SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ९९ मुक्ता ] सूत्रकृतलक्षणा । विद्यते, तत्र पृथिवीधात्वादयो रूपादयश्च रूपस्कन्धः, सुखा दुःखा अदुःखसुखा चेति वेदनास्कन्धः, रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञानस्कन्धः, संज्ञानिमित्तोद्राहणात्मकः प्रत्ययः संज्ञास्कन्धः, पुण्यापुण्यादिधर्म समुदायः संस्कारस्कन्धः, एते च स्कन्धाः क्षणमात्रस्थायिनः, यत्सत् तत्क्षणिक मिति व्याप्तेः, स्वकारणेभ्यः पदार्थानां विनाशिस्वभावतयैवोत्पत्तेश्च यदि चाविनाशिस्वभावो भावो भवेत्तदा सवव्यापिकायाः क्रमयौगपद्याभ्यामर्थक्रियाया असम्भवात्सत्वस्याप्यभावः स्यात्, व्यापकाभावे व्याध्य- 5 सत्वासम्भवात्, तथा हि यदर्थक्रियाकारि तत्परमार्थतः सत्, यदि च भावोऽक्षणिको भवेन्तर्हि स किं क्रमेणार्थक्रियां करोति, युगपद्वा, प्रथमपक्षेऽपि किं यदैकार्थक्रियाकारित्वं तदाऽपरार्थक्रियाकारिस्वभावत्वमस्ति न वा, आद्ये क्रमकारित्वं न स्यात्, सहैव कर्तृत्वप्रसङ्गात्, यदि तथाविधस्वभावसन्वेऽपि तत्सहकार्यपेक्षयैव कार्यकारित्वात् क्रमकारित्वमित्युच्यते तर्हि किं सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा, प्रथमपक्षेऽपि पूर्वस्वभाव परित्यागेन, अपरित्यागेन वा, आद्ये स्वभाव परित्यागात्क्षणिकत्वं स्यात्, 10. द्वितीये च सहकार्यपेक्षावैयर्थ्यम्, ततस्तत्रातिशयाभावात् । अकिञ्चित्कार्यपि सहकार्यपेक्ष्यत इति चेन्न, सकलजगतोऽपेक्ष्यत्वप्रसङ्गादविशेषात् । एकार्थक्रियाकालेऽपरार्थक्रियाकारिस्वभावत्वानभ्युपगमेऽपि तस्याक्षणिकत्वं कथं स्यात् । यदि च युगपदर्थक्रियाकारित्वं तस्य स्वभाव इति पक्षोऽङ्गीक्रियते तदा प्रथमक्षण व सर्वासामर्थक्रियाणां भावाद्वितीयक्षणादावकर्तृतया क्षणिकत्वं तथापि स्यात्, कृतस्य च करणासम्भवात् पुनर्द्वितीयादिक्षणेषु ता एवाशेषाः क्रियाः करोतीति वक्तुमशक्यत्वात्, द्वितीयादिक्षण- 15 भाविकार्याणां प्रथमक्षण एव प्राप्तेश्च तस्य तत्स्वभावत्वादतत्स्वभावत्वे चानित्यत्वापत्तेः, तस्मान्न स्वकारणेभ्योऽक्षणिकस्योत्पत्तिः किन्तु क्षणमात्रस्थायिन एव । ननु स्वकारणेभ्योऽनित्यस्यैवोत्पत्तिर्न तु द्वितीयक्षणविनाशिस्वभावस्य तस्य च विनाशो यदा विनाशहेतुसमवधानं तदा, न तु द्वितीयक्षण एवेति चेन्न, विनाशहेत्वसम्भवात् विनाशहेतुना हि घटादेः किं क्रियते, अभाव इति चेत्स किं पर्युदासरूपः प्रसज्यरूपो वा, आद्ये व भावाद्भावान्तरं घटाभावः स्यात्, तथा च मुद्गरादिना भावान्तरे 20क्रियमाणेऽपि घटस्तदवस्थ एव स्यात् तेन तस्य किमप्यकरणात् । द्वितीये च विनाशहेतुरभावं करोतीत्युक्तेर्भावं न करोतीति क्रियाप्रतिषेध एव प्राप्तः, न तु घटस्य निवृत्ति:, तामपि करोतीति चेन्न निवृत्तेर्नीरूपत्वेन तुच्छत्वाचत्र कारकव्यापारासम्भवात्, अन्यथा शशशृङ्गादावपि कारकव्यापारः स्यादिति विनाशहेतोर किञ्चित्करत्वात् स्वहेतुत एव विनाशस्वभावानां भावानामुदय इति क्षणिकत्वं भावानामिति । एतेभ्यः पञ्चस्कन्धेभ्यो न व्यतिरिक्तः कश्चिदात्मा प्रमाणसिद्धः प्रत्यक्षस्य नीरूपेऽप्रवृत्तेः, 25 अव्यभिचारिलिङ्गग्रहणाभावेनानुमानस्याप्यप्रवृत्तेश्च नच प्रत्यक्षानुमानाभ्यां व्यतिरिक्तमर्थाविसंवादिप्रमाणान्तरमस्तीति बौद्धाः । तन्मतं निरसितुमाह नेति, पञ्चस्कन्धव्यतिरिक्तस्यात्मनोऽभावे स्वसंविदिवस्य सुखदुःखानुभवस्यानुभविता वाच्यः, न तावज्ज्ञानस्कन्धस्यायमनुभवः, तस्य क्षणिकत्वेनाति - सूक्ष्मतया सुखाद्यनुभवासम्भवात् क्रियाफलवतोः क्षणयोः परस्परमत्यन्तासम्बन्धात्कृतनाशा कृताभ्यागमप्रसङ्गाच, न च सन्तानापेक्षया नायं दोष इति वाच्यम्, सन्तानिभिन्नस्याक्षणिकस्य 30 तस्याप्यसम्भवात् । च च पूर्वो क्षण उत्तरक्षणे बासनामाश्वाय विनयतीति वाच्यम्, यतः क्षणेभ्यस्सा: यदि व्यतिरिक्ता न तर्हि ते बाखकत्वम्, यद्यव्यतिरिक्ता तदा च क्षणिकत्वमेवेत्यात्माभावे
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy