SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थनुकावल्या [तुतीचा तथा चान्वयव्यतिरेकाभ्यां मनः प्रधानं कारणम् , न च कायचेष्टारहितमकारणम् , भावशुद्ध्या निर्वाणमधिगच्छतीति भणता भवता मनस एवैकस्य प्राधान्यस्वीकारात् , तथा क्लिष्टमनोव्यापारः कर्मषन्धायेति च वीक्रियते तथा च कथं न तत्र कर्मबन्धः । ईर्यापथेऽप्यनुपयुक्तगमने लिष्टचित्तत्वात्कर्मबन्धो भवत्येव, उपयुक्तगमने त्वप्रमत्तत्वादवन्धक एव, स्वप्नान्तिकेऽप्यशुद्धचित्तसहावादीषद्वन्धो भवत्येव, तस्माञ्चतुष्टये कर्मोपचयाभाववादिनो विपरीतानुष्ठानतया प्राकृतपुरुषसहशा एव न मोक्षसुखसङ्गिनोऽनन्तमपि कालं जन्मजरामरणादिल्लेशमनुभवन्त एवासत इति ॥ १२ ॥ ___पुनः केषाञ्चिदज्ञानिनां मतमादर्शयति· ब्रह्मेश्वरादिकृतो लोक इति प्रमाणविरुद्धं केचिदाहुः ॥ १३ ॥ ब्रह्मेति, केचिदेवमाहुः, ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत् , तेन च प्रजा® पत्यादिक्रमेण सकलं जगत्सृष्टमिति, अन्ये तु तनुमुवनादिकं बुद्धिमत्कारणपूर्वकं कार्यत्वात् , संस्थानविशेषवत्त्वाद्वा, घटादिवदिति मानमुपन्यसन्त ईश्वरकृतं जगदाहुः । अपरे च सत्त्वरजस्तमसां साम्यावस्थालक्षपया प्रकृत्या महदकारादिक्रमेण जगदुत्पत्तिमभिदधति, एवंरूपाः सर्वे वादा मृषा वादा एव, प्रमाणैर्विरुद्धत्वात् । अयं हि लोको द्रव्यार्थतया न निर्मूलतः कदापि विनश्यति, अतो नादितः केनचित् क्रियते, अपि तु लोकोऽयमभूद्भवति भविष्यति च । न हि स ब्रह्मादिभिः कृत इत्यत्र किञ्चित् 15 प्रमाणमस्ति, किम्वासी ब्रह्माऽनुत्पन्नो न तं सृजति, खरविषाणस्येवासत्त्वेन कारणत्वासम्भवात् , स्वत उत्पन्नो यदि सृजेत् तदा लोकोऽपि स्वतः कुतो नोत्पद्यते, यदि त्वन्यत उत्पन्नः सृजति तीनवस्था, यदि सोऽनादिस्तहि लोकोऽपि तथा भवतु को दोषः। किश्वासावनादिः सन्नित्यस्तर्हि क्रमयोगपद्याभ्यामर्थक्रिवाऽसम्भवान्न कर्ता भवेत् , यदि चामित्यस्तदोत्पत्त्यनन्तरं विनाशित्वात्स्त्रस्यैव प्राणायासमर्थ तया कुतोऽन्यत्करणं प्रति तस्य व्यापृतिर्भवेत् । अपि चासौ यद्यमूर्तस्तदाऽऽकामस्येवाकर्चा भवेत् । 20 मूर्तश्चेत् प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य सकलजगत्कर्तृत्वं कथं स्यादिति न ब्रह्मकर्तृत्ववादः प्रमाणसिद्धः। ईश्वरकर्तृत्वानुमानमपि न प्रमाणम् , व्याप्त्यसिद्धेः, कार्यस्य कारणपूर्वकत्वमात्रेणैव व्याप्तेः, न तु तथाविधविशिष्टकारणपूर्वकत्वेन, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिस्तु गृहीतप्रतिबन्धस्यैव भवति, न त्वत्यन्तादृष्टे तथा प्रतीतिः, न हि सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन हेतौ सम्बन्धो गृहीतः । एवं घटादिसंस्थानदर्शनवत् पर्वतादावपि संस्थानदर्शनान्न बुद्धिमत्कारणपूर्वकत्वस्य सिद्धिः, संस्थानमात्रस्य बुद्धिमत्कारणपूर्वकत्वासिद्धेः, अन्यथा मृद्विकारत्वाद्धटवद्वल्मीकस्यापि कुम्भकारकृतिः सिद्ध्वेत् , तस्माद्यदेव संस्थानं बुद्धिमत्कारणपूर्वकत्वेन गृहीतं तदेव तथाविधकारणानुमापकं न संस्थानमात्रम्, किञ्च घटादिसंस्थानानि कुम्भकारकर्तृतया लक्षितानि, नेश्वरकर्तृतया, तत्रापि तस्य निमित्तत्वे दृष्टहानिरदृष्टकल्पना च स्यात् । अपि च घटादेः कर्ताऽनित्याव्यापित्वेनोपलब्धस्तदृष्टान्तेन साध्य मानस्तथाविध एव कर्ता लिद्धयेत् , अन्यथाभूतस्य च दृष्टान्ताभावतो व्याप्तिसिद्धिर्न भवेत् , तस्मान्ने20 वरकर्तृकत्वं लोकस्येति तद्बादो मिथ्यावाद एव । तथा प्रधानादिकृतो लोक इत्यपि प्रमाणविरुद्धम् , तस्मासूर्यले मूर्तस्य न खल घल्पत्तिः स्यान्न हि गमनादितो मूर्तस्य कस्यचिदुत्पतिर्दश्यते, मूर्चत्वे तु
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy