SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] सूत्रकृतलक्षणा । भवत्येव, कार्यवैचित्र्ये कारणवैचित्र्यस्य निमित्तत्वात्, यस्य कस्यचित् फलाभावस्त्वदृष्टकृतस्तस्यापि कारणत्वात्, , कालकृतत्वेऽपि न दोषः, विशिष्टकाले विशिष्टकार्योत्पाददर्शनात् कर्मणोऽपि निमित्ततया कालस्यैकत्वेऽपि विचित्रजगदुत्पत्तिसम्भवात् । तथा तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादात्मा ईश्वरस्तस्य सुखदुःखोत्पत्तिकर्तृत्वं निर्विवादमेवेतीश्वरस्य कर्तृत्वेऽपि क्षत्यभावः, तस्मात्केवलनियत्यादिवादा असम्यक्प्रवृत्तत्वान्नात्मदुःखविमोचकाः ॥ १० ॥ एवम्भूताः सर्व एव वादा अज्ञानवादा नात्मशान्तिप्रदा इत्याशयेनाह — स्वदर्शनानुरागिण एते संसारानुवर्त्तिनः ॥ ११ ॥ स्वेति, एते नियत्यादिवादिनः कदाचिदपि संसारं नातिवर्त्तन्ते, स्वोत्प्रेक्षितासत्कल्पनापूर्णदर्शनानुरागित्वात्, आत्मपरित्राणसमर्थेऽनेकान्तबादे युक्त्युपपन्ने शङ्कितत्वाच्च, ते हि बहुदोषं नियत्याद्येकान्तवादमेव निःशङ्कभावेनावलम्बमाना अत्राणे त्राणबुद्धिं विदधाना अज्ञानिनः कर्मबन्धस्थानेषु 10 संपरिवर्त्तन्ते, अत एव तेनार्या मिथ्यादृशः क्षान्त्यादिसद्धर्म प्ररूपणायामसद्धर्मप्ररूपणामतिं पापोपादानभूतप्ररूपणाया सद्धर्मप्ररूपणामतिं कुर्वन्ति, परिव्राजका अपि सन्तो हेयोपादेयार्थानाविर्भावकं परस्परविरोधपरिपूर्णं छिन्नमूलमच्छिन्नमूलं वा गुरुपरम्परायातं ज्ञानं परमार्थावेदिनोऽनुसरन्ति, न तु तद्वक्तारं सर्वज्ञोऽयं न वेति विमर्शयन्ति, वदन्ति च 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथमिति । एते चाज्ञानिनो निजं मार्ग शोभनत्वेन परकीयचाशोभ- 15. नत्वेन मन्यमानाः स्वयं मूढाः परानपि मोहयन्ति तीव्र पापमनुभवन्ति ॥ ११ ॥ १०१ 5 अथ ज्ञानावरणादिकर्मचिन्तनविधुराणां क्रियावादिनां मतं निराकरोति— चतुर्विधं कर्म नोपचीयत इति केचित्तन्न, तत्रापि कर्मबन्धात् ॥ १२ ॥ चतुर्विधमिति, परिज्ञोपचितमविद्योपचितमीर्यापथं स्वप्नान्तिकश्चेति चतुःप्रकारं कर्मबन्धं नेच्छन्ति केचित्, तत्र प्रथमं यथा यः कश्चित् क्रोधादिनिमित्तान्मनोव्यापारमात्रेण प्राणिनो व्यापाद - 20 यति, न तु कायेन तद्व्यापारे वर्त्तते न तस्य कर्मोपचयो भवतीति । द्वितीयं यथाऽजानानः कायव्यापारमात्रेण प्राणिनं यो हिनस्ति तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । तृतीयश्च गमनविषय यथा व्रजतोऽध्वनि यथाकथञ्चिदनभिसन्धेर्यत्प्राणिव्यापादनं भवति न तत्र कर्मबन्ध इति । चतुर्थ स्वप्न एव लोकोक्त्या स्वप्नान्तः तत्र भवं तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावः' तथा कर्मणोऽपीति । कर्मबन्धस्तु हन्यमानो यदि प्राणी स्यात्, हन्तुश्च यद्ययं प्राणीत्येवं ज्ञानमुत्पद्येत, 26तथैनं हन्मीत्येवमपि यदि बुद्धिः स्यात्, एतेषु सत्सु यदि कायचेष्टा प्रवर्त्तते, तस्यामपि यद्यसौ प्राणीव्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतमाभावेऽपि न हिंसा न वा कर्मचयः । किन्तुक्तेन चतुर्विधेनापि कर्मणा स्पर्शमात्रानुभवयोग्यं कर्म भवति न तु तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशाटनात्, अत एवोपचयाभाव उक्तो न त्वत्यन्ताभाव इति केषाश्चिन्मतं तन्निराकरोति तन्नेति, तत्रापीति, केवलमनः प्रद्वेषादिस्थलेऽपीत्यर्थः, मन एव हि कर्मोप- 30चये प्रधानं कारणम्, मनोरहित केवलकायव्यापारसत्त्वे कर्मोपचयाभावस्य तैरप्यङ्गीकृतत्वात्
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy