SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुजापयाम् [तृतीया चैवम् , तस्मान्नैक आत्मा, तथा प्रमाणमिदमेतञ्चाप्रमाणमिति प्रमाणेतरव्यवस्थाऽपि न स्याद्यदि भेदः प्रमाणबाधितो भवेत् । न च समारोपितभेदात्त दव्यवस्था सङ्गच्छते यथा पादे मे वेदना शिरसि मे सुखमित्यात्मनः समारोपितभेदनिमित्ता वेदनादिव्यवस्था, पादादीनां वेदनाद्यधिकरणानां भेदादात्मनि तथा व्यवस्थापनादिति वाच्यम् , आत्मनः सांशतायामेव तद्व्यवस्थोपपत्तेः, सर्वथा निरंशस्य च वस्तुनः 5 काप्यप्रसिद्धेश्च । तथा पदार्थानां भेद आकारभेदादेव, स चाकारभेदः स्वसामग्रीत उपजायमानोऽहमहमिकया प्रतीयमानेनात्मना प्रतीयत इति न तत्रानवस्थाया अवसरः। अथाविद्यां निरसितुमाहाविद्याया इति, अविद्या यद्यवस्तुसती तर्हि नासौ प्रयत्ननिवर्तनीया, न ह्यवस्तुसन्तः कूर्मरोमादयः केनचिन्निवर्त्तनीया दृष्टाः । न चास्या वास्तविकत्वे सा निवर्तनीया न भवेदिति वाच्यम् , वस्तुभूतस्यैव घटादेर्निवृत्तिदर्शनात् , प्रागभावदृष्टान्तेनास्या विच्छेदोऽपि न युक्तः, तुच्छस्वभावस्य प्रागभावस्यासिद्धेः, 10 अत एव तत्त्वज्ञानप्रागभावरूपाऽविद्येत्यपि न सङ्गच्छते, तस्य भेदज्ञानलक्षणकार्योत्पत्तौ सामर्थ्या सम्भवाच, न हि घटप्रागभावः कार्यमुत्पादयन् दृष्टः, केवलं घटवत् प्रागभावविनाशमन्तरेण तत्त्वज्ञानलक्षणं कार्यमेव नोत्पद्येत, एवं च भेदज्ञानं सतो न भवेदिति भेदप्रतिभासो न स्यात् , तस्मान्नैकात्मवादो युक्त इति भावः ॥७॥ सांख्यादिमतप्रक्षेपायाह16 विभुरकर्ता स इति चेन्न, गत्यागत्यसम्भवात् ॥ ८॥ विभुरिति, स आत्मा यतो विभुरमूर्तो नित्यश्चात एव न कर्ता, कुर्वन् हि कर्ता, आत्मा च विभुत्वादमूर्त्तत्वाच्चाकाशस्येव न परिस्पन्दलक्षणां क्रियां कर्तुमीष्टे, परिस्पन्देन ह्यप्राप्तदेशसम्बन्धो भवति, यदा च स सर्वव्यापी तदा कथं तस्य परिस्पन्दसम्भवः, तस्मात् प्रकृतिः करोति पुरुषस्तु जपास्फटिकन्यायेनोपभुत इति सांख्याः, तदेतन्मतं प्रतिक्षिपति नेति, यद्यात्माऽमूर्तो नित्यः सर्वव्यापी चात एव 20 निष्क्रिय इत्यभ्युपगम्यते तर्हि तस्य नरकादिगतिः कथं भवेत् , तेन किश्चिदप्यकृतत्वादकृतस्य तेन वेदनासम्भवात्, वेदनाया अपि क्रियारूपत्वेनाक्रियेऽसम्भवाच्च । अन्यकृतस्याप्यनुभवेऽकृतागमः स्यात् , एकेन कृतात्पातकात् पुण्याद्वा सर्वः प्राणिगणो दुःखितः सुखितो वा स्यात् । गमनाभावाद्यमनियमाद्यनुष्ठानं निरर्थकं भवेत् , एवं गत्यन्तरादागतिरपि नोपपद्यते । अक्रियत्वादेव भुजिक्रियाऽप्य सम्भविनी। न च भुजिक्रियामात्रेण तस्य सक्रियत्वेऽपि स्वल्पक्रियत्वान्निष्क्रिय एव यथैककार्षापण25 धनो न धनित्वव्यपदेशभागिति वाच्यम् , यतो दृष्टान्तोऽयं प्रतिनियतपुरुषापेक्षया वा समस्तपुरुषा पेक्षया वा, नाद्यः सिद्धसाधनात् , सहस्रादिधनवदपेक्षयाऽस्य निर्धनत्वस्य सिद्धत्वात् , न द्वितीयोऽसिद्धेः, जरञ्चीवरधार्यपेक्षया तस्य धनित्वात् , तथैव यद्यात्मापि विशिष्टसामर्थ्यवत्पुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगम्यते तर्हि न काचित् क्षतिः, सामान्यापेक्षया तु क्रियावानेव, तस्मान्न सर्वथा निष्क्रि यात्मवादो युक्त इति ॥ ८॥ 30 अथ बौद्धमतं निराकरोति पञ्चैव स्कन्धा नात्मेति चेन्न, कृतहानात्सर्वथाऽनित्यत्वासिद्धेश्च ॥९॥ पञ्चैवेति, रूपवेदनाविज्ञामसंज्ञासंस्कारस्कन्धभेदेन पञ्चैव स्कन्धास्तत्त्वं नान्यः कश्चिदात्मा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy