________________
१०० सूत्रार्थमुक्तावल्याम्
[तृतीया सुखदुःखानुभवाभावप्रसङ्ग इति तदनुभवान्यथानुपपत्त्याऽस्त्यात्मा, एवं रूपादिपञ्चविषयानुभवोत्तर संकलनाप्रत्ययोऽनुभूयमानो न स्यात् , स्वविषयादन्यत्रेन्द्रियाणामप्रवृत्तेरालयविज्ञानेन तदभ्युपगमे तस्य चाक्षणिकत्वे आत्मैव संज्ञान्तरेणाभ्युपगतः स्यात् , क्षणिकत्वे च तद्दोषतादधस्थ्यम् । अथ क्षणिकस्बसाधननिराकरणायाह सर्वथानित्यत्वासिद्धेश्चेति, क्रमयोगपद्याभ्यां नित्यस्यार्थक्रियाकारित्वं न घटत इति यदुक्तं तत्क्षणिकपक्षेऽपि समानमेव, क्रमेण यौगपद्येन वाऽर्थक्रियायां प्रवर्त्तमानस्य तस्याप्यवश्यं सहकारिकारणसव्यपेक्षस्यैव प्रवृत्तेः, अन्यथा सामग्या एष जनकत्वाभिधानमपार्थकं भवेत् , एवञ्च सहकारिणा न क्षणिके कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वेनानाधेयातिशयत्वात् , क्षणानां परस्परोपकार्योपकारकत्वानुपपत्त्या सहकारित्वाभावान्न प्रतिविशिष्टकार्योपपत्तिः । अनित्यस्य कार
णेभ्य उत्पत्त्यङ्गीकारेऽपि तत्किमनित्यत्वं क्षणक्षयित्वेन परिणामानित्यतया वा, आये क्षणिकत्वे कार्य10 कारणभावासम्भवः, न च पूर्वक्षणादुत्तरक्षणोत्पादे सति स भवतीति वाच्यम् , कार्यकालेऽसतो जनकत्वानुपपत्तेः, सत्त्वे च क्षणिकत्वानुपपत्तेः, किञ्च प्रथमक्षण एव यदि विनाशस्वभावत्वं तर्हि तदैव तस्य. विनाशाद्वितीयक्षण इव प्रथमक्षणेऽपि स न स्यादिति किं कस्य कारणं कार्य वा, द्वितीयक्षण एव विनाशाङ्गीकार उत्पत्तिकालेऽभवतः पश्चाच्च भवतोऽनन्तरक्षण एव तद्भावे किचिनियामकं वाच्यम् , विना
शहेत्वभाव एव नियामक इति चेन्न, मुद्गरादिव्यापारानन्तरमेव घटादिविनाशदर्शनात् । न च तत्रोक्तो 15 दोष इति वक्तव्यम् , पर्युदासपले कपालाख्यभावान्तरकरणे घटादेः परिणामानित्यतया तद्रूपत्वात्तत्र
मुद्गरादेर्व्यापारतया घटादीन् प्रति तस्याकिञ्चित्करत्वासिद्धेः । प्रसज्यप्रतिषेधपक्षेऽपि भावं न करोतीति प्रध्वंसाभावप्राप्त्या तत्र च कारकव्यापारप्रवृत्तेः, न हि सोऽभावमात्रं किन्तु वस्तुतोऽवस्थाविशेषः पर्यायः, तस्य च भावरूपत्वात् पूर्वोपमर्दैन प्रवृत्तत्वाच्च य एव कपालादेरुत्पादः स एव घटादेविनाश
इति कथं विनाशस्याहेतुकत्वम् , तदेवं क्षणिकस्यासम्भवात् परिणामानित्यपक्ष एव ज्यायान् , एवञ्च 20 परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथश्चिदन्य आत्मा स्वीकार्य इति ॥ ९॥
तदेवं भूतवादं निराकृत्य नियतिवादव्युदासायाहसुखाद्यनुभवे नियतिरेव कारणमिति चेन्न क्रियाप्रवृत्तिवैयर्थ्यात् ॥१०॥ .. सुखादीति, योऽयं सुखदुःखाद्यनुभवः स नियतिकृत एव न तु पुरुषकारकृतो न वा कालादिकृतः, पुरुषकारस्य सर्वजीवसाधारणतया फलवैलक्षण्यं कस्यचित्फलाप्राप्तिश्च न भवेत् , तथा कालोऽपि 26 तत एव न सुखादिकर्ता, कारणभेदाभावे कार्यभेदानुपपत्तेः, नापीश्वरः कर्ता, तस्य मूर्त्तत्वे प्राकृतपुरुष
वत्सर्वकर्तृत्वानुपपत्तिः, अमूर्त्तत्वे निष्क्रियत्वादाकाशादिवदकत्र्तव भवेत् , तथा तस्य रागादिमत्त्वेऽस्मदादिवन्न विश्वस्य कर्ता स्यात् विगतरागत्वे दरिद्रेश्वरादिविचित्रजगत्कर्तृत्वं न भवेत् , नापि स्वभावः. कतो, तस्य पुरुषाद्भेदे पुरुषाश्रितसुखादिकर्तृत्वासम्भवात् , तस्माद्भिन्नत्वात्, अभेदे च पुरुषस्यैव कर्तृत्वप्राप्त्या तस्यासम्भवात् । नापि कर्म, यदि तत्सचेतनं तदैकदेहे चैतन्यद्वयापत्तिः, अचेतनश्चेद30 स्वतंत्रस्य कर्तृत्वानुपपत्तिदृषत्खण्डस्येव तस्मानियतिकृतमेवेति नियतिवादिनः, तन्निरस्यति नेति,
परलोकसाधिकासु क्रियासु प्रवृत्तिर्न स्यात् , नियतिवादाश्रयणादिति भावः, तस्मात्सुखादयः केचिन्नियतिकृताः केचिश्चात्मपुरुषकारेश्वरादिप्रापिताः, अत एव पुरुषकारकृतत्वेऽपि तद्वैचित्र्यात्फलवैचित्र्यं