुद्धाचारादकर्मा भवतीति केषाचि- 26 न्मतम्, तन्निरस्यति नेति, हेतुमाह पुनरिति, मुक्ता ह्यपगताशेषकर्मकलङ्काः कृतकृत्या अवगत - शेष यथावस्थितवस्तुतत्त्वाः स्तुतिनिन्दासु च समाः अपगतात्मात्मीयपरिग्रहाः, तेषां कथं रागद्वेषानुषङ्गः, तदभावाच्च कथं कर्मबन्धः स्यात् । अत एते सम्यग्ज्ञानविधुराः कथविद्रव्यब्रह्मचर्यादौ व्यवस्थिता अपि न समीचीनानुष्ठानभाज इति न संसारपाशविप्रमुक्ता इति ॥ १५ ॥ एतेषां सङ्गपरित्यागो विवेकिना कार्य इत्याह बालानेतान् परिज्ञाय मध्यस्थः संयमं चरेत् ॥ १६ ॥ 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy